Tuesday, December 30, 2008

Sanskrit Song: वर्ष नव ! ते स्वागतम् (Welcome, O New Year !)/ Harekrishna Meher

'Svāgatam, Varsha Nava ! Te Svāgatam'
( Extracted from Sanskrit Kāvya Pushpāñjali-Vichitrā)
Lyrics and Tuning by : Dr. Harekrishna Meher
*
स्वागतम्, वर्ष नव ! ते स्वागतम्
( ‘पुष्पाञ्जलि-विचित्रा ’- काव्यतः)    
गीति-रचना तथा स्वर-रचना :
डा. हरेकृष्ण-मेहेरः      
= = = = = = = = = = = = = = = = 


स्वागतम्, वर्ष नव ! ते स्वागतम्,
समय ! भवते स्वागतम् ।
नीयतां नीराजना  धीयतां नव-सर्जना
त्वदनुकम्पा शं तनोतु हि सन्ततम् ।
स्वागतम्, वर्ष नव ! ते स्वागतम् ।
स्वागतं ते स्वागतम् ॥ (ध्रुवम्)
*
कति सुनामी-भूमिकम्पा भुवि न जाने,
घोर-वात्या वृष्टि-शम्पा तेऽवदाने ।
काल हे ! तव दीप्त-महिमा
तप्त- करुणा  दृप्त- सहिमा,
 त्वत्-स्वरूपं चक्र-घूर्णनमागतम् ।
अस्मदीया प्रार्थना  क्षीयतां दुर्वासना
चन्दनार्द्रं धेहि वा मरु-सैकतम् ।
स्वागतम्, वर्ष नव ! ते स्वागतम् ॥ (1)
*
हे पुरातन ! नित्य-नूतन ! त्वदभिधाने,
कालिमानं दह समस्तं स्वाभिमाने ।
नीतवानसि शुभ-विदायं
पीतवानसि भुवन-कायं
रोचिषां ते धेहि धर्म-तपोव्रतम् ।
आस्तिकी परिकल्पना  वर्धतां दृढ़-साधना
आत्म-तत्त्वं राजतां हृदि जाग्रतम् ।
स्वागतम्, वर्ष नव ! ते स्वागतम् ॥ (2) 
*
आन्तरिकता दीव्यतु सदा सद्‌विधाने,
मानविकता जीवतु चिरं दीप्यमाने ।
दुःख-सुखमय-जीवन-रथा
भवति मानव-गतिरवितथा,
भातु गुण्यं पुण्य-मङ्गल-सङ्गतम् । 
भ्रातृ-भाव-निदर्शना  उज्ज्वला सम्भावना
भ्राजतां नो भारतं प्रतिभा-रतम् ।
स्वागतम्, वर्ष नव ! ते स्वागतम् ।
स्वागतं ते स्वागतम् ॥ (3)
* * * * * 
(इयं गीतिका रूपक-तालस्य अथवा दीपचन्दी-तालस्य 
मध्य-लयेन परिवेषणीया ।)
= = = = = = = = = = = 




No comments: