Tuesday, September 29, 2009

Sanskrit Poem 'He Kale !' ( O Kali ! ) / H.K. Meher

'He Kale !'
‘Sanskrit Poem by : Dr. Harekrishna Meher
(From Sanskrit Kāvya ‘Jīvanālekhyam’)
- - - - - - - - - - - - - - - - - - - - - - - - - - -

हे कले ! (संस्कृत-कविता)
रचयिता : डा. हरेकृष्ण-मेहेरः
(‘जीवनालेख्यम्'-काव्यतः)
= = = = = = = = = = = = =

किं किं न कुर्वन्ति
मानवा जन्तवो जगति
पतितास्ते विकराल-कवले ?
धन्योऽसि कले ! ।।

धर्मो बिभेति धृतैक-पादः,
अधर्मस्ते सखा नृत्यति त्रिपादः ।
रचयति कलहार्चित-स्वलीलाम्
गृहे गृहे स्नेहभरे परिवारे
राज्ये महागारे कान्तारे वा पारावारे
नृशंस-ध्वंसशीलाम् ।
त्वयि दर्शित-बले
धन्योऽसि कले ! ।।

कामिनी काञ्चनं भूमी
तव निवासा अमी ।
प्रतिभूरसि चार्वाकस्य,
प्रतिपदं द्वन्द्वं न सृजसि वा कस्य ?
काम-क्रोध-लोभ-मोह-मद-मात्सर्य-सहितः
सर्व-दुष्ट-पाषण्ड-स्वार्थ-हितः ।
परिक्षितः शपथ-परीक्षणे
राजत्वं कुरुषे परुष-क्षणे
काले वृत-खले
धन्योऽसि कले ! ।।

पुरुषस्य कलह-बीजवपनं कुर्वतः
हिंसा-द्वेष-भीति-प्रवञ्चना-रतः
घोरान्धकार-कृत-सेवा-व्रतः
जाग्रतोऽसि जगति बलपूर्वकं पुरतः ।
अखण्डिते मही-मण्डले
विराजति पुण्य-श्‍लोके नले
विनतोऽसि किं तत्पदोत्पले ?
अधन्योऽसि कले ! ।।

वित्त-निमित्तं नाशयसि
स्वर्णिम-सुखमयं परिवारम्,
भूमि-मात्र-निमित्तं विरचयसि
असमयं युद्धमसारम् ।
नारी-निमित्तं रोपयसि
दौर्हृदं वैरमविरतम् ।
लौल्यं विकासयसि जन-मनसि
वित्त-सत्ता-निमित्तम् ।
किं तिष्ठसि पर्यावरणे
परस्परं समुज्झित-रणे
सुविमले पुष्कले ?
अधन्योऽसि कले ! ।।

मित्रमपि शत्रूयते,
अपात्रमपि स्तूयते,
त्वदीय-माहात्म्यतः
सहोदरा अपि हन्यन्ते ।
विवेकिनः सज्जनास्त्वामतः
निरतामस्पृश्यं मन्यन्ते ।
किं वर्त्तसे दीप्यमाने पुण्य-फले ?
अधन्योऽसि कले ! ।।

= = = = = = = = = = =

No comments: