Sunday, July 29, 2007

Sanskrit Version of Tapasvini Kavya / HAREKRISHNA MEHER

Extracts from Canto-IV of My Complete Sanskrit Translation

of Oriya Mahakavya ‘ TAPASVINI ’

Authored by Swabhava-Kavi Gangadhara Meher

*

ForIntroduction’ please see English & Hindi ‘Tapasvini’ Canto-IV

with Original Oriya placed separately on this site.

Ref : http://hkmeher.blogspot.com/2007/07/tapasvini-canto-iv.html

http://hkmeher.blogspot.com/2007/07/hindi-version-of-tapasvini-kavya.html

http://hkmeher.blogspot.com/2007/08/oriya-kavya-tapasvini-of-swabhava-kavi.html

*

तपस्विनी-काव्यस्य चतुर्थ-सर्गात् कियदंशः

- - - - - - - - - - - - - - - - - - - -

मङ्गलं समागता सौम्याङ्गना

उषा व्याकोषारविन्द-लोचना

वैदेही-दर्शनाभिलाषं वहन्ती स्व-हृदये ।

पल्लव-कर-द्वये

नीहार-मौक्तिक-प्रकरोपहारं दधाना

सती-निलय-बहिरङ्गणे विद्यमाना

अभाषत कोकिल-कण्ठ-स्वना सूनरी,

"दर्शनं देहि सति ! प्रभाता विभावरी ॥" [१]
*

अरुण-काषायाम्बरम्,

स्मितं सुमनसां विकस्वरम्,

प्रशान्त-रूपं च स्वान्ते जनयन्ति प्रत्ययम् :

काऽपि योगेश्वरी तत्रागत्य स्वयम्

सुमधुर-वचनैः सान्त्वनां प्रदाय

समाकारयति दुःख-राशि-प्रशमनाय ।

नवीन-जीवन-दानार्थं सा ध्रुवम्

विद्यते त्रिदिव-भुवनादवतीर्णा भुवम् ॥ [२]

*

सङ्गीतं गायति स्म समीरणः,

भृङ्गो वीणा-वादन-प्रवणः ।

सुरभिरवर्त्तत नर्त्तन-तन्मया

उषाया अनुज्ञया ।

वैतालिको भूत्वा कुम्भाट-विहङ्गः

प्रारभत स्तुति-पठनम् ।

समागतो मागध-मुख्य-वेशः कलिङ्गः,

प्रोवाच सुललित-मधुर-स्वनम्,

"उत्तिष्ठ, सती-राज्याधीश्वरि !

प्रभाता विभावरी ॥" [३]

*

मुनि-वृन्द-वदनै:

समुच्चारितै-र्वेदस्वनैः

श्याम-वनं परिव्याप्तिमियाय ।

भिन्दानो विहायसमूर्द्ध्वं प्रासरत्

समुदात्त ॐकारः ।

वैकुण्ठाय तृप्तिं प्रदाय

किमनन्त-श्रुति-पथं प्राविशत्

वाणी-देव्या वीणा-झङ्कारः ?

वेला-क्रमेण काननमुज्ज्वलतामितम् ।

मन्त्र-बलैरिव बलं समुपचितम् ॥ [४]

*

समयेऽस्मिन् वर्णिनी

अनुकम्पा तपस्विनी

समुपेत्य जानकीं सतीम्

गम्भीरमभाषत भारतीम्,

"उत्तिष्ठ अयि वैदेहि !

समागतास्त्येषा

सुकोमलाङ्गी उषा,

दत्त्वा दर्शनं सन्तोषं तस्या विधेहि ।

तमसा खलु वर्त्तते

प्रतीक्षमाणा पथं ते

सकृत् सुखमवाप्तुं स्वके

समुपवेश्य त्वामङ्के ॥" [५]

*

सरोजिनी-हृद्-गते

तुषार-पृषते

प्रतिबिम्बमिवाम्बर-मणेस्तपनस्य,

मूर्त्तिं वीर-रघुनन्दनस्य

चित्रितां विधाय स्वके

शोक-मुह्यमान-मानस-फलके,

शय्यासनात् समुत्थितवती

मैथिल-सुता सती ।

अनुकम्पाया प्रणम्य चरण-द्वयम्

उषाया: पद-द्वन्द्वमवन्दत सप्रश्रयम् ॥ [६]

