Showing posts with label Mauna-Vyanjana : Modern Sanskrit Poems. Show all posts
Showing posts with label Mauna-Vyanjana : Modern Sanskrit Poems. Show all posts

Saturday, February 20, 2016

मौन-व्यञ्जना (Mauna-Vyanjanaa) Sanskrit Poem by Harekrishna Meher

* Mauna-Vyanjana * 
Sanskrit Poem By: Dr. Harekrishna Meher 
मौन-व्यञ्जना  
(संस्कृत-कविता) 
रचयिता : डॉ. हरेकृष्ण-मेहेरः 
= = = = = = = = = = = = = = = 
कदाचित् स्वल्प-कथनेनापि
प्रकाशतामभ्येति बह्वभिप्रायः,
यथा व्यञ्जना-रञ्जिता अभिधा
कदाचिद् वचनोच्चारणं विनापि
आन्तरिकाशयः प्रकाशतां याति बहुधा   

कदाचिद् वाचालतयापि
समुच्चारितै-र्बहुवचनैः
नाभिव्यज्यते मर्म-भावना सुविशदम् । 
तूष्णींभावोऽपि कदाचित्
अभिव्यनक्ति मुखरताम्
कदाचिद् मुख-रताऽपि मुखरता
नीरवतां भजते
आभ्यन्तराभिप्रायं प्रकाशयितुम्

निर्वचना भाव-भङ्गी
सृजति कदा तरङ्गं
नान्दनिकं कदा वा कारुणिकम्,
कदा विश्व-व्यापकं
कदा पारमाणविकम्,
भवतु वा क्षणिकम्
अथवा लाक्षणिकम्

प्रेम-नर्मादि-व्यापारेषु
अधरयो-र्नीरवता भवति चेत्,
नयनयोरन्तः स्फुरन्ति
सूक्ष्म-सुकुमार-वचनानि
दुःख-शोकादिष्वपि
तथैव परिलक्ष्यते 
निर्वचनाभिव्यक्तिः ॥ 

मन्दिर-पार्वत्यगुहा-प्राचीरादिषु 
नाना-कारुकला-कलितानां 
खोदितानां मूर्त्तिराजीनां 
निर्वचन-परिप्रकाशाः 
कुर्वन्ति कथालापमान्तरिकं  
दर्शक-हृदयैः सार्धम्  ।। 

निसर्गस्य विविध-विभावाः 
तरु-लता-तरङ्गिणी-सरित्पत्यादयः 
भावुकानुभविनां हृदयैः समं 
योजयन्ति निर्वचन-सम्पर्कम्  ।। 

नीरवं वचो हृदयङ्गमं कर्त्तुं
सामर्थ्यमान्तरिकमपेक्ष्यते
संस्कार-सम्पन्नम्
अन्यथा सर्वाभिव्यक्तिः
सुप्रकाशितापि भजते वैफल्यम्

नीरवताया अपि भाषाऽस्ति,
कोऽपि शिक्षयति वा शास्ति
ब्रवीति नीरवता
कदा हृदयस्य गोपनीय-कथाम्
अन्तःस्थलस्य सुप्त-व्यथाम्
यया भाव्यते सहृदयस्य भाववत्ता
* * *

(Published in “Lokabhāshā-Sushrih”, Febrary-March 2006, 
 Lokabhasha Prachar Samiti,  Puri.)
 = = = = = = = =


Monday, July 6, 2015

Sakalaa Sukalyaani (सकला सुकल्याणी) Sanskrit Poem/ डॉ. हरेकृष्ण मेहेर

Sakalaa Sukalyaani (Sanskrit Poem)
By : Dr. Harekrishna Meher
= = = = = = = = = =
सकला सुकल्याणी (संस्कृत-कविता)
रचयिता - डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = = = = = = = 

सर्वंसहा त्वं  सुकृति-र्महाफला
सर्वंदहा त्वं  प्रबला महाबला ।
प्राज्यासु पूज्या महिला च सर्वदा
दिव्यासि  देवी-पदवी प्रियंवदा ॥
 *
त्वमसि कमनीया कामिनी
ज्योतिष्मती यामिनी
अभ्र-गर्भा सौदामिनी,
पुनर्भवितव्या भाविनी संयमिनी ।
मायासि त्वं मायामयी मायाविनी,
कथं पुनः स्वीकृताविला
कूलङ्कषा पङ्किला
कलङ्क-प्लाविनी ?

नारी-पुरुषयो-र्मधुर-मिलने
संसार-स्यन्दन-चालने
त्वमसि चक्रिका सक्रिया
महती शक्ति-रूपा सत्क्रिया ॥।

दानवीय-दुर्नीति-दुष्कृति-दलने
धरणी-सुधारणे  धर्म-पालने
दुर्गासि दुर्गतिहा रचितेतिहासा
स्वर्ग-सुखदा पावनी शुभ्र-हासा ।
प्रभवतु भगवती नव्य-प्रगति-प्रक्रिया,
यत्र विनश्यति सर्वा भ्रष्टाचारादि-विक्रिया ॥

लास्यमयी मञ्जुलास्या मनोरमा
सन्निधान-सम्पन्ना त्वमन्नपूर्णा रमा ।
कथं पुनः पण्य-वस्तुवद् गण्यते
रङ्ग-भङ्ग्या शुभाङ्ग-जातं घृण्यं ते ?

मनुज-समाज-सम्मार्जनार्थं
जागृहि त्वं जगद्-गृह-भरणी सुगृहिणी
सौन्दर्यमयी नारी-मर्यादा-सुरक्षणार्थं
कुसंस्कार-कंसोपद्रव-विद्रोहिणी ।
उत्तिष्ठ प्राणिगण-समुद्धारणाय रण-रुद्राणी
सकला सकलानां सुकल्याणी ॥


* * * * 

Monday, February 16, 2015

Drumaḥ (द्रुमः)- Sanskrit Poem By Dr. Harekrishna Meher

Drumah (Sanskrit Poem)
By : Dr. Harekrishna Meher
= = = = = =
द्रुमः (संस्कृत-कविता)
रचयिता : डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = =

तमिस्र-गह्वरं भित्त्वा 
क्षुद्राङ्कुर: समुत्थितः
किसलय-युगलं प्रसार्य ।
रश्मिपुञ्जं निशाम्य
विस्मितः समुल्लसितः
स बालारुण-किरणैः
स्फूर्त्ति-समुत्साह-सम्पन्नः ॥  

बाल-पादपं विलोक्य तं
सश्रद्धमाकारयति बालारुणः
बन्धुत्व-स्थापनार्थम् । 
बालतरुः सादरं स्वीकरोति
आन्तरिकं दिवाकरस्याग्रहम् ॥

क्रमेण शाखाप्रशाखाः प्रसार्य
पुष्कलः सञ्जातः पुष्पफलसम्भारैः ।
जाति-धर्म-वर्ण-वयो-लिङ्गादि-निर्विशेषेण
सर्वजनमात्मीयं विचार्य
श्रान्तेभ्यो मार्गचारिभ्यश्च  
प्रदाय शीतलं छायाश्रयं
स नूनमनुभवति परितृप्तिम् ॥ 

मधुरं पुष्प-सौरभं वितरन्
प्राणिनामन्तःकरणं मोदयन्,
क्षुधितानां कृते मृदुल-पत्राणि 
सरसानि फलानि च प्रदाय
स धन्यं मन्यते स्वात्मानम् ॥ 

प्रसृमर-शाखा-प्रशाखा-समुदाये
विरचित-नीड़ानां बाह्यागतानां च
विहङ्गानां बहुविधानां
हृदयानन्दि-काकली-कलस्वनैः  
स मुखरिताङ्गः संवृत्तः ॥

वसुन्धरायाः सुगन्धैः
विह्वलतामलभत
तस्य पादपस्य मानसम् ।
नभसः दिव्यभासा प्रशान्त्या
तस्य प्राणाः पुलकिताः ।
वात्या-ग्रीष्म-वर्षादिकं
प्राणिगणानां प्रहारादिकं च
समस्तं विषह्य तेन कदाचन
न कृतः कोऽप्यभियोगः ॥

प्राणिनां रोग-निवारणार्थं
समुचित-स्वास्थ्य-रक्षणार्थं
निरामय-सौख्यमय-जीवनार्थं
भेषज-प्रस्तुति-निमित्तम् 
सर्वाङ्गमामूलचूलमुत्सर्गीकृत्य
स सेवा-परायणः सम्प्रीतः ॥

जनानां निवास-निर्माणादि-प्रसङ्गे 
विविध-सांसारिक-व्यापारेषु   
नैसर्गिक-पर्यावरण-सन्तुलन-विधौ
स्वात्मानं निःस्वार्थं विनियोज्य
सञ्जातः परोपकारस्य अनन्य-प्रतीकः । 
प्रतिदानं कदापि कस्मादपि
नाभिलषति स्वार्थपर-संसारे ॥ 

निर्वचनो विनम्रः प्रतिमुहूर्त्तं
स्वकर्त्तव्यं ध्यात्वा निरतं
स्वकर-पत्र-शाखाबाहाभिः
विश्वस्रष्टारं प्रजापतिं प्रति
हार्दिकमाभारं प्रकाशयति
स्वजीवनं कृतकृत्यं सार्थकमिति ॥
= = = = = = = = = 

Tuesday, January 6, 2015

Sanskrit Poem ‘Sukhānveṣā’ (सुखान्वेषा): Dr.Harekrishna Meher

Sanskrit Poem ‘Sukhānveṣā’  
(Quest for Happiness)
By : Dr. Harekrishna Meher
*
सुखान्वेषा  

* डॉ. हरेकृष्ण-मेहेरः  

 = = = = = = = = = = = = = = = = 

कतिपये पश्यन्ति सुखं
नयनै-र्मुद्रितायनैः,
परन्तु पश्यन्ति दुःखं
धृत्वा मलीमसं मुखं
समुन्मीलित-नयनैः
मुक्त-वातायनैः ॥

सुखमवलोकयन्ति
उन्मीलित-लोचनैः कतिपये,
सुखं चानुभवन्ति
स्वान्तरे स्वहृदये ॥

नकारात्मक-चिन्तनैः
व्यतिव्यस्ता जनाः
स्वत एव सृजन्ति
दुःख-राशिमप्रसन्नाः ॥

सकारात्मक-चिन्तनैः
सुखं विलोक्यते सुलोचनैः,
नकारात्मक-चिन्तनैः
सुखं नूनं विलुप्यते
दुःखं च समवाप्यते ॥

अपरिमित-वित्तशालिनोऽपि
तृप्तिरान्तरिकी यदि नास्ति,
सुखमायास्यति कुतः ?
दुःखबोधस्तस्य स्वत एव सम्भूतः ॥

मद-मत्त-चित्तः
आत्म-दर्पिष्ठो विपुल-वित्तः
स्वान्तरे सुखमन्विष्यति केवलम्,
परन्तु लब्धुमक्षमः प्रतिपलम् ॥

अहङ्कारी समुद्धतः
दाम्भिको मोह-ग्रस्तः
असमर्थो भुवि भवति
यथार्थ-सुख-स्वरूपं द्रष्टुं
कलकल-नादिन्याम्
आरण्य-निर्झरिण्याम् ।
प्रकृत्याः सुनिर्मल-पर्यावरणे वर्धितेषु
पादप-लतादिषु पुष्पितेषु ॥

अभाव-ग्रस्तोऽपि
दरिद्रतायाः कषाघातै-र्निपीड़ितोऽपि
स्वान्त-सन्तोषमनुभवति यः,
स एव सुखी नूनमद्वितीयः ॥

इन्द्रभवनोपमेषु हर्म्येषु
निवसन्नपि यः
मानसिक-दरिद्रतामनुभवति,
स एव दुःखी विश्व-जगति ।
सुखं तस्य कृते
मरीचिका सञ्जायते
अथवा विहायस-प्रसूनम्
अथवा दिवा-स्वप्नः ॥

नास्ति यस्य अभाव-बोधः
उत क्षीणो यस्याहंभावः,
स भाव-प्रवणो मानवः
निसर्ग-विभावेषु सुखमन्विष्यति,
नितरां सुखं पश्यति
समाह्लादमनुभवति
तच्चान्तरात्मनि
अपूर्वं सर्वमहन्यहनि ॥ 

* * *


Saturday, July 31, 2010

Svarūpam (स्वरूपम्) Sanskrit Poem / HKMeher

Svarūpam (Sanskrit Poem)   
By : Dr. Harekrishna Meher
(Extracted from Sanskrit Kāvya ‘Mauna-Vyañjanā’)
= = = = = = = = = =

स्वरूपम् (संस्कृत-कविता)  
रचयिता : डॉ. हरेकृष्ण-मेहेरः
('मौनव्यञ्जना'- काव्यतः)
= = = = = = = =

पुरतो लक्ष्यते यत्
सर्वं तत् सत्यं न भवति ।
भवति श्रवण-गोचरं यत्
तत् सर्वं सत्यतां नावति ॥


नेत्राभ्यां यद् दृश्यते
तत् सर्वं न भवति सत्यम्,
यथा मरुभूम्यां तोयपूर्णा मृगतृष्णा,
यथा कूटसाक्षिणो मिथ्यायां सत्यभ्रमः,
यथा पाण्डवानामिन्द्रप्रस्थ-भवने
जले स्थल-भ्रान्तिः
धृतराष्ट्र-तनय-नयने ॥

बाह्य-रूपं यदनुभूयते,
आभ्यन्तर-रूपं तन्न भवति सर्वथा ।
अभिधा-सम्पन्नः शब्दः
भिन्नार्थं प्रकाशयति
व्यञ्जना-व्यापारेण यथा ॥

हृदये भाव-सकलं
जागर्ति यत् किञ्चित्,
सर्वं वै न भवति कथ्यम्,
न वै भवति तथ्यम् ॥

बाह्य-वचनं चेत्

सर्वत्र कृत्रिम-रमणीयतरम्,
तद् भवितुं शक्यते
आभ्यन्तर-रूपेण हानिकरम् ॥

बाह्य-रूपे कृत्रिम-विश्‍वासः सञ्जातः,
आभ्यन्तरे परन्तु विश्‍वास-घातः ।

विश्रुतो वैश्रवणो रावणः
भिक्षार्थी विदेहजापहरण-प्रवणः ॥

अमधुरं भवतु नाम
बाह्यं मुख-मण्डलम्,
परन्तु हृदयं भवेत्
विश्‍वास-पूतं सुनिर्मलम् ।
हृदयं सदैव निरीक्षणीयम्,
आत्मीयत्वं परीक्षणीयम् ॥

बाह्य-रूपरेखा न भवति सदा
आभ्यन्तर-भावनाया अभिव्यक्तिः ।
बाह्य-रूपं ह्यापात-रसनीयम्
विश्‍वे न हि विश्‍वसनीयम् ।
यद् विष-कुम्भं पयोमुखं जगति
सर्वं वर्जनीयमेव भवति ॥
= = = = =


Sunday, July 26, 2009

मुमुक्षा - Sanskrit Poem ‘Mumukshā’ / H.K.Meher

Sanskrit Poem ‘Mumukshā’ (Desire for Freedom)  
By : Dr. Harekrishna Meher   
= = = = = = = = = = = = = = = = = = = =

मुमुक्षा (संस्कृत-कविता)
रचयिता : डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = = = = = = = = = = =

संसार-धाम्नि सुख-दुःखाभिभूताः
कदा प्रीताः कदा भीताः
कर्मफल-भोग-निमित्तं मुहुर्मुहुः
मर्त्त्यानुभूतिं लभन्ते जीवात्मानः ।
अदृष्ट-कर्म-बन्धनैः
अनिच्छयापि सर्वे समाच्छन्नाः

विषमे संसार-प्रपञ्चे
वैचित्र्यमय-रङ्ग-मञ्चे
कथञ्चिद्‍ धृत-प्राणाः
सहन्ते सुगन्ध-दुर्गन्ध-जातम्
सर्वं बन्धन-कष्ट-कण्टकम्,
तथापि चलति जीवन-यात्रा ॥

आबद्धाः केचिन् मोह-बन्धनेन
केचित् स्नेह-बन्धनेन
केचित् पुनः प्रेम-बन्धनेन
कदाचिद्‍ हेम-बन्धनेन,
केचिद् भोग-बन्धनेन
केचिद् वा रोग-बन्धनेन ॥

केचित् क्षमता-जालाबद्धाः
केचिन्ममता-मालाबद्धाः,
केचिद् भक्ति-बन्धन-युक्ताः
केचित् पुनः शक्ति-बन्धनासक्ताः ।
भाव-बन्धनात् सौख्यमय-परिवाराः
प्रतीयन्ते विषोढ़-विषय-क्लेश-भाराः ॥


अन्धीक्रियते माया-बन्धनेन सर्वं जगत्,
तथापि पार्थिव-सुखं तेनानुभूयते
मृग-तृष्णिकावत् ।
बन्धन-शृङ्‍खला सर्वथा विद्यते,
निर्बधना इव स्थातुमपि शक्यते ।
परन्तु बन्धनं नूनं चिरन्तनं
न केवलं स्वात्मनि
परत्रापि लक्ष्यते अहन्यहनि ॥

व्याध-कृत-बन्धना मृगा इव
महाकाल-जाल-बन्धनात् सन्ततं
कथं वा मुच्यन्ते प्राणिनः,
पिञ्जर-मुक्ता यथा विहङ्गमाः ।
भवन्तु नितरां भवानुरागिणः
अथवा विरसा विरागिणः,
भोक्तुं स्वाधीनताया मधु-स्वादम्
कृत-प्रयत्नाः सर्वे प्रसारित-हस्त-पादम् ॥

समस्ताः संसारिणः
धन-जन-जाया-माया-बन्ध-ग्रस्ताः
रागाशंसि-संसार-कारागारे
ऊर्मिले फेनिले नील-पारावारे
सन्तरण-तत्परा निरन्तरम्;
प्रतिक्षणं प्रतीक्ष्यते मुमुक्षा ।
सर्वं बन्धनं न दुःखदम्,
अभिशापोऽपि कदाचित्
फलति शुभाशीर्वाद-रूपेण ॥

अस्तोदिते सूर्ये वस्तुतः समस्ताः
स्वाधीना अपि पराधीनाः

अनुदिनं विद्यन्ते दीनाः
मोह-मदान्धा बधन-त्रस्ताः ।
जञ्जाल-चक्रव्यूह-मध्यात्
सक्रियं मुक्तेरन्वेषामवश्यं कुर्यात् ॥


= = =

(This Poem taken from Sanskrit Kāvya ‘Mauna-Vyañjanā’
has been published in “Lokabhāshā-Sushrīh”, Dec-2005-Jan.2006 Issue, page-5, 
of Lokabhāshā Prachār Samiti, Saradhābāli, Puri.)

* * * 

Monday, January 26, 2009

Sanskrit Poem ‘Satyam’ (The Truth)/ Harekrishna Meher

‘Satyam’ 
Sanskrit Poem by : Dr. Harekrishna Meher 
*
सत्यम् (संस्कृत-कविता)
रचयिता : डा. हरेकृष्ण-मेहेरः  

= = = = = = = = = = = = = = = = = = = = 
सत्यं सत्यमिति वक्तुं
नैके कुण्ठिताः,
सत्यं सत्यमिति स्वीकर्त्तुं
नैके कुण्ठिताः,
सत्यं सत्यमिति प्रतिपादयितुं
नैके कुण्ठिता लुण्ठिताः,
सत्यं मिथ्येति कथयितुं
नैके समुत्कण्ठिताः ॥
*
प्रवञ्चनायाः घनावरण-मध्ये
सत्यं ह्यसत्यमिति दर्शयितुं
प्रयत्न-परा अनेके सांसारिकाः,
स्वकीय-स्वार्थ-सिद्धि-निमित्तम्
अथवा स्वात्म-रक्षायै भीत-चित्तम्
अथवा अन्य-हेतु-वशतो हृत-विवेकाः ।
परन्तु को वा समर्थः
सत्यस्य स्वरूपं विज्ञातुं वस्तुतः ॥
*
क्षुरस्य धारा तीक्ष्णा
इति जानन्तोऽपि केचित्
दृढ़ात्म-प्रत्यय-सहकारेण
समीहन्ते प्रयतन्ते सत्यं सत्यमिति
वक्तुं स्वीकर्त्तुं प्रतिपादयितुं च
अत्रस्ताः सर्वत्र प्रदर्शयितुं
देश-काल-पात्र-निर्विशेषेण,
ततः पराजय-व्यथया मिथ्या रोदिति ॥
*
सत्यस्य विजयो भवतीति सुनिश्‍चयः ।
विजय-शब्दादेव सूच्यते
सङ्‍घर्षः संग्रामः सक्रियता द्वन्द्वं वा ।
ससङ्‍घर्षेण सक्रियेणासत्येन
असङ्‍घर्ष-निष्क्रिय-सत्योपरि
विजयो भवतु नाम सामयिकः ।
सत्यासत्ययोः सङ्‍घर्षे सञ्जाते
सङ्‍घर्ष-रतस्य सत्यस्य मिथ्योपरि
विजयो भवति शाश्‍वतिकः ॥
*
असत्यस्य विजयो मायाच्छन्नः,
सत्यमेव धर्मश्‍चिरन्तनः ।
सर्वोपरि परिणामे
सत्यमेव विजयते द्वन्द्वग्रामे संग्रामे,
जयति ज्योति-र्यथा
निरस्त-तमस्तोमम्,
अधःकृतोऽपि कृशानुरूर्ध्वगामी सर्वथा
न कदापि भजते विलोमम् ॥
* *


(This Poem taken from Sanskrit Kāvya ‘Mauna-Vyañjanā’
has been published in “Lokabhāshā-Sushrīh”, August-September 2005 Issue,
of Lokabhāshā Prachār Samiti, Saradhābāli, Puri.)

* * *