Jaya Durge Shivade ! (Original Sanskrit Song)
By: Dr. Harekrishna Meher
= = = = = = = = = = = =
जय दुर्गे शिवदे ! (मौलिक-संस्कृत-गीतम्)
* डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = = =
ॐ जय
दुर्गे ! शिवदे !, जय जय दुर्गे शिवदे !
दुर्गति-हारिणि
! मातः !, तव चरणे प्रणिपातः,
हे
शुभदे ! वरदे !, (तव) पद-पद्मे वन्दे ॥
ॐ जय
दुर्गे ! शिवदे !, जय जय दुर्गे शिवदे ! ॥
(ध्रुवम्)
*
केशरि-वाहिनि
! गौरी, त्वं गिरिराज-सुता । (अयि !)
आद्या
शक्तिः सुभगा, सुर-नरवृन्द-नुता ॥ (१)
*
दुष्ट-विदारण-रुद्रा,
त्वं त्रिभुवन-धात्री । (अयि !)
महिष-विमर्दिनि
! देवी, जगतां परिपात्री ॥ (२)
*
मङ्गलमयि
! मातस्त्वं, गङ्गाधर-कान्ता । (अयि !)
दिव्याभरणै-र्भव्या, प्रेममयी शान्ता ॥ (३)
*
दुरितं
हर जननी मे, कुरु सुदयां प्रति माम् । (अयि !)
हैमवतीं
नौमि त्वां, स्नेहमयीं प्रतिमाम् ॥ (४)
*
स्वस्तिमयं
तव हस्ते, शूलं विकरालम् । (अयि !)
शङ्करि
! सकलातङ्कं, हर सङ्कटजालम् ॥ (५)
*
तव
शुभ-दिव्यं ज्योतिः, उज्ज्वलयतु भुवनम् । (अयि !)
सुन्दरयतु
परिवेशं, सुखयतु विश्वजनम् ॥ (६)
*
तव
करुणामृत-धारा, शमयतु गुरु-तापम् । (अयि !)
शीतलयतु
संसारं, हृत्वा कलि-पापम् ॥ (७)
*
भवभय-नाशिनि
! भीमां, परमानन्द-भराम् । (अयि !)
त्वां
भगवतीं नतोऽहं, सौम्यां भक्तिपराम् ॥ (८)
*
मार्जय
सकलं दोषं, कुरु मां कृतकृत्यम् । (अयि !)
मातस्तवार्च्चनेयं,
शं वितरतु नित्यम् ॥ (९)
= = = = = =
[इयं गीतिका प्रायः कहरवा-ताल-मध्यलयेन परिवेषणीया ।]
= = = = = = (Included in 'Pushpanjali-Vichitra' Gitikavya)
*
this Sanskrit Song has been
Published in 'BARTIKA', Famous Literary Quarterly
Magazine,
Dashahara Special Issue
-2019 of Dasharathapur, Jajpur, Odisha.
= = = = = =
Updated : Video : YouTube :
= = =
Related Links :
Biodata :
Link : http://hkmeher.blogspot.in/2012/06/brief-biodata-english-dr-harekrishna.html
Pushpanjali-Vichitra (Gitikavyam) :
*Biodata :
*
Literary Works of Dr. Harekrishna Meher :
Literary Awards and Felicitations to Dr. Harekrishna Meher:
http://hkmeher.blogspot.com/2018/09/literary-awards-and-felicitations-to-dr.html
http://hkmeher.blogspot.com/2018/09/literary-awards-and-felicitations-to-dr.html
*
Contributions
of Dr. Harekrishna Meher to Sanskrit Literature :
Link :
*
No comments:
Post a Comment