Showing posts with label Asram Ajasram. Show all posts
Showing posts with label Asram Ajasram. Show all posts

Wednesday, March 9, 2016

Sanskrit Poem 'Kanya-Bhrunasya Bhanitih' (कन्याभ्रूणस्य भणितिः)/Dr. HKMeher

कन्याभ्रूणस्य भणितिः (संस्कृत-कविता)
* डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = = = =
वदामि मातः ! अर्भका गर्भतोऽहम्,
किं त्वं संत्यजसि संसार-मोहम् ?
असीम-स्नेह-ममतानां भित्ति-भूमिस्त्वम्,
कथं मत्कृते वर्त्तसे भीति-भूमिस्त्वम् ?
मम मरणाय मारणाय वा प्रवर्त्तिताऽसि,
द्वन्द्व-भ्रान्त्या कथं नर्त्तिताऽसि ?

जननी करुणामयी त्वं पावनी
सन्तानानां  स्वर्ग-सुखावनी
कन्यात्व-हेतोः किं पुत्री मारणीया ?
त्वमपि कन्यासि कस्यापि समादरणीया
तर्हि ममोपरि कुलिशपातः कथम् ?
समीहसे किंनिमित्तं गन्तुं दुष्पथम् ?

कया सामाजिक-रीत्या 
विधीयते निरपराधाया हत्या मे ?
या सानन्दं विहरति ते गर्भारामे
अप्रिया सदा भवति किं वाणी सत्या ?
किं धन्यासि त्वं कन्या-हन्त्री,
धन्यः सहायको मारयिता
धन्यः भवतु वा पिता,
धन्या सा वा मारयित्री ?   

मृत्युश्चिरन्तनं सत्यम्,
परन्तु बलपूर्वकं प्रत्यपत्यम् 
जन्मतः पूर्वं मृत्युः कथं पात्यते ?  
किं मम लोतकानां धार्यते
अन्तर्गलितानां किञ्चिदपि मूल्यम्
किं मन्निधनं  ते प्रसन्नत्वं साफल्यम् ?
भाति किमिदमतुल्यम्
वात्सल्यं तव शल्यम् ?
नाहं ते नन्दिनी,
त्वत्कृतेऽस्मि नूनं क्रन्दिनी  

कथं त्वं कुल-निपातिनी
कन्याविघातिनी महापातक-प्रवर्त्तिनी,
स्वविवेक-शक्त्या आत्मतत्त्वं 
नाभिजानासि किं मातस्त्वं
स्वीय-हृदय-कन्दरे भावित-मानवता
सर्वंसहा विद्यसे स्वैर-महोत्सवता ?
सत्कर्मणा पुत्रवत् पुत्री अपि सर्वथा
मातरं पितरं समुद्धर्त्तुं समर्था

* * * 

निर्यातिता (Niryaatitaa- Sanskrit Poem)/Harekrishna Meher

निर्यातिता (संस्कृत-कविता)
डॉहरेकृष्ण-मेहेरः
= = = = = = = = = = = = = = =
सर्वनाशं यान्ति शान्ति-सौख्यादि-गुणाः,
आत्मीय-स्वजना एव यदा
भवन्ति स्वकीय-गृह-निपात-निपुणाः
नालक्ष्यते मानवेतरेषु प्राणिष्वपि कदा
कुत्रापीत्थं द्वेषोऽथवा गूढ़ाविश्वासः,
नावलोक्यते वा स्वीय-संसार-ग्रासः

विलीनतां गताः सम्प्रति शालीनताः,
यत्र नार्यस्तु रुज्यन्ते  दूयन्ते तत्र देवताः
इति नव्या पङ्क्तिरेव समुच्चैः समीचीना
पूज्यन्ते-रमन्ते-शब्दाभ्यां विहीना    
शक्यते पुनर्वक्तुमित्थम्
तथ्यमेवमवितथम्,
यत्र निर्यातिता नार्यो  मोदन्ते तत्र दानवाः,
यत्र ह्येताश्च दह्यन्ते  नन्दन्ति राक्षसा नवाः

धन्योऽयं संयम-शून्यः समाजः,
धन्यमिदं सभ्यं जनपदम्,
स्वकुल-ध्वंसि-कार्येषु ते सुखभाजः
भवन्ति ता वा प्रशंसास्पदम्

यौतुकादि-विरोधिना नियम-विधानेन
नारी-जागरणादि-बहुव्यवस्था-निधानेन 
साफल्यं यास्यति वास्तविकम् 
उद्देश्यं कल्याणकारकं सामाजिकम्,  
स्वतो जायते चेत्
सचेतनता जागरूकता,
हार्दिकं नाद्रियते चेत्
स्वदेश-समुन्नतौ मानविकता ?

* * *  

Saturday, February 20, 2016

Sanskrit Poem 'अस्रमजस्रम्' : 'AsramAjasram' (Tears Immense): Dr.Harekrishna Meher

Asramajasram (Tears Immense) : 
Sanskrit Poem By: Dr. Harekrishna Meher 
*
अस्रमजस्रम्  (संस्कृत-कविता) 
रचयिता : डॉ. हरेकृष्ण-मेहेरः 
= = = = = = = = = = = = = = = = 
यत्र यत्र न्यायोपरि दृश्यते
अन्यायस्य सामयिकोऽपि ग्रासः, 
अधर्मस्य धर्मोपरि निक्षिप्तः सन्त्रासः,
असत्यस्य सत्योपरि प्रहारात्मकःप्रासः,   
अकारणमन्तर्देशो जायते
शङ्कित-भावोच्छ्वासः,
तत्र तत्र सहृदयानां नयन-द्वयम्
विमुञ्चति  धीराश्रु-रयम्,
दुर्भावनान्दोलितं जायते हृदयम्,
अज्ञाताशङ्कया सभयं सविस्मयम् 
वहति करुण-धारा निरर्गलम्,
भवति चित्तं धैर्य-च्युतं भीति-विह्वलम्  

यत्र यत्र न्यायस्य विजयो दृश्यते,
श्रूयतेसमनुभूयते पठ्यते ज्ञायते, 
तत्र तत्र भवति नूनम् 
सत्यस्य स्वरूपं गहनम्
उन्मोचितम्प्रकाशितम्,  
विशदीकृतम्प्रतिष्ठितम् 

तत् तद् दृष्ट्वा श्रुत्वा
समनुभूय पठित्वा ज्ञात्वावा
सहृदय-जनानां नयन-युगलम्
आन्तर-भाव-तरलम् 
युगपत्  सञ्जायते लोतक-परिषिक्तम्
अनिर्वचनीय-रसाप्लुतम् 

हृद्देशो जायते समङ्कितात्म-विश्वासः
प्रसन्नतायाःसन्निवासः 
मानसं जायते समुच्छलम्
परमानन्द-सबलम्  

किं भवति तत् सत्यस्य रहस्यम् ?
किं तन् न्यायस्य सामञ्जस्यम् ?
किं तद् धर्मस्य सारस्यम् ?
किं वा सचेतसां सांमनस्यम् ?

एतल्लोतक-तल्लोतकयोर्मध्ये
परस्पर-भाव-वैविध्ये
केनावबुध्यते पार्थक्यम् ,
रसग्राहिणां समास्वादनैक्यम् ?

* * * 
Related Link : 

**"*