RigVede Paryāvaraņam
* * *
ऋग्वेदे पर्यावरणम्
* डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = =
॥ १ ॥
समग्र विश्वे यदस्माकं चतुःपार्श्वेषु अस्मान् परितः आवृणोति, अस्माकं जीवनं कार्य-कलापं च प्रभावयति, तत् ‘पर्यावरणम्’ इति निगद्यते । परितः आवरणं पर्यावरणम् । परिवेश-नाम्नाऽपि पर्यावरणं परिचितम् । तरु-लता-वन-गिरि-तटिनी-झरणा-पशु-विहग-प्रभृतयः सूर्य-चन्द्र-ग्रह-नक्षत्र-ऋतु-चक्रादयो मानव-जीवने गभीरं रेखापातं कुर्वन्ति । क्षित्यप्-तेजोमरुद्-व्योमरूपैः पञ्चभूतै-र्मानव-कलेवरं विनिर्मितमस्ति, काले च सम्प्राप्ते तेष्वेव विलीयते । सर्वमेतत् प्राकृतिक-पर्यावरणान्तर्गतम् । काय-मनोवाक्यैः समाचरणात् मानवस्य गृहस्थ-पारिवारिक-जीवने सामाजिक-पर्यावरणमपि महत्त्वपूर्णं स्थानमर्हति । वैदिक-संस्कृत-वाङ्मये पर्यावरण-सम्बन्धीनि बहूनि तत्त्वानि समुपलभ्यन्ते ।
(Ecology in RigVeda)
Sanskrit Article by : Dr. Harekrishna Meher* * *
ऋग्वेदे पर्यावरणम्
* डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = =
॥ १ ॥
परमेश्वरस्य
विविध-सृष्टिप्रक्रियायां प्रकृत्या साकं मानव-जीवनस्य अभिन्न-सम्बन्धः
सर्वजन-सुविदितः । संसारेऽस्मिन् मनुष्यः सामाजिक-प्राणी । तस्य
आचार-व्यवहार-वेशभूषा-कथन-चलनादिषु विविध-क्षेत्रेषु प्रकृत्याः प्रभावः परिलक्ष्यते । प्राकृतिक-विभावैः सामाजिक-विभावैश्च प्राणि-जगत्
सर्वतोभावेन भवति प्रभावितम् । परस्पर-सम्पर्क-विचारणायां ‘पर्यावरण’-शब्दस्यविशेष-चर्चा समनुष्ठीयते साम्प्रतिके विज्ञान-युगे । संस्कृत-वाङ्मयं
यादृशं प्राचीनतमम्, तादृशमाधुनिकतममपि ।
साम्प्रतिक-कालेऽपि संस्कृत-प्रतिपादिताः विविध-विषयाः समुपयोगिनो विद्यन्ते ।
प्राणि-जीवनस्य सुस्थत्व-विधानार्थं वैदिकाः मन्त्रद्रष्टारो महामनीषिणः निरतं प्रयत्नशीला आसन् । अतस्तैः प्रकृत्याः प्रत्येकस्मिन् विभावे मानवास्तित्वं समारोपितम् । वनस्पतीनां सञ्जीवनी-शक्त्या सह मानव-जीवनस्य अभेद-सम्पर्को विद्यते अन्योन्याश्रयश्च । जलानल-समीरणादयो नाना-वनस्पतयश्च मानवानां कृते जीवनाधायकाः सुख-शान्ति-परमानन्दप्रदा इति ऋषिभि-र्वैदिकैः शुभकामनाः शंसिताः । वैदिक-साहित्ये पर्यावरणस्य प्रायः सर्वे पक्षाः लब्ध-स्पर्शाः दृश्यन्ते । निवेद्यन्ते वेदेषु देवतानां कृते प्रार्थनाः । देवतास्ताः प्राकृतिक-शक्तीनां मानवायितं रूपं धारयन्ति । सौर-शक्तिः सूर्यदेव-रूपेण सम्पूजिता । वायु-शक्तिः इन्द्र-मरुतादि-रूपेण संस्तुता । नदी-समुद्र-प्रभृतयोऽपि देवता-रूपेण समाराधिताः ।
होम-यज्ञानुष्ठानादिषु विविध-पारिवारिक-धार्मिक-कार्येषु यानि आहुति-द्रव्याणि विधीयन्ते, तानि सर्वाणि पर्यावरण-परिष्करणाय अपि समुद्दिष्टानि । आहुत्यर्पणोत्थिताः धूमाः वातावरण-परिशुद्धि-कारकाः । घृत-दध्यादीनि होम-द्रव्याणि तदाधारभूतानां पशूनां सुरक्षार्थं प्रेरयन्ति स्म, यतः प्रकृत्याः सन्तुलनं सञ्जायते । ब्रीहि-यव-तण्डुल-गोधूमादयो वनस्पतिजाः पदार्थाः यज्ञ-होमादि-कर्मसु प्रयुक्ताः सन्तो मेघ-वृष्टि-सहायतां कुर्वन्ति । नानाविधानां मूल-पत्र-पुष्प-फलादीनां मानव-जीवन-क्षेत्रे व्यवहारोऽपि प्रकृत्या सह निविड़-सम्पर्कं द्योतयति । पर्यावरण-सुरक्षार्थं स्वास्थ्य-समृद्धि-साधनार्थं च अनेकान् देवान् प्रति स्तुतयो विहिताः संदृश्यन्ते वैदिक-साहित्ये । प्रस्तुते लेखेऽस्मिन् ऋग्वेदे प्रतिपादिताः पर्यावरण-सम्पृक्ताः कतिपये प्राकृतिक-सामाजिक-विषयाः विचारमर्हन्ति ।
॥ २ ॥
प्रतिवासरं प्रकृति-जनन्याः स्नेह-पूर्णे उत्सङ्गे खेलन्तः आर्या ऋषयः प्रकृत्याः विविधान् विभावान् मनोरमं सजीवं चित्रितवन्तः । सूर्य-वायु-रूपादि-देवताभिः साकं मैत्री-सम्पन्नाः इव समालोक्यन्ते । सूर्यदेवः सकल-शक्त्याधार-भूतः प्राणि-जगतां प्राणाधायक-तत्त्व-रूपेण स्तूयतेतराम् । ऋग्वेदे वर्ण्यते यद् देवानां कमनीय-मुख-सदृशो मित्र-वरुणाग्निदेवानां नेत्र-स्वरूपः स्थावर-जङ्गमानामात्मभूतः सूर्यः समुदितः सन् भूलोक-स्वर्लोकान्तरिक्ष-लोकान् परिव्याप्य विराजते ।
सूर्य-किरणाः न केवलं ध्वान्त-हारिणः, अपि च दुर्गन्ध-निवारकाः पवित्रकारकाः प्रसरन्ति । शतपथ-ब्राह्मणे साधु निगदितम् - ‘एते वा उत्पवितारो यत् सूर्यस्य रश्मयः’ (१/१/३/६) । ‘सविता अपामीवां बाधते’ (ऋग्. १/३५/९) इति ऋचा सूर्यस्य रोग-निराकरण-शक्तिं प्रथयति । प्राकृतिके सामाजिकेऽपि पर्यावरणे सूर्यस्य महदवदानं वर्त्तते इति सर्व-विज्ञान-सम्मतं तथ्यम् ।
पर्जन्य-सूक्ते पर्जन्य-देवं प्रति स्तुति-र्निवेदिता । ओषधयो यस्य महिम्ना विश्वरूपा भवन्ति, स पर्जन्यः समेषां कृते महत् सुखं प्रददातु इति सप्रश्रयं काम्यते । प्रस्तुत-मन्त्रः इत्थम् - ‘यस्य व्रत ओषधी-र्विश्वरूपाः स नः पर्जन्य महि शर्म यच्छ ।’ (ऋग्. ५/८३/५) । सर्वेषां मङ्गल-कामनया सह प्राकृतिक-पर्यावरणस्य सुस्थत्व-रक्षण-हेतोः पुनर्निवेद्यते पर्जन्य-देवं प्रति । वैदिकर्षिः स्तौति -
‘महान्तं कोशमुदचा नि षिञ्च स्यन्दतां कुल्या निषिताः पुरस्तात् ।
घृतेन द्यावापृथिवी व्युन्धि सुप्रपाणं भवत्वध्न्याभ्यः ॥’ (ऋग्. 5/83/8)
‘महान्तं कोशमुदचा नि षिञ्च स्यन्दतां कुल्या निषिताः पुरस्तात् ।
घृतेन द्यावापृथिवी व्युन्धि सुप्रपाणं भवत्वध्न्याभ्यः ॥’ (ऋग्. 5/83/8)
प्रोक्ते मन्त्रे पर्जन्यं प्रति प्रार्थना क्रियते : ‘ हे पर्जन्य ! महत् जल-पात्रं मेघरूपमूर्ध्वभागे नय । ततः अधो वारि-सेचनं कुरु । अबन्धनास्तटिन्यो निर्बाधं पुरः प्रवहतु । वृष्टि-जल-रूपेण घृतेन द्युलोकं भूलोकं च विशेषेण आर्द्रं कुरु, गवादीनां कृते यथा पानार्थं पर्याप्तं जलं सुलभं भवेत् ।’ एवंरूपेण समुदारं मधुरं पर्यावरणं विबुधैरार्यैः सर्वेषां कल्याण-विधौ समीप्सितम् ।
‘शं नः सूर्य उरुचक्षा उदेतु शं नश्चतस्रः प्रदिशो भवन्तु ।’ (ऋग. ७/३५/८) इति ऋचायां वर्ण्यते यत् सुविस्तृत-तेजोमय-सूर्योदयः अस्माकं सर्वेषां कृते शान्तिं प्रयच्छतु, सर्वाः दिशाः शान्तिं मङ्गलं च वितरन्तु ।
ऋग्वेदीये रुद्र-सूक्ते मरुद्-गणमुद्दिश्य प्रार्थनाः निवेदिताः दृश्यन्ते । उदाहरण-स्वरुपाः,
‘आ वो भेषजा मरुतः शुचीनिया शंतमा वृषणो या मयोभु ।
यानि मनुरवृणीता पिता न-
स्ता शं च योश्च रुद्रस्य वश्मि ॥’ ( ऋग्. २/३३/१३)
अस्य मन्त्रस्य तात्पर्यमिदम् : ‘हे रुद्र-पुत्राः मरुतः ! युष्माकं यानि भेषजानि आरोग्यकराणि पवित्राणि सुख-कल्याण-साधकानि सन्ति, यानि अस्माकं पूर्वजेन मनुना वृतानि, तानि व्याधि-विनाशनानि सर्वाणि, रुद्रदेवस्य सुखानन्दं च समवाप्तुं कामयेऽहम् ।’ अत्र मन्त्रे शारीरिक-सौख्यारोग्य-समेतं भेषज-तत्त्वानामपि सम्बन्धः प्रतिपादितोऽस्ति, यो जन-जीवने स्वस्थ-वातावरणं जनयितुं प्रभवति ।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्षोऽरिष्टनेमिः
स्वस्ति नो वृहस्पति-र्दधातु ॥’ (ऋग्. १/८९),
शं न इन्द्रो वृहस्पतिः शं नो विष्णुरुरुक्रमः ॥’ (ऋग्. १/९०/९)
इत्यादि-मन्त्रेषु विभिन्न-देवतानां स्तुति-परकाः प्रार्थनाः विश्वमानव-मङ्गल-विधानार्थं समुद्दिष्टाः विलोक्यन्ते, यद्द्वारा सामाजिक-पर्यावरणं सुख-शान्तिमयं भवेत् ।
॥ ३ ॥
॥ ३ ॥
आर्या ऋषिगणाः मधुवचनैः पारिवारिक-सामाजिक-जीवने प्रीतिमाधुरी-विकास-निमित्तं प्रयासरताः आसन् । यथा प्राकृतिक-परिवेशस्य माधुर्यमयत्वं समुद्भावितम्, तथा सामाजिक-परिवेशस्यापि शान्ति-सौन्दर्यमयत्वं सुप्रतिपादितम् । ऋग्वेदीये मधुमती-सूक्ते वायु-सरित्-समुद्रोषधि-यामिन्युषा-रजो-द्युलोक-वनस्पति-सूर्य-गवादयः सर्वे मधुमयाः सन्तः सर्वेषामस्माकं विश्वजनानां कृते मधुमयं जीवनं वितरन्तु इति शुभकामना सम्पोषिता । सम्पृक्त-मन्त्रा: एवंभूताः,
माध्वी-र्नः सन्त्वोषधीः ॥
मधु नक्तमुतोषसो मधुमत् पार्थिवं रजः ।
मधु द्यौरस्तु नः पिता ॥
मधुमान् नो वनस्पति-र्मधुमाँ अस्तु सूर्यः ।
माध्वी-र्गावो भवन्तु नः ॥’ (ऋग्. मधुमती-सूक्तम् ,१/९०/ ६-८)
एषु मन्त्रेषु ‘नः’ इति शब्दः सर्वेषामस्माकं कृते विश्ववासिनां कृते निर्दिष्टः परिलक्ष्यते । नास्त्यत्र किञ्चिदपि स्वार्थ-परायणत्वम् । अत्र निखिल-जगतां सामाजिक-जीवनयात्रायां प्राकृतिक-तत्त्वानां यथा मधुमय-सामञ्जस्य-बोधनं भवेत्, तथा मधुरं जीवन-सङ्गीतं समुदात्त-कण्ठैरुद्घोषितम् । सामाजिक-पर्यावरणे मधुमयत्व-परिचायकानि वेद-वचनानि वास्तव-दृष्ट्या अतुलनीयत्वं लभन्ते ।
त्वं हि विश्व भेषजो देवानां दूत ईयसे ॥’ (ऋग्. १०/१३७/३),
‘वात आ वातु भेषजं शभु मयोभु ना हृदे ।
प्र ण आयुंषि तारिषत् ॥' ( ऋग्. १०/१८९/१) ।
अत्र प्राकृतिक-विभावेभ्यो वायुं प्रति प्रार्थना क्रियते । वायुरस्माकं हृदय-निमित्तं मङ्गलमयो भवतु, सौख्यप्रदम् औषध-रूपं वहन् प्रसरतु । अस्माकं जीवने दीर्घायुष्यं च वितरतु इति सुखमय-वातावरणस्य प्रसारणाय विहितास्ति महनीया शुभाशंसा ।
‘तन्नो वातो मयोभु वातु भेषजं तन्मातापृथिवी तत्पिता द्यौः ।
तद्ग्रावाणः सोमसुतोमयोभुवस्तदश्विना
शृणुतं धिष्ण्या युवम् ॥’ ( ऋग्. 1/89/4)
इति मन्त्रे निवेद्यते यत् वायुः अस्माकं सुख-स्वास्थ्य-कारकम् औषधादिकं प्रयच्छतु । मातृ-स्वरूपिणी पृथिवी, पितृ-रूपो द्यु-लोकः, सोमरस-निष्कासने सहायकाः शुभदायकाः पाषाण-समूहाः अस्माकं कृते तद् वितरन्तु । हे ज्ञानगम्य अश्विनीकुमारद्वय ! कृपया श्रूयतां प्रार्थना । ‘ एवं देवान् प्रति दीर्घायुष्यारोग्य-लाभार्थम् अनेकत्र प्रार्थनादिकं वर्णितम् ।
वैदिक-साहित्ये उपनिषदादि-दार्शनिक-ग्रन्थेषु प्रकृति-मानवयोः सुसम्बन्धः रूपकादि-काव्यालङ्कार-माध्यमेन प्रतिपादितोऽस्ति ।
'द्वा सुपर्णा सयुजा सखायासमानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्य-
नश्नन्नन्यो अभिचाकशीति ॥' (मुण्डक-उप. ३/१/१) ।
॥ ४ ॥
भारतीय-दर्शन-परम्परायां या जीवन-चर्या विकसिता, तस्यां प्रकृतिं प्रति विरोधः प्रकृत्युपरि मानवस्य विजय-लिप्सा वा नावलोक्यते । प्राकृतिक-विभावेषु सश्रद्धं देव-स्वरूपारोपणं प्रतीयते । वस्तुतः प्रकृत्या साकं सामञ्जस्येन वैदिक-यज्ञक्रियादि-सम्पादनाय मनीषिभिः समुपदिश्यते । पाश्चात्य-संस्कृतौ मानवस्य मूल-लक्ष्यं पार्थिव-पदार्थोपभोग-विलास-व्यसनादिकमेव । तत्र प्रकृत्युपरि स्वीयं प्रभुत्वं विस्तारयितुं प्रकृतिं निज-दासीरूपां विधातुं साम्प्रतिकाः वैज्ञानिकाः निरन्तरं उद्यम-रताः । भारतीय-संस्कृतौ जीवनस्य मुख्यं लक्ष्यं चतुर्वर्ग-प्रधाना मुक्तिरेव । आस्तिक्यामत्र संस्कृतौ गृहस्थ-पारिवारिक-सामाजिक-व्यापारेषु स्नेह-सुख-समृद्धि-लाभार्थं प्रकृत्या सह मानवस्य हार्दिको मधुर-सम्पर्को निर्देशितः । मानव-समाजयो-र्मध्ये सद्भावनापि सन्दर्शिता । सामाजिक-परिवेशो यथा समेषां हित-साधनाय भवेत्, तथा सर्वैः समाचरणीयमिति भारतीय-संस्कृत्याः विशेषत्वम् ।
भारतीय-दर्शन-परम्परायां या जीवन-चर्या विकसिता, तस्यां प्रकृतिं प्रति विरोधः प्रकृत्युपरि मानवस्य विजय-लिप्सा वा नावलोक्यते । प्राकृतिक-विभावेषु सश्रद्धं देव-स्वरूपारोपणं प्रतीयते । वस्तुतः प्रकृत्या साकं सामञ्जस्येन वैदिक-यज्ञक्रियादि-सम्पादनाय मनीषिभिः समुपदिश्यते । पाश्चात्य-संस्कृतौ मानवस्य मूल-लक्ष्यं पार्थिव-पदार्थोपभोग-विलास-व्यसनादिकमेव । तत्र प्रकृत्युपरि स्वीयं प्रभुत्वं विस्तारयितुं प्रकृतिं निज-दासीरूपां विधातुं साम्प्रतिकाः वैज्ञानिकाः निरन्तरं उद्यम-रताः । भारतीय-संस्कृतौ जीवनस्य मुख्यं लक्ष्यं चतुर्वर्ग-प्रधाना मुक्तिरेव । आस्तिक्यामत्र संस्कृतौ गृहस्थ-पारिवारिक-सामाजिक-व्यापारेषु स्नेह-सुख-समृद्धि-लाभार्थं प्रकृत्या सह मानवस्य हार्दिको मधुर-सम्पर्को निर्देशितः । मानव-समाजयो-र्मध्ये सद्भावनापि सन्दर्शिता । सामाजिक-परिवेशो यथा समेषां हित-साधनाय भवेत्, तथा सर्वैः समाचरणीयमिति भारतीय-संस्कृत्याः विशेषत्वम् ।
चारित्रोत्कर्षः आत्मबलाधायको भवति । सत्कर्माचरणं सदाचारपालनं वैदिकैः ऋषिभिः समुपदिष्टम् । ‘आचारः परमो धर्मः’ (मनुस्मृतिः १/१०८) इति यत् आचार्य-मनुना सुप्रतिपादितम्, तत् वैदिक-साहित्यमाधारीकृत्य एव वर्त्तते । दीप्तिमान् आशावादः , मङ्गलमयी भावना आत्मविश्वासश्च मानव-जीवनस्य समुत्कर्षं साधयन्ति । आशावादस्य समुत्साह-सहिता परमानन्दमयी भद्र-भावना वैदिके वाङ्मये बहुशः परिदृश्यते । ऋग्वेदे वर्णिताः कतिपये मन्त्राः इत्थम् ,
‘आ नो भद्राः क्रतवो यन्तु विश्वतः ।’ (ऋग्. १/८९/१),
‘भद्रं भद्रं क्रतुमस्मासु देहि ।’ (ऋग्. १/१२३/१३),
‘विश्वेदानीं सुमनसः स्याम ।’ (ऋग्. ६/५२/५),
‘विश्वाहा वयं सुमनस्यमानाः ।’ (ऋग्. ३/२५/१८),
‘भद्रं जीवन्तो जरणामशीमहि ।’ (ऋग्. १०/३७/६),
‘भद्रं भद्रं न आ भर ।’ (ऋग्. ८/९३/२८),
‘भद्रं नो अपि वातय मनः ।’ ((ऋग्. १०/२०/१) ।
‘भद्रं भद्रं क्रतुमस्मासु देहि ।’ (ऋग्. १/१२३/१३),
‘विश्वेदानीं सुमनसः स्याम ।’ (ऋग्. ६/५२/५),
‘विश्वाहा वयं सुमनस्यमानाः ।’ (ऋग्. ३/२५/१८),
‘भद्रं जीवन्तो जरणामशीमहि ।’ (ऋग्. १०/३७/६),
‘भद्रं भद्रं न आ भर ।’ (ऋग्. ८/९३/२८),
‘भद्रं नो अपि वातय मनः ।’ ((ऋग्. १०/२०/१) ।
एतेषु ऋग्वेद-मन्त्रेषु समवलोक्यते सामाजिकी पुण्यमयी कल्याण-भावना सुनिहिता । अज्ञानान्धकारात् ज्ञान- प्रकाशमभिलक्ष्य प्रवर्द्धमानाः वयं समुन्नति-मार्गे उत्तरोत्तरमग्रसराः भवेम इति समुज्ज्वला भावना सुगर्भिता । ऋग्वेदे आलोकाभिमुखस्य मानव-जीवनस्य समुत्कर्षः काम्यते । यथा,
तस्मिन् मां धेहि पवमानामृते लोके अक्षिते ॥' (ऋग्. 9/113/7)
सामाजिक-मङ्गल-समृद्धि-निमित्तं धर्मशास्त्र-निष्ठायाः कर्त्तव्य-परायणतायाः, देशभक्त्याः, राष्टीयमर्यादायाः त्याग-भोग-भावनायाः, अहिंसा-करुणादि-सुगुणशीलतायाः, शिवसङ्कल्पवत्तायाः, गृहलक्ष्मीं सम्मान्यां महिलां प्रति सम्मानादर-भावनायाः, सर्वजनेषु विश्वबन्धुतायाः, वृक्षलता-वन्यजीव-संरक्षणादि-प्राकृतिक-विभाव-विकास-साधनायाः, एवं निखिल-जनहित-कामनायाः सिद्धित्वे पर्यावरणस्य परिशुद्धिः सम्पद्यते ।
पितृ-पुत्रयोः परस्पर-सद्भावना गृहस्थ-परिवेशस्य कल्याण-साधिका । ऋग्वेदीये अग्नि-सूक्ते अग्निदेवाय यजमानानां स्तुति-र्निवेद्यते, यस्यां सामाजिक-सद्भाव-प्रतिष्ठा सहृदय-वेद्या । यथा पिता पुत्रार्थं सुप्रापो भवति, कल्याणं च विदधाति, तथा अग्निदेवः उपासकानां यजमानानां मङ्गल-विधानार्थं समागच्छतु इति प्रार्थना क्रियते । प्रस्तुत-मन्त्रः इत्थम्,
सचस्वा नः स्वस्तये ॥' (ऋग्. १/१/९)
॥ ५ ॥
साहित्यं जीवनेन सह ओतप्रोत-रूपेण सम्बद्धं भवति । साहित्यं नूनं समाजस्य दर्पणभूतम् । वैदिका आदर्श-मन्त्राः साम्प्रतिके युगेऽपि सामाजिक-पर्यावरणस्य सौष्ठव-सम्पादनाय सहायकाः भवितुमर्हन्ति । समाजे स्नेह-सौहार्द-सहानुभूति-विकास-दिशासु क्षेमङ्करो वैदिक-मार्मिकोद्गारो विश्वजनीन एव विराजते । ऋग्वेदीये संज्ञान-सूक्ते परस्पर-सद्भावनायाः उदात्त-समुच्चारः समवाप्यते । सामाजिक-व्यवहारे काय-मनोवाक्याचरणैः सहभाव-सम्पन्नत्वमत्र निर्देशितम् । सर्वेषां मन्त्रणा चिन्तनं प्राप्तिः स्वान्तःकरणं स्तुतिः हविःप्रदानं सङ्कल्पः चेत्यादयः साम्य-सम्पन्नाः भवेयुः राष्ट्रीय-संहति-प्रतिष्ठा-दिशायाम् । यथार्थमेव वर्ण्यते,
साहित्यं जीवनेन सह ओतप्रोत-रूपेण सम्बद्धं भवति । साहित्यं नूनं समाजस्य दर्पणभूतम् । वैदिका आदर्श-मन्त्राः साम्प्रतिके युगेऽपि सामाजिक-पर्यावरणस्य सौष्ठव-सम्पादनाय सहायकाः भवितुमर्हन्ति । समाजे स्नेह-सौहार्द-सहानुभूति-विकास-दिशासु क्षेमङ्करो वैदिक-मार्मिकोद्गारो विश्वजनीन एव विराजते । ऋग्वेदीये संज्ञान-सूक्ते परस्पर-सद्भावनायाः उदात्त-समुच्चारः समवाप्यते । सामाजिक-व्यवहारे काय-मनोवाक्याचरणैः सहभाव-सम्पन्नत्वमत्र निर्देशितम् । सर्वेषां मन्त्रणा चिन्तनं प्राप्तिः स्वान्तःकरणं स्तुतिः हविःप्रदानं सङ्कल्पः चेत्यादयः साम्य-सम्पन्नाः भवेयुः राष्ट्रीय-संहति-प्रतिष्ठा-दिशायाम् । यथार्थमेव वर्ण्यते,
'सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम् ।
देवा भागं यथा पूर्वे सञ्जानाना उपासते ॥’ (ऋग्. १०/१९१/२) ।
पुनश्च उद्घोषणा कृतास्ति साम्य-विधानार्थमेवंरूपेण,
'समानो मन्त्रः समितिः समानी
समानं मनः सह चित्तमेषाम् ।
समानं मन्त्रमभिमन्त्रये वः
समानेन वो हविषा जुहोमि ॥’ (ऋग्. १०/१९१/३) ।
सामाजिकमैक्य-स्थापनं सांमनस्यं सहावस्थानं च आतन्वती मधुरा ऋचा समेषामादरणीया नूनम् । परस्परम् ऐक्यबद्धाः सन्तः जनाः शुभ-चिन्तनयुक्ताः यथा एकत्र निवसन्ति, तथा उच्यते,
समानमस्तु वो मनो यथा वः सुसहासति ॥’ (ऋग्. १०/१९१/४) ।
ऋग्वेदीये श्रद्धा-सूक्ते श्रद्दधानानां जनानां समृद्धिशालित्वं प्रतिपादितम् । अत्र निगद्यते यत् वायु-रक्षिताः सर्वे देवाः यजमानाश्च श्रद्धायाः समुपासकाः । आन्तरिक-सङ्कल्प-रूपया क्रियया सर्वे श्रद्धां परिचरन्ति । मानव-हृदयं यथा श्रद्धाबद्धं भवेत्, तथा श्रद्धां प्रति प्रार्थना क्रियते इत्थम्,
श्रद्धां हृदय्ययाकूत्या श्रद्धया विन्दते वसु ॥’ (ऋग्. १०/१५१/४) ।
वैदिक-साहित्ये मातृभूमि-परकाः देशात्मबोधकाः मन्त्राः सामाजिक-संज्ञान-विधौ नितरां महत्त्वपूर्णाः । अथर्ववेदे एतादृशाः मन्त्राः बहवो दृश्यन्ते । ऋग्वेदेऽपि पृथिवीं मातरं प्रति भक्ति-श्रद्धाद्याः निवेदिताः वर्णिताः । ‘माता पृथिवी महीयम्’ इति ऋग्वेदोक्ता वाणी (१/१६४/३३) विस्तीर्णायाः पृथिव्याः अस्मज्जननीत्वं स्पष्टं विशदयति । ‘ तत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि, धियो यो नः प्रचोदयात् ’ (ऋग्. ३/६२/१०) इति वेद-भारती अस्माकं समेषां सद्बुद्धि-विकास-निमित्तं ज्योरिर्मयं सवितृ-देवं प्रति प्रार्थनामावहति । ‘ एकं सद् विप्रा बहुधा वदन्ति ’ (ऋग्. १/६४/४६) इति विश्वजनीना ऋचा सर्वेषां हृदये प्रतिष्ठितमेकं परमात्म-तत्त्वं बोधयति । अत्र नास्ति कापि विचार-सङ्कीर्णा प्रवृत्तिः । सार्वजनिक-प्रगति-विधाने वेद-वचनानि अस्माकमन्तरात्मानं नितरां समुत्साहयन्ति । एवमादर्श-सामाजिक-जीवनयापनस्य महोज्ज्वलमुदाहरण-जातं वैदिक-साहित्ये सम्प्राप्यते । विश्ववारा वसुधैक-परिवारा विराजते भारतीय-संस्कृतिः जगन्मङ्गलमयी गङ्गेव पावन-जीवन-धारा ।
॥ ६ ॥
उपर्युक्त-चर्चातो ज्ञायते यत् वैदिक-वाङ्मये, विशेषतः ऋग्वेदे अनेकेषु मन्त्रेषु अनुकूल-प्राकृतिक-परिवेशः, विश्वहितम्, सामाजिक-सम्प्रीतिः, राष्ट्रीय-संज्ञानम्, सौख्यमय-जीवनयापनम् इत्यादिका विविधाः विषयाः दृग्गोचराः भवन्ति । प्रदर्शितमुदाहरण-समस्तं दिग्दर्शन-मात्रम् । पर्यावरणे प्रतिकूले अथवा प्रदूषिते संवृत्ते प्राणिनां शारीरिक-मानसिक-क्षेत्रेषु यदा प्रभूता हानि-र्जायते, तदा वैयक्तिक-पारिवारिक-सामाजिक-क्षेत्रेष्वपि प्राणिनां विकासः प्रतिहतो भवति । अनुकूलं पर्यावरणं मानवस्य महोत्कर्षं साधयति, तज्जीवनं समुन्नयति पुष्णाति च । वैदिक-वाणीषु सत्कर्म-प्रवृत्त्या दुष्कर्म-निवृत्त्या च पर्यावरणस्य सुस्थत्वं सुविमलत्वं च निर्देशितम् । अतः समाज-सम्बद्धेषु विविध-कार्येषु समुज्ज्वलां दिशां प्रति अस्माकं दृष्टि-र्निधेया ।
उपर्युक्त-चर्चातो ज्ञायते यत् वैदिक-वाङ्मये, विशेषतः ऋग्वेदे अनेकेषु मन्त्रेषु अनुकूल-प्राकृतिक-परिवेशः, विश्वहितम्, सामाजिक-सम्प्रीतिः, राष्ट्रीय-संज्ञानम्, सौख्यमय-जीवनयापनम् इत्यादिका विविधाः विषयाः दृग्गोचराः भवन्ति । प्रदर्शितमुदाहरण-समस्तं दिग्दर्शन-मात्रम् । पर्यावरणे प्रतिकूले अथवा प्रदूषिते संवृत्ते प्राणिनां शारीरिक-मानसिक-क्षेत्रेषु यदा प्रभूता हानि-र्जायते, तदा वैयक्तिक-पारिवारिक-सामाजिक-क्षेत्रेष्वपि प्राणिनां विकासः प्रतिहतो भवति । अनुकूलं पर्यावरणं मानवस्य महोत्कर्षं साधयति, तज्जीवनं समुन्नयति पुष्णाति च । वैदिक-वाणीषु सत्कर्म-प्रवृत्त्या दुष्कर्म-निवृत्त्या च पर्यावरणस्य सुस्थत्वं सुविमलत्वं च निर्देशितम् । अतः समाज-सम्बद्धेषु विविध-कार्येषु समुज्ज्वलां दिशां प्रति अस्माकं दृष्टि-र्निधेया ।
अद्यतने विज्ञान-युगे मनुष्यकृत-दुष्कर्म-कारणात् पर्यावरणे नाना-प्रदूषणानि अनुभूयन्ते । वनानि उच्छिद्यन्ते, जलानि दूषितानि क्रियन्ते, वन्यजन्तवो निर्मम-रूपेण हन्यन्ते, जल-जीवाः गगनचारिणः पक्षिगणाः अपि विनाश-शरव्याः सञ्जायन्ते । नानारूपेण आणविकानामस्त्राणां परीक्षणादौ भूपृष्ठे समुद्रे वायुमण्डले च दुरवस्था सङ्घटते । नगरादिषु यान-वाहन-सञ्चारण-जनितैः यन्त्रोद्योग-कृतैश्च धूमैः कीटनाशक-रासायनिक-द्रव्यादि-व्यवहारैश्च सलिल-समीरणादिषु प्रदूषणमुपजायते ।
एवं पर्यावरणे प्रदूषिते सति प्राणिनां जीवने शारीरिकी अस्वस्थता, व्याधि-व्यापकता, मानसिकी अशान्तिः, पारिवारिक-द्वन्द्वम्, सांमनस्य-हानिः, दौर्मनस्य-प्राचुर्यम्, विपथगामिता, सामाजिक-कालुष्यं चेत्यादीनि बहूनि अरुचिकराणि तत्त्वानि आपतन्ति । अतः साम्प्रतिके समाजे सुसंस्कारस्य महती आवश्यकता अनुभूयते । अस्यां स्थित्यां वैदिकी महती वाणी पर्यावरण-विषयकं विविधं तत्त्वं प्रतिपादयन्ती समुत्तम-मार्गप्रदर्शिनी सती विश्व-मङ्गलकारिणीं मधुमयीं वार्त्तां वितनोति । आधुनिके परिप्रेक्ष्येऽपि वैदिक-साहित्यं मानव-जीवने युगोपयोगि नित्य-नूतनमुपकारकं प्रतिभाति इति शम् ।
* * *
सहायक-ग्रन्थादि-सूची : (१) ऋग्वेद-संहिता
(पण्डित एस्. डी. सातवलकर,) स्वाध्याय मण्डल, पारडी, बलसाद.
(२) वैदिक-साहित्य और संस्कृति, आचार्य बलदेव उपाध्याय,
शारदा मन्दिर, वाराणसी, १९६६.
(३) मनुस्मृतिः, (सं पण्डित हरगोविन्द शास्त्री)
चौखम्बा संस्कृत सीरिज अफिस्, वाराणसी, १९७०.
(४) संस्कृत साहित्य का इतिहास (आचार्य बलदेव उपाध्याय)
शारदा निकेतन, वाराणसी, १९९०.
(५) Eighteen Principal Upanishads,
Limaye and Vadekar, Vaidika Samshodhana Mandala, Poona, 1958.
Limaye and Vadekar, Vaidika Samshodhana Mandala, Poona, 1958.
(६) ईशादि-दशोपनिषदः, मोतिलाल बनारसीदास, दिल्ली, १९७८.
(७) New Vedic Selections, Vol. I, II (Telang and Chaubey),
BharatIya Vidya Prakashan, Varanasi.
= = = = = =
Published in
“Sraddha” (Sanskrit Research Journal, ISSN:2321-273X),
Vol.III-IV/2012-2013, pp.126 -136.
PG Department of Sanskrit, GM Autonomous College, Sambalpur.
= = = = = = =
BharatIya Vidya Prakashan, Varanasi.
= = = = = =
Published in
“Sraddha” (Sanskrit Research Journal, ISSN:2321-273X),
Vol.III-IV/2012-2013, pp.126 -136.
PG Department of Sanskrit, GM Autonomous College, Sambalpur.
= = = = = = =