*

प्रशंस्य तामशंसत् सती,

"भद्रे ! संसारे विभाति भवती

ध्वान्त-विध्वंसन-दिनकरोदयाशंसिनी ।

आहरति ज्योतिर्निवहं

भवत्याः सुकोमलम्

श्रीपद-युगलम् ।

प्रपद्ये शरणमहं

तत्र दृढ़ाशाबन्धिनी ।

अयि शुभ्र-सुरभि-रसिके सुन्दरि !

भवतु मङ्गल-विधायिनी रघुवंशिकोपरि ॥" [७]

*

यामिन्यन्ते समुत्क-चेतसा

आश्रमस्य धात्री

सुनिर्मल-गात्री

पवित्र-प्रवाहा तमसा

प्राङ्गणे प्रसून-प्रकरम्

समवकीर्य सादरम्,

परिषिच्य सुरभितं जलम्,

विरच्य तारकां प्रभातीं प्रदीपकं मङ्गलम्,

अभीक्ष्णं मीनेक्षणाभ्यां निरीक्षमाणा

आसीत् सीतायाः

सत्या भूसुतायाः

शुभागमनं प्रतीक्षमाणा ॥ [८]

*

तापस-कन्यानां समादर-वन्यया

प्लावनाद् विश्वधन्या साध्वी-मणी जनक-तनया

सार्धमनुकम्पया स्नानाय

बहिरागत्य कुटिरादह्नाय

प्रयातवती तमसा-रयम् ।

तामुत्सङ्गे स्वकीये निधाय

तरङ्ग-शयौ प्रसार्य

तमसा समालिङ्गत् सप्रणयम् ॥ [९]

*

गिरया सुधा-मधुरया

सपरितोषमब्रवीत् सतीं स्वच्छ-रया,

"अयि वत्से !

आशा मे नासीन् मानसे,

प्रोज्झित-भोग-पिपासा मही-सुता

राज-रमा-हृदय-हार-भूता

समादर-समेतमङ्के

विहरिष्यति मामके ।

भाग्यवतीं मां वदिष्यन्ति जनाः

तव कारणादेव संसारे सप्रशंसा-रचनाः ॥ [१०]

*

भ्रामं भामं वने वने

गण्ड-कुहकेषु न भ्रमन्त्यहं

विलङ्घ्य विविध-बाधा-निवहं

सुविमले मम जीवने ।

ध्वान्तं न दुःखं गणयन्ती

प्रकाशं न सुखं भावयन्ती

दूर-मार्गमग्रे सरामि नम्रानना निरलसम् ।

विदधामि सार्थकतां जन्मनः

सन्तोषयन्ती नीर-दानैरात्मनः

सकल-कूल-सन्निवासिनां मानसम् ॥ [११]

*

मन्दाकिनी गोदावरी चैते

तत्समस्त-गुणै-र्मत्सम्मिते वर्त्तेते ;

तथापि ताभ्यां समेधितं गौरवं

नितरां समवाप्य तावकम्

पावन-पद-चिह्नमव्यय-वैभवं

शुभाङ्ग-सौरभं च देव-पद-प्रदायकम् ।

वाञ्छितमासीत् तद् द्वयं मम कृते,

लाञ्छितासं चेतसि तस्मादृते ॥ [१२]

*

कृतवत्यासं शुभ-कर्म-निचयम्,

धर्मस्त्वामतः समानयद् यथासमयम्

मम मर्माभिप्रायं विज्ञाय ।

लब्धमस्ति मया दुर्लभं धनम्,

करिष्यामि परितृप्ति-साधनम्

मदुत्सङ्गे निधाय

सम्बोधनमहम्

विधाय प्रत्यहम् ।

भविष्यति शरीर-सौरभं तावकम्

मज्जीवन-कालुष्य-विनाशकम् ॥ [१३]

*

मदुत्सङ्ग-केलि-लोलाः सारसाः

श्रेणि-संहता हंसाः

चक्रवाक-दम्पतयः

युगल-भाव-युक्ताश्‍च वक-पङ्क्तयः

त्वत्पुण्य-तनु-प्रक्षालन-पूतं तोयं मे पिवन्तः

स्थास्यन्ति सर्वे मदन्तिके जीवन्तः ।

कलरव-कैतवेन गायन्तस्तव कीर्त्ति-चयम्

विधास्यन्ति मे श्रुति-सन्तोषं सातिशयम् ॥ [१४]

*

पवित्रीभवितुं पतिव्रता-तनु-स्पर्शात्

बीरुद्-वसति-विरागाः

कुसुम-वर्गाश्‍चलित-दूर-मार्गाः

निमज्जिताः सन्तः

प्लवमाना धावन्तः

भृशमागत्य त्वदन्तिके भ्रमिष्यन्ति समन्तात् ।

अवगाहन-वेलायां मम पयसि

तान् पद्भ्यां कृपामयि ! नापाकरिष्यसि ॥ [१५]

*

तीरे मदीये विन्यस्य पद-द्वयम्

विहरिष्यसि वत्से ! सुखमयम्,

तद्व्याजेन देव-द्युतिं वितीर्य भास्वराम् ।

समवाप्य तां विपिन-पादपाः

प्रोत्फुल्लावयवा विधृत-देव-दर्पाः

शान्तिं विधास्यन्ति नितराम् ।

रुची रुचिरा पाटला श्यामला

वर्त्स्यति पल्लवेषु सुचिरं सुविमला ॥" [१६]

*

जानक्या व्यक्तमकारि,

"अनाविलमिदं वारि

नारिकेल-नीर-सम्मितम्

माधुर्य-प्रपूरितम् ।

न खलु तन्नीरम्,

भाति जनन्याः प्रत्यक्षमेव क्षीरम् ।
पर्वत-वक्षोज-विनिःसृतमेतत्

प्रवहति पीयूष-निष्यन्दवत्

कृते मृत-कल्पायाः

अस्याः कन्यकायाः सीतायाः ।

देशेऽस्मिन्नहो ! त्वमेव माता मे सदाशया

तमसा-मूर्त्ति-र्मद्‍वेदना-विदीर्ण-हृदया ॥ [१७]

*

छेद-भिन्नः पृष्ठ-देशस्ते,

अपर-पार्श्वस्तु दृश्यते ।

तथापि सुतायाः सन्तोष-विधानाय त्वं

समुन्मील्य स्नेह-नयन-द्वन्द्वं

विन्यस्य वचः प्रीति-माधुर्यमयम्

रचयसि चाटुं सप्रणयम् ।

धन्य-धन्यं मातः ! हृदयं ते

मम दुःखातप-निमित्तं सैकतं वर्त्तते ॥ [१८]

*

श्रीराम-साम्राज्ये राजति या

जन-नेत्र-दूषिता

सुचिर-निर्वासिता

सीता सम्प्रतिविद्यते,

सैव त्वदीये मते

स्वीय-पातिव्रत्य-धर्म-शक्त्या

स्थावर-जङ्गमान् सर्वाञ्जगति

पवित्रयितुं प्रभविष्यति ।

अवगम्यते सम्यग् जनन्या

निज-कन्याया वेदना ।

विभाति दग्ध-वदना कन्या

जननी-नयनयोश्चन्द्रानना ॥ [१९]

*

निश्‍चितं तव तीरम्

संवृत्तं मे शरण्यं सुचिरम् ।

विद्यते ममाशा शान्तिमये

त्वदीये पदारविन्द-द्वये ।

चराचरं सकलं

शून्यमेव यस्याः कृते,

भूमण्डले मात्रङ्क-मात्रं केवलं

समादर-निधानं तस्या वर्त्तते ।

जनयित्री यस्या रत्न-गर्भा मेदिनी,

मार्गयिष्यति स्थानमन्यत् कथं वा नन्दिनी ?" [२०]

* *

(Extracted from published works)

* * *

1 comment: