Showing posts with label Sanskrit Kavya 'Jivanaalekhyam' : Modern Poems. Show all posts
Showing posts with label Sanskrit Kavya 'Jivanaalekhyam' : Modern Poems. Show all posts

Wednesday, March 9, 2016

'Jivana-Natakam' (जीवन-नाटकम्) Sanskrit Poem: Dr.Harekrishna Meher

जीवन-नाटकम् (संस्कृत-कविता)
* डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = =
जीवनं नाम नाटकम्
कदा मुक्त-बाटकं कदा रुद्ध-कपाटकम्,
यत्राभिनयति नटः सर्वो मर्त्त्य-जनः
विविध-वेश-विभूषितो रञ्जयति मनः ॥

कदा समवाप्य चापल्यं विद्युच्छटकम्,
कदा प्रकटित-दुःख-कण्टकम्,
कदा समालभ्य सौख्य-सुरभि-सुमनः
भावित-भुवनः कदा कृत-वन-सेवनः संयमनः

कदा धनिको ह्यनेक-धन-धान्यः
कदा निर्धनो धृत-दैन्यः,
कदा कलित-कलङ्कः
कदा रङ्कः  कदा सशङ्कः
कदा पुनर्दर्शितातङ्कः
कदा धृत-कालुष्य-पङ्कः ॥

कदा दुर्नाम-निन्द्यः कदा स्वनाम-धन्यः
कदा कृपणः कदा वदान्यः,
कदा भक्तिमान्  स आस्तिकः
कदा भक्ति-विरहितो नास्तिकः  

कदा कारुणिकः पैशुन-शून्यः
कदा नगराध्युषितः कदा वन्यः,
कदा  व्याल-खल-गरलोपमः   
क्रूरः समुज्झित-कारुण्यो विषमः ॥

कदा शिशुः मृदुलो वलित-लावण्यः
कदा किशोरः कदा चारु-तारुण्यः
कदा वार्द्धकाबद्ध-गतिः 
कदा धैर्य-सम्भावितो गाम्भीर्य-मत्त-मतिः

घटनावल्यां  प्रसादावसादमय्याम्
प्राप्नोति कोऽपि सुशीतल-शय्याम्
कोपी कोऽप्यातपै-र्नितरां तान्तः
घृष्यते सङ्घर्षणेन ह्यविश्रान्तः
मथित-हृदयः समुत्थान-पतनैः
क्षोभित-सिन्धूर्मि-निभैः प्रभात-सायन्तनैः

कदा अतृप्तः संदृप्तः,
कदा प्रहर्षितः संतृप्तः,
कदा मरीचिका-रुचि-बद्धः
पुनः प्रबुद्धः परिहृत-श्रद्धः ॥

कदा रस-राजि-विलेपन-जर्जरितः
कदा नीरसो नैराश्य-भरितः,
कदा भीमः कदा कान्तो रमणीयः
कदा शक्तिमान्  विक्रान्तो वरणीयः

संसार-रङ्ग-मञ्चे
सञ्चित-भाव-प्रपञ्चे
विश्रम्य विश्वे वैचित्र्य-विश्रुते
समनुभूय समभिनीय
कदा प्रदाय कदा चानीय
क्लान्ताक्लान्तः शान्तः
वह्नि-तापैस्त्यक्त-चिह्नो निह्नुते
कृतान्तक-नगरी-जवनिकान्तः
= = = = = = = 
(Taken from Sanskrit Kāvya ‘Jīvanālekhyam’ of Harekrishna Meher)  
* * *  
‘Jivanaalekhyam’ Kavya : Link :
= = = = = = 


‘Mahila’ (महिला) Sanskrit Poem: Dr. Harekrishna Meher

‘Mahila’ (महिला) Sanskrit Poem: 
By : Dr. Harekrishna Meher 
= = = = = = = = = = = = = =  
महिला (संस्कृत-कविता)
* डॉ. हरेकृष्ण-मेहेरः  
= = = = = = = = = = = = = =  

नारी एव नारीणां हन्त्री
कम्पते यया शम्पा-पातिन्या
स्वजाति-घातिन्या
लोक-हृदय-तन्त्री
परिणय-वेदिकायां युवत्यः
यौतुक-ज्वालायामार्जववत्यः
बलीभवन्ति विवाहिताः
तयैव सपारुष्यं बहुदूर-वाहिताः

यदा वित्त-प्राप्ति-मत्त-चित्ता
श्वश्रू-र्भवति खल-नायिका धूर्त्ता,
ननान्दा वर्त्तते प्रकट-कूटनीति-समर्थिका
परिवारेण सार्धं  चक्रान्त-कारिका,
अदरिद्रा दरिद्रा वा श्येन-दृष्टि-रूपा
पर-द्रव्य-द्रविण-लोलुपा,
जायते दुर्जननी दुर्जना श्वश्रूः,
भवति वधूः प्राणधव-मार्गण-बिद्धा साश्रुः

नारी-नामान्तरा ईर्ष्या,
ईर्ष्या-नामान्तराऽपि नारी
कपट-गुरोः पट्टशिष्या
कदा वज्र-मुखी कदा कुसुम-सुकुमारी  

नारी नववधू-रूपेण रोदिति,
सैव श्वश्रू-रूपा परिवर्त्तिता रोदयति,
स्वकीये प्रतीक्षित-सुखे परिवारे
विषमे संसार-पारावारे
नववधूमपरां स्वागतीकृत्य
कृत्रिम-प्रेम-मन्त्रान् व्याहृत्य

बहु-रूपिण्या रमण्याः
निरक्षराया वा विदुष्याः
चित्तं ज्ञातुममुष्याः
यदा प्रभवन्ति देवाः शरण्याः,
कुतो वा सामान्य-मनुष्याः
शंसित-सांसारिक-कालुष्याः ?

सा नाभिजानाति सुरूपां महिलां  
स्वां महीयसीं  सुगुणशीलां   
धर्मधारिणीं  सत्कर्मकारिणीं
सदाचारिणीं  जगदुद्धारिणीं  
प्रेम-मङ्गलमयीं मूर्त्तिमद्वितीयां 
समादरणीयां  महनीयां
सुगृहिणीं लक्ष्मी-स्वरूपिणीं  
क्ष्मा-प्रतिमां देवत्व-प्रसारिणीं
कला-सौन्दर्य-निधानभूताम् 
मा-पर्यायां  स्वमर्यादा-परिपूताम्   
* * * 
‘Jivanaalekhyam’ Kavya : Link :
= = = = = = 

Tuesday, December 22, 2015

जीवन-तरङ्गिणी (Jivana-Tarangini): Sanskrit Poem by Dr.Harekrishna Meher

Original Sanskrit Poem
'Jivana-Tarangini' 
By : Dr. Harekrishna Meher 
= = = = = = = = =  

जीवन-तरङ्गिणी
= = = = = = = = = = = = = = = =
जीवनं नाम तरङ्गिणी
व्याहताऽपि प्रवहति सुरङ्गिणी
सुख-दुःख-पार-द्वया
मिलन-विच्छेद-समया
विलङ्घित-सङ्कट-सङ्घ-प्रतिबन्धका
बन्धुर-मार्ग-गामिन्यपि मान्योदका,
सश्रद्धा समुच्छलित-प्रेम-वन्या
कल-निर्झरा चलति सुधन्या,
कदा निरस्त-निरिङ्गिणी
पुन-र्ध्यात-मधुर-रागिणी
सिन्धु-सङ्गम-सुधापायिनी
मञ्जुल-मञ्जीर-स्वना सञ्जीविनी

* * * 

English Translation by the Author 
= = = = = = = = = = = = = = = = = 

Life, A River
- - - - - - - - - - 

Life is a River
that flows with sportive motion
even facing obstructions.
It has both the banks
that are pleasure and pain,
and it promises both union and separation.

Crossing several adversities and hindrances,
it proceeds over the path of ups and downs,
yet its water is regarded by all.
It bears faith and here overflows
with inundation of love and affections,
and steps glorified with indistinct sweet sound.
Sometimes keeping aside the covering,
also contemplating melodious tunes,
wishing for drink of ambrosia
while mingling with sea,
and spreading the sweet jingling sound,
it forms an elixir for the beings.

* * *