Sri-Sambaleswari-Stotram
By: Dr. Harekrishna Meher
(From Sanskrit
Stotra-kavya *Stavaarchana-Stavakam*)
= = = = = = = = =
श्रीसम्बलेश्वरी-स्तोत्रम्
रचयिता
: डॉ. हरेकृष्ण-मेहेरः
(स्तवार्चन-स्तवकम् इति स्तोत्रकाव्यतः)
= = = = = = = = =
लोकवन्द्या शक्तिराद्या महामाया महीयसी ।
जयति सा पराम्बिका देवी श्रीसम्बलेश्वरी ॥ (१)
*
कमनीय-कलेवरा शमनी सर्वदुष्कृताम्
।
ममतामयी मातस्त्वं नमस्तुभ्यं महेश्वरि
! ॥ (२)
*
महानदी-तीरे रम्ये मन्दिरे सुप्रतिष्ठिता ।
अधिष्ठात्री त्वं सम्बलपुरस्य प्रिय-सम्बलम् ॥ (३)
*
शाल्मलीद्रुम-निम्नस्थां माल्य-मन्दार-पूजिताम् ।
कल्मषापहां मातस्त्वां नमामः सम्बलेश्वरीम् ॥ (४)
*
उत्सवे धवलानना सिन्दूर-वदना स्वयम्
।
जगदुद्धारिणी देवि ! श्रद्धया त्वां नुमो वयम् ॥ (५)
*
त्र्यम्बक-वल्लभा देवी सम्बलेश्वरी
पावनी ।
अम्बुजाक्षि ! नमस्तुभ्यं शम्भु-शक्त्यै
नमोनमः ॥ (६)
*
तवाशीर्वादः सर्वेषां ददातु मनोवाञ्छितम्
।
तव स्नेहाञ्चलच्छाया भक्तान् रक्षतु सौख्यदा ॥ (७)
*
अम्ब ! त्वं सम्बलेश्वरी दोषजातं क्षमस्व नः ।
त्रायस्व विपत्तारिणी दह दुःखं नमोऽस्तु ते ॥ (८)
*
स्तोत्रं श्रीसम्बलेश्वरी-देव्याः प्रियं मुदावहम् ।
विनाशयतु दुष्कृतं जगतां तनुतां
शुभम् ॥ (९)
= इति श्रीहरेकृष्णमेहेर-प्रणीतं श्रीसम्बलेश्वरी-स्तोत्रं सम्पूर्णम् ।
= = = = = = =
Related Links :
Stavarchana-Stavakam (स्तवार्चन-स्तवकम्)
:
* *
*
Contributions of Dr. Harekrishna Meher to Sanskrit
Literature:
Link
:
*
Translated Kavyas by : Dr.Harekrishna Meher :
Link :
* * *
Devotional Songs and Poems of Dr. Harekrishna Meher : Link : https://hkmeher.blogspot.com/2023/01/devotional-sanskrit-songs-drharekrishna.html
= = =
No comments:
Post a Comment