Saturday, February 20, 2016

मौन-व्यञ्जना (Mauna-Vyanjanaa) Sanskrit Poem by Harekrishna Meher

* Mauna-Vyanjana * 
Sanskrit Poem By: Dr. Harekrishna Meher 
मौन-व्यञ्जना  
(संस्कृत-कविता) 
रचयिता : डॉ. हरेकृष्ण-मेहेरः 
= = = = = = = = = = = = = = = 
कदाचित् स्वल्प-कथनेनापि
प्रकाशतामभ्येति बह्वभिप्रायः,
यथा व्यञ्जना-रञ्जिता अभिधा
कदाचिद् वचनोच्चारणं विनापि
आन्तरिकाशयः प्रकाशतां याति बहुधा   

कदाचिद् वाचालतयापि
समुच्चारितै-र्बहुवचनैः
नाभिव्यज्यते मर्म-भावना सुविशदम् । 
तूष्णींभावोऽपि कदाचित्
अभिव्यनक्ति मुखरताम्
कदाचिद् मुख-रताऽपि मुखरता
नीरवतां भजते
आभ्यन्तराभिप्रायं प्रकाशयितुम्

निर्वचना भाव-भङ्गी
सृजति कदा तरङ्गं
नान्दनिकं कदा वा कारुणिकम्,
कदा विश्व-व्यापकं
कदा पारमाणविकम्,
भवतु वा क्षणिकम्
अथवा लाक्षणिकम्

प्रेम-नर्मादि-व्यापारेषु
अधरयो-र्नीरवता भवति चेत्,
नयनयोरन्तः स्फुरन्ति
सूक्ष्म-सुकुमार-वचनानि
दुःख-शोकादिष्वपि
तथैव परिलक्ष्यते 
निर्वचनाभिव्यक्तिः ॥ 

मन्दिर-पार्वत्यगुहा-प्राचीरादिषु 
नाना-कारुकला-कलितानां 
खोदितानां मूर्त्तिराजीनां 
निर्वचन-परिप्रकाशाः 
कुर्वन्ति कथालापमान्तरिकं  
दर्शक-हृदयैः सार्धम्  ।। 

निसर्गस्य विविध-विभावाः 
तरु-लता-तरङ्गिणी-सरित्पत्यादयः 
भावुकानुभविनां हृदयैः समं 
योजयन्ति निर्वचन-सम्पर्कम्  ।। 

नीरवं वचो हृदयङ्गमं कर्त्तुं
सामर्थ्यमान्तरिकमपेक्ष्यते
संस्कार-सम्पन्नम्
अन्यथा सर्वाभिव्यक्तिः
सुप्रकाशितापि भजते वैफल्यम्

नीरवताया अपि भाषाऽस्ति,
कोऽपि शिक्षयति वा शास्ति
ब्रवीति नीरवता
कदा हृदयस्य गोपनीय-कथाम्
अन्तःस्थलस्य सुप्त-व्यथाम्
यया भाव्यते सहृदयस्य भाववत्ता
* * *

(Published in “Lokabhāshā-Sushrih”, Febrary-March 2006, 
 Lokabhasha Prachar Samiti,  Puri.)
 = = = = = = = =


No comments: