Monday, September 8, 2008

श्रीमद्‌भगवद्‌गीतायाः सामाजिक-महत्त्वम् (Śrīmad-Bhagavad-Gītāyāh Sāmājika-Mahattvam)

Sanskrit Article :
Śrīmad-Bhagavad-Gītāyāh Sāmājika-Mahattvam
(Social Importance of Śrīmad-Bhagavad-Gītā)
By : Dr. Harekrishna Meher
*
श्रीमद्‌भगवद्‌गीतायाः सामाजिक-महत्त्वम्
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - -
डॉ. हरेकृष्ण-मेहेरः


॥ १ ॥
श्रीमद्‌भगवद्‌गीता एको विश्वजनीनो ग्रन्थः । इयं सङ्घर्षमय-मानव-जीवनस्य पावनी चिरन्तनी गाथा । महामुनि-वेदव्यास-प्रणीतस्य महाभारत-ग्रन्थस्य भीष्मपर्वणः पञ्चविंशाध्यायतः गीतायाः आरम्भः । धर्मार्थ-काम-मोक्ष-रूपाः जीवनस्य चत्वारः पुरुषार्थाः महाभारते सम्यग् वर्णिताः सन्ति । अत्र ग्रन्थे यद् विद्यते, अन्यत्र संसारे तद् विद्यते । अत्र ग्रन्थे यत् नास्ति, अन्यत्र कस्मिन्नपि स्थाने तन्नास्ति । स्वयं व्यासदेवेन कथितम् -
" धर्मे ह्यर्थे च कामे च मोक्षे च भरतर्षभ !
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित् ॥"


अन्य-रूपेण कथयितुं शक्यते यत् भारते यद् वर्त्तते, समस्त-संसारे तद् वर्त्तते; भारते यत् नास्ति, सर्वस्मिन् जगति अपि तन्नास्ति ।

मनुष्यस्य दुःख-सुखमये जीवने बहुप्रकाराः सांसारिकाः जञ्जाल-संघर्ष-संग्रामाः परिलक्ष्यन्ते । तत्र पुन-र्विद्यते उत्थान-पतनादि । एतादृशायां विषम-दशायां जीवनस्य झञ्झादिषु अपि सामाजिक-मूल्यबोधेन सह आत्मनः प्रतिष्ठापनं मानवस्य लक्ष्यं भवति । अष्टादशाध्याय-संवलिता गीता श्रीकृष्णार्जुन-संवाद-रूपेण परिचितास्ति । राज्ञः धृतराष्ट्रस्य सन्निधौ सञ्जयेन महाभारतीय-युद्धस्य प्रत्यक्ष-विवरणी वर्णिता समवलोक्यते । श्रीकृष्णार्जुनयोः कथोपकथनमपि सञ्जयेन प्रत्यक्षरूपेण समुपस्थापितम् आत्म-विवरणी-मध्ये ।

अर्जुनः स्वयं वीरश्रेष्ठः अद्वितीयः धनुर्धरः । युद्धारम्भात् प्राक् सारथिना श्रीकृष्णेन सह रथारूढ़ः सन् स रण-मध्ये कति-काल-पर्यन्तं चतुर्दिशासु निरीक्षते । स्वपक्षस्य प्रतिपक्षस्य च सेनावाहिनी-मध्ये आत्मीय-स्वजनाः ज्ञाति-कुटुम्बाः गुरुजनाः बन्धुवर्गाश्च तेन अवलोकिताः । ततः तस्य मनसि गभीर-प्रतिक्रिया सञ्जाता । अन्याय-मार्गे परिचालितानां कौरवाणां दुराचरणं विरुद्ध्य धर्मयुद्धं कर्त्तुं तेन कृत-प्रतिज्ञेनापि सम्प्रति बन्धु-जनान् वीक्ष्य निष्क्रियता समाश्रिता । तस्य वीरत्वं शिथिलतया ग्रस्तम् । गाण्डीव-धनुर्धारणार्थं स असमर्थः सञ्जातः ।

अर्जुनस्य मनसि भावना समुदिता यत् स्वपक्षस्य प्रतिपक्षस्य वा सैनिकानां जनानां च हनने पापं भविष्यति, जन-क्षयः घटिष्यते, सामाजिकी विशृङ्खला सम्पत्स्यते, अनीति-प्रवृत्त्या प्रदूषणेन च लोक-जीवनं कलुषितं भविष्यति । युद्धे सञ्जाते ध्वंसः अनिवार्यः । एवंभूतं विचारयन् अर्जुनः युद्धात् पराङ्‍मुखः सञ्जातः । कातरतया दुर्बलतया च तस्य मानसिकी शारीरिकी अवस्था दोदुल्यमाना संवृत्ता । किंकर्त्तव्य-विमूढ़ः सन् स श्रीकृष्णं कथयति –
" शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ।"

तदनन्तरं श्रीकृष्णः अभवत् तस्य वीरवरस्य सन्मार्ग-प्रदर्शकः गुरुः । अर्जुनमुद्‌बोधयन् स्वीय-कर्त्तव्याचरणं प्रति श्रीकृष्णः गुरुत्वमारोपयति । परिशेषे अर्जुनः स्वं प्रत्यभिजानन् युद्धे अंश-ग्रहणं कुरुते । सत्यस्य न्यायस्य धर्मस्य च विजयो भवति । यथार्थ-रूपेण निगदितम् – "यतो धर्मस्ततो जयः।"

॥ २ ॥
क्षत्रियस्य धर्मः कर्त्तव्यं तु स्वीय-पराक्रमेण अन्यायं विरुद्ध्य संग्रामं कृत्वा न्यायस्य प्रतिष्ठापनम्, शरणापन्नस्य सुरक्षणम्, युद्ध-क्षेत्राद् अपलायनादिकं च । श्रीकृष्णस्य काम्यं वै सत्य-न्याय-धर्म-सदाचरस्य प्रतिष्ठा । अतः धर्मयुद्धे प्रवर्त्तयितुं स अर्जुनं समुपदिशति ज्ञान-कर्म-विषये । श्रीकृष्णेन यः उपदेशः परामर्शः उद्‍बोधनं वा प्रदीयते, तत् सर्वं केवले अर्जुन-रूपे व्यक्ति-विशेषे न सीमितम्, अधिकन्तु समग्र-मानवजाति-निमित्तं तद् उद्दिष्टमस्ति । गीतायाः सारतत्त्वं ज्ञान-कर्म-भक्ति-रूपं त्रयमेव । एतत् तत्त्वत्रयं मानव-जीवनेन सह ओतप्रोतम् । सामाजिक-क्षेत्रे स्वकीय-कर्त्तव्य-सम्पादनेन जीवनस्य सार्थकता प्रतिपाद्यते । गीता जीवनस्य शास्त्रमेव । अत्र अर्जुनः मानव-जातेः प्रतिनिधि-रूपेण वर्णितः ।

मानवस्य सामाजिक-जीवने आध्यात्मिकता अङ्ग-विशेषभूता । ईश्वरं प्रति भक्ति-नैवेद्यार्पणं भारतीय-संस्कृतेः महत्त्वपूर्णो विषयः । मानवतायां निहितमस्ति ईश्वरीय-तत्त्वम् । गीता प्रददाति तां शिक्षां जन-समाजाय । मानव-सेवायां विद्यते माधव-सेवा । आस्तिक-दर्शनस्य भाव-धारया सह ब्रह्मास्मि-तत्त्वम् अस्मिन् गर्भितं विद्यते ।

अर्जुनवत् वीर-योद्धा समय-क्रमेण मानसिक-दैन्येन दौर्बल्येन च प्रभावितः सञ्जायते । परन्तु एतादृशो विषादः सामयिक-कुहेलिका-सदृशः । ज्ञानालोकागमे अज्ञानान्धकारो दूरीभवति । श्रीकृष्ण-प्रदत्तेन समुपदेशेन अर्जुन-मानसात् संशयो विषाद-भावश्च विनश्यतः । स आत्मानं प्रत्यभिजानाति परमात्म-स्वरूपम् । सामाजिक-दिशा सोत्साहं कर्त्तव्यं समाचरन् स विजयी भवति परिशेषे ।

॥ ३ ॥
पञ्चभूत-निर्मितं शरीरं समय-क्रमेण विनाशं याति । परन्तु शरीर-रूपे गृहे वसतः आत्मनः क्षयो विनाशो वा न भवति । कालानुसारेण शरीरे वाल्य-यौवन-वार्धक्यावस्थानां परिवर्त्तनं घटते । किन्तु शरीर-निवासिनः आत्मनः न कोऽपि परिवर्त्तनं न वा कश्चिद् विकारो जायते । मनुष्य-कृतैः मारणास्त्रैः प्रकृति-कृतैः सलिल-पवनानलैश्च आत्मनः न कश्चित् क्षतिः सञ्जायते । शरीरात्मनोः विवेचनं ज्ञानस्य प्रमुखो विषयः । प्रत्येक-प्राणी आत्म-स्वरूपः । आत्मनो नास्ति जननम् अथवा मरणम् । केवलं पञ्चभूत-रचितं कलेवरं समयानुसारेण पञ्चभूतेषु लीयते । अयं विलयो विनाशो वा मृत्यु-रूपेण कथ्यते । मनुष्यः जीर्ण-वस्त्रं त्यक्त्वा यथा नूतनं वस्त्रं धारयति, तथा आत्मा जीर्ण-देहं परित्यज्य नूतनं शरीरं प्रविशति । गीतायां वर्णितमस्ति –
"वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही ॥"

नवीन-शरीरे आत्मनः प्रवेशः ‘जन्म’-नाम्ना कथ्यते । इदं जन्म-मरण-तत्त्वं मर्त्त्य-जगति कदापि अन्यथा न भवति । यथार्थमुक्तमेव – “जातस्य हि ध्रुवो मृत्यु-र्ध्रुवं जन्म मृतस्य च ।” कर्मफल-भोग-निमित्तं मनुष्यः सामाजिक-प्राणि-रूपेण बारम्बारं जन्म-ग्रहणं कुरुते, मृत्यु-वरणं च । एतन्मतं भारतीयानाम् आस्तिक-दर्शनानाम् । जन्म-मृत्यु-चक्रं पुनरावृत्तिरिति कथ्यते । मनुष्यः सांसारिक-प्रपञ्चे वसन् माया-ममता-प्रलोभनासक्ति-प्रभावैः कर्म-फल-बद्धो भवति । सुकर्मणः परिणामो भवति उत्तमः, कुकर्मणः परिणामो मन्दः । एतत् सत्यं युगे युगे प्रतिष्ठितं सर्वैः स्वीकृतम् ।

॥ ४ ॥
गीतायां वर्णितो धर्म-शब्दो विशेषतः कर्म बोधयति । कामना-रहितं कर्म "निष्काम-कर्म" इति उच्यते । उद्देश्यं विना अथवा फलाशां विना केवलं कर्त्तव्यानुरोधेन कर्माचरणं निष्कामं भवति । अर्जुनं प्रति उपदेश-माध्यमेन श्रीकृष्णेन निष्काम-कर्मणः विवरणं प्रदत्तम् । महर्षि-व्यासदेवस्य अभिव्यक्तौ –
"कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्म-फल-हेतु-र्भू-र्मा ते सङ्गोऽस्त्वकर्मणि ॥"

कर्म-करणे एव मनुष्यस्य अधिकारो विद्यते । कर्म-फले तस्य नास्ति अधिकारः । अतः कर्म-फलस्य कारणं न भवितुम् उपदेशः प्रदत्तः । तथापि मनुष्यः कर्मणः अकरणे प्रवृत्तो न भवतु इति निष्काम-कर्मणः तात्पर्यम् । कर्मणि यदि कामना निहिता भवति, कर्मणः वैफल्ये सति दुःखं जायते । अनेन मानसिकी स्थितिः विचलिता भवति । अस्मात् कारणात् सामाजिक-प्रसङ्गेऽपि आसक्तिहीनं कर्म विधेयमिति परामर्शः दीयते । संसारे साधारणतः जनाः सकाम-करणे प्रवृत्ताः भवन्ति । किन्तु निष्काम-कर्म-योगिनः विरलाः संदृश्यन्ते ।

उद्देश्यं विना यदि कर्म क्रियते, तर्हि कर्म-करणं वृथा इति प्रश्ने कृते कथ्यते यत् मनुष्यः अथवा प्राणी कर्म विना शरीर-धारणे असमर्थो भवति । अस्मात् कर्म-करणं सुनिश्चितम् । कर्मणः अकरणे प्रवृत्तिः न स्यात् – अस्यार्थस्तु कर्म-करणे प्रवृत्तिः भवतु इति । कर्मफल-क्षयात् कर्म-बन्धनाभावात् जन्म-मृत्यु-चक्रेण बन्धनं न जायते । अतः कर्म-फले आशायाः आसक्ते-र्वा निषेधः कृतोऽस्ति । सकाम-कर्मापेक्षया निष्काम-कर्म श्रेयस्करमिति वर्णितम् ।

कर्माचरणेऽपि सामाजिक-कर्त्तव्य-बोधः विद्यते, जीवनस्य मूल्यबोधोऽस्ति । संसार-मध्ये साधारण-जनाः मायाबद्धाः अज्ञान-वशीभूताश्च जीवन्ति । समाज-परिसरे उत्तमाः जनाः यत् कर्म समाचरन्ति, अन्ये जनाः तेषां पथमनुसरन्ति । अस्मात् कारणात् महान्तो जनाः सर्वथा सत्कर्म-प्रवृत्ताः भवेयुः । फलतः साधारण-जनाः तान् आदर्श-रूपेण स्थापयित्वा सत्कर्म-तत्पराः भविष्यन्ति । गीतायां यथार्थ-रूपेण वर्ण्यते –
"यद् यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत् प्रमाणं कुरुते लोकस्तदनुवर्त्तते ॥"


कर्माचरणे एव वैयक्तिकः तथा सामाजिकः कर्त्तव्य-बोधो निहितः अस्ति । तद् आचरणमेव समय-क्रमेण मनुष्यस्य व्यक्तित्वं प्रकाशयति । उत्तमाचरण-द्वारा मनुष्यः सामाजिक-दृष्ट्या परोपकारी यशस्वी लोकप्रियश्च भवति । कुकर्म-करणेन मानवः सामाजिक-निन्दायाः अपयशसः भाजनं जायते । साम्प्रतिके वैज्ञानिके युगे मानवस्य व्यक्तिगतः सामाजिकश्च कर्त्तव्यबोधः हानिं भजते । एतद्‍द्वारा मानव-समाजः पथ-भ्रष्टो विशृङ्खलितो लक्ष्यते । अस्मिन् परिप्रेक्ष्ये वैयिक्तिके सामाजिके क्षेत्रे च सत्कर्म प्रति प्रेरणा-प्रदान-निमित्तं गीतायाः अमृत-वाणी दिग्‍दर्शिनी-रूपेण नितान्तं सुकल्याणी उपादेया ।

॥ ५ ॥
गीतायाः द्वितीयाध्याये आत्मसंयमं स्थितप्रज्ञमधिकृत्य विशद-वर्णना समुपलभ्यते । इन्द्रियाणि मनःसमेतानि अत्यन्तं चञ्चल-स्वभावानि । इन्द्रियाणां वशीकरणे सत्कर्मणि अग्रसरो भवितुं सद्‍बुद्धिः जागर्त्ति । उच्छृङ्खलता मानव-चरित्रं दूषयति । अद्यतने विज्ञान-युगे आत्मसंयमस्य अभावः सामाजिक-पर्यावरणं विपर्यस्तं करोति । काम-पुरुषार्थस्य प्राबल्यं समग्र-समाजे अशान्तेः झञ्झां सृजति । मानव-जीवनस्य मूल्यं मर्यादाबोधश्च साम्प्रतिके दूषित-परिवेशे अत्यन्तं मालिन्यं भजते । एतद्-दुरवस्थातः समुद्धार-निमित्तं विश्वजनीन-शास्रस्य श्रीमद्‍भगवद्‍गीता-रूपस्य समुपादेयता नूनं प्रणिधेया ।

आविष्कृतानां नव-नवानां पदार्थानां दुरुपयोग-करणे अद्यतनाः आधुनिकाः जनाः सदैव तत्पराः विभ्रान्ताश्च दरीदृश्यन्ते । । एतद् विनाशि तत्त्वं न केवलं भारतीय-संस्कृत्याः, अपितु समग्र-मानव-जातेः ध्वंसार्थं मार्गं परिष्करोति । मारणास्त्रैः साम्प्रतिकाः निरीहाः जनाः भीति-ग्रस्ताः असुरक्षिताः निवसन्ति । यथा यथा पार्थिव-भौतिक-प्रगतिश्चलति, तथा तथा मानवस्य मानसिकी अधोगतिः परिलक्ष्यते । अतः परमात्मनः अंश-स्वरूपाः मानवाः साम्प्रतिके विज्ञान-युगे ज्ञान-नेत्रमुन्मील्य स्वान् प्रति दृष्टिपातं कुर्युः, आत्म-समीक्षणमपि करणीयम् । सदाचरण-सत्प्रेरणा-माध्यमेन मानवतायाः विजयो भविष्यति । अन्यथा, आसुरिकतायाः कवलेन ग्रस्तो मानव-समाजः निष्पेषितः प्रदूषितश्च भविता । धर्म-संस्थापकः अधर्म-संहारकः दुष्ट-दलनकारी साधु-पालनकारी भगवान् एव समेषामेकमात्रं शरणम् ।

* * *

No comments: