Monday, July 25, 2022

Saansaarikam (Sanskrit Poem): सांसारिकम् : Dr. Harekrishna Meher

 * सांसारिकम् *

(मौलिक-संस्कृत-कविता)

रचयिता : डॉ. हरेकृष्ण-मेहेरः

= = = = = = = = =

आपात-रम्य-सुखराशि-रसे निमग्नः

पापादि-दारुण-महोदर-मध्य-लग्नः ।

व्यापाद्य मानविकताचरितां स्वकान्तिं

तापान् विषह्य विविधान् किमुपैति शान्तिम् ॥ (१)

*

कामादि-सक्त-हृदयं मदयन् सगर्वं

वामाध्वना भुवि जनो हरतीह सर्वम् ।

सामान्य-मानव-तनुं गणयन् प्रकामं

नामात्मनः कलुषितं कुरुतेऽभिरामम् ॥ (२)

*

स्वान्तं यदा विचलितं सभयं सशङ्कं

ध्वान्तं न याति परिहृत्य यदा हृदङ्कम् ।

नान्तं च याति कलुषं वृत-रक्तपातं

शान्तं कथं भवति वा परिवेशजातम् ॥ (३)

*

प्रालेय-शैलगतमुज्ज्वल-शीतलत्वं

काले कला-सुकलितं ग्रहणीय-तत्त्वम् ।

भालेऽस्ति यत्तु लिखितं न कदापनेयं

ताले च नृत्य-मधुरे सरसं हि गेयम् ॥ (४)

*

किं जीवनं सविजयं धृत-नैक-शस्त्रं

किं सीवनं प्रियकरं प्रतिजीर्णवस्त्रम् ।

किं जीवनं सुखमयं निरतोपभोगं

किं जीवनं हृत-दयं वृत-विप्रयोगम् ॥ (५)

*

विश्वास एव भुवि चेत् स्वजनेषु छिन्नः

निःश्वास एव तनुषु प्रतिभाति खिन्नः ।

विश्वात्मना कथमहो मिलनं भवेद् वा

निःस्वार्थभाव-भरिता यदि नास्ति सेवा ॥ (६)

*

वेशा भवन्तु विविधाः किमु तत्र चित्रं

देशात्मबोध-रचना तनुतां पवित्रम् ।

लेशा अपीह सुकृताचरणेषु नित्यं

क्लेशापनोदन-कृते प्रभवन्ति सत्यम् ॥ (७)

= = =  

(वसन्ततिलका-न्दसा विरचिता मौलिकी कविता)

= = = 

(This Poem is Included in Svasti-Kavitanjalih Kavya)  

FaceBook Link :

https://www.facebook.com/harekrishna.meher.7/posts/pfbid03XSHfQsEN5DwrqR8QHsXrhNRFM2CE6JmDcxeTt1bJfe7xkC7uUj3bvTVUG12vB8yl

= =

Svasti-Kavitanjalih (Sanskrit Gitikavya): Dr. Harekrishna Meher :

https://hkmeher.blogspot.com/2022/07/svasti-kavitanjalih-sanskrit-gitikavya.html

* * 

Contributions of Dr.Harekrishna Meher to Sanskrit Literature :

https://hkmeher.blogspot.com/2013/04/drharekrishna-mehers-contributions-to.html

*

Biodata: Dr. Harekrishna Meher : 

http://hkmeher.blogspot.com/2012/06/brief-biodata-english-dr-harekrishna.html

= = =

No comments: