Showing posts with label Srimad-Bhagavad-Gita. Show all posts
Showing posts with label Srimad-Bhagavad-Gita. Show all posts

Tuesday, September 9, 2008

Gītā-Gītikā (Sanskrit Song) / Harekrishna Meher


गीता-गीतिका
(गीत-रचना तथा स्वर-रचना : डॉ. हरेकृष्ण-मेहेरः)
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - -

श्रीमद्‍भगवद्‍गीता,
प्रहर्षिणीयं महर्षि-कृष्ण-
द्वैपायन-प्रणीता ।
श्रीमद्‍भगवद्‍गीता,
गीता, गीता, गीता ॥ (ध्रुवम्)
*
पुण्या श्रीहरि-पार्थ-सनाथा,
निर्भर-गर्भित-गौरव-गाथा ।
महाभारते
विश्व-हित-रते
यस्या वाणी सदा यथार्था ।
सुमेधसा समधीता ,
श्रीमद्‍भगवद्‍गीता,
गीता, गीता, गीता ॥ (१)
*
सकलोपनिषद् गाभी सुभगा,
प्रभु-गोविन्दे दोग्धरि शुभगा ।
निवसति वत्सः
पार्थोऽनलसः
सुधी-भोक्‍तृभि-र्धृतापवर्गा ।
सुदुग्ध-रूपा पीता ,
श्रीमद्‍भगवद्‍गीता,
गीता, गीता, गीता ॥ (२)
*
कर्म कुरु त्वं स्वधर्म-सक्तः,
देहि गुरुत्वं कर्मणि शक्तः ।
विवेक-बुद्ध्या
मानस-शुद्ध्या
भुवि भव सुतरां विभु-पद-भक्तः ।
सम-दर्शितोष्ण-शीता,
श्रीमद्‍भगवद्‍गीता,
गीता, गीता, गीता ॥ (३)
*
समुपदिशति या मर-संसारे,
मानव-मानं सुव्यवहारे ।
तत्त्वं सत्त्वं
याति महत्त्वं
ज्ञाने भक्तौ कर्माचारे ।
आत्म-विचार-पुनीता,
श्रीमद्‍भगवद्‍गीता,
गीता, गीता, गीता ॥ (४)

*
कलयति सकलं कलि-मल-नाशम्,
तिरयति मर्त्त्ये संसृति-पाशम् ।
सुविहित-योगा
निरस्त-भोगा
वितरति दिव्यं हृदि प्रकाशम् ।
ब्रह्ममयी सम्प्रीता,
श्रीमद्‍भगवद्‍गीता,
गीता, गीता, गीता ॥ (५)
* *
(इयं गीतिका ‘ मातृगीतिकाञ्जलिः ’ इति गीति-काव्यात् आनीतास्ति ।)

* * *

English Translation :
Gītā-Gītikā (Song of The Gītā)
Extracted from Sanskrit Kāvya “Mātrigītikāñjalih.”
Lyrics & Tuning By : Dr. Harekrishna Meher.
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . .
[Glory of the Divine Song “Śrīmad-Bhagavad-Gītā” is marked in this lyric. The trio of Knowledge, Deed and Devotion is the essence of the Gītā. Gītā’s admonition in performing own duty paves the way for perfection in human life.]
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - -


Blissful is “Śrīmad-Bhagavad-Gītā” authored by the great sage Krishna Dvaipāyana (Vyāsa). Gita is sung by the Supreme God Krishna. (0)
*
Gītā is the holy book containing Lord Krishna ‘s admonitions to the great warrior Arjuna. This is the saga of glory and victory of righteousness. As a portion of the great epic Mahābhārata rendering well-being to all, Gītā contains the speech of Lord Krishna eternally true and significant. It is vastly studied by the wise. (1)
*
All Upanishads are the auspicious and beautiful cow. Lord Govinda (Krishna) is the milkman. Arjuna, the active warrior son of Kuntī, is calf indeed. Gītā, paving the way for salvation of human life, is the palatable milk. The wise are enjoyers of this sweet ambrosial milk. (2)
*
Perform deeds sticking to your own duty. You, the able one, lay emphasis on doing actions. With discriminative knowledge and with pure mind, be a devotee at the feet of the omnipresent Supreme God in the world. Verily Gītā teaches to equally endure both heat and cold. (3)
*
In the mortal region, Gītā admonishes humanism in noble behaviours. The prime aspect of Gītā lies in Knowledge, Devotion and Deed. Sacred is the Gītā with philosophical speculations of immortal soul. (4)
*
Gītā annihilates all the evils of Kali-Yuga and severs the shackles of birth-death-cycle in the mortal world. With the description of Yoga and the restriction of material enjoyments. Gītā gives divine enlightenment in the hearts of the people. Replenished with Supreme Brahman, Gītā is verily blissful. (5)
* *
( English Translation By the Author)
* * *

Monday, September 8, 2008

श्रीमद्‌भगवद्‌गीतायाः सामाजिक-महत्त्वम् (Social Importance of Srimad-Bhagavad-Gita):Dr.Harekrishna Meher

Sanskrit Article : 
Śrīmad-Bhagavad-Gītāyāh Sāmājika-Mahattvam
(Social Importance of Śrīmad-Bhagavad-Gītā)
By : Dr. Harekrishna Meher
*
श्रीमद्‌भगवद्‌गीतायाः सामाजिक-महत्त्वम्    
*  डॉ. हरेकृष्ण-मेहेरः 
 = = = = = = = = = = =
॥ १ ॥
श्रीमद्‌भगवद्‌गीता एको विश्वजनीनो ग्रन्थः । इयं सङ्घर्षमय-मानव-जीवनस्य पावनी चिरन्तनी गाथा । महामुनि-वेदव्यास-प्रणीतस्य महाभारत-ग्रन्थस्य भीष्मपर्वणः पञ्चविंशाध्यायतः गीतायाः आरम्भः । धर्मार्थ-काम-मोक्ष-रूपाः जीवनस्य चत्वारः पुरुषार्थाः महाभारते सम्यग् वर्णिताः सन्ति । अत्र ग्रन्थे यद् विद्यते, अन्यत्र संसारे तद् विद्यते । अत्र ग्रन्थे यत् नास्ति, अन्यत्र कस्मिन्नपि स्थाने तन्नास्ति । स्वयं व्यासदेवेन कथितम् -  

धर्मे ह्यर्थे च कामे च मोक्षे च भरतर्षभ !
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित् ॥"

अन्य-रूपेण कथयितुं शक्यते यत् भारते यद् वर्त्तते, समस्त-संसारे तद् वर्त्तते; भारते यत् नास्ति, सर्वस्मिन् जगति अपि तन्नास्ति ।

मनुष्यस्य दुःख-सुखमये जीवने बहुप्रकाराः सांसारिकाः जञ्जाल-संघर्ष-संग्रामाः परिलक्ष्यन्ते । तत्र पुन-र्विद्यते उत्थान-पतनादि । एतादृशायां विषम-दशायां जीवनस्य झञ्झादिषु अपि सामाजिक-मूल्यबोधेन सह आत्मनः प्रतिष्ठापनं मानवस्य लक्ष्यं भवति । अष्टादशाध्याय-संवलिता गीता श्रीकृष्णार्जुन-संवाद-रूपेण परिचितास्ति । राज्ञः धृतराष्ट्रस्य सन्निधौ सञ्जयेन महाभारतीय-युद्धस्य प्रत्यक्ष-विवरणी वर्णिता समवलोक्यते । श्रीकृष्णार्जुनयोः कथोपकथनमपि सञ्जयेन प्रत्यक्षरूपेण समुपस्थापितम् आत्म-विवरणी-मध्ये ।

अर्जुनः स्वयं वीरश्रेष्ठः अद्वितीयः धनुर्धरः । युद्धारम्भात् प्राक् सारथिना श्रीकृष्णेन सह रथारूढ़ः सन् स रण-मध्ये कति-काल-पर्यन्तं चतुर्दिशासु निरीक्षते । स्वपक्षस्य प्रतिपक्षस्य च सेनावाहिनी-मध्ये आत्मीय-स्वजनाः ज्ञाति-कुटुम्बाः गुरुजनाः बन्धुवर्गाश्च तेन अवलोकिताः । ततः तस्य मनसि गभीर-प्रतिक्रिया सञ्जाता । अन्याय-मार्गे परिचालितानां कौरवाणां दुराचरणं विरुद्ध्य धर्मयुद्धं कर्त्तुं तेन कृत-प्रतिज्ञेनापि सम्प्रति बन्धु-जनान् वीक्ष्य निष्क्रियता समाश्रिता । तस्य वीरत्वं शिथिलतया ग्रस्तम् । गाण्डीव-धनुर्धारणार्थं स असमर्थः सञ्जातः ।

अर्जुनस्य मनसि भावना समुदिता यत् स्वपक्षस्य प्रतिपक्षस्य वा सैनिकानां जनानां च हनने पापं भविष्यति, जन-क्षयः घटिष्यते, सामाजिकी विशृङ्खला सम्पत्स्यते, अनीति-प्रवृत्त्या प्रदूषणेन च लोक-जीवनं कलुषितं भविष्यति । युद्धे सञ्जाते ध्वंसः अनिवार्यः । एवंभूतं विचारयन् अर्जुनः युद्धात् पराङ्‍मुखः सञ्जातः । कातरतया दुर्बलतया च तस्य मानसिकी शारीरिकी अवस्था दोदुल्यमाना संवृत्ता । किंकर्त्तव्य-विमूढ़ः सन् स श्रीकृष्णं कथयति – 
" शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ।"  तदनन्तरं श्रीकृष्णः अभवत् तस्य वीरवरस्य सन्मार्ग-प्रदर्शकः गुरुः । अर्जुनमुद्‌बोधयन् स्वीय-कर्त्तव्याचरणं प्रति श्रीकृष्णः गुरुत्वमारोपयति । परिशेषे अर्जुनः स्वं प्रत्यभिजानन् युद्धे अंश-ग्रहणं कुरुते । सत्यस्य न्यायस्य धर्मस्य च विजयो भवति । यथार्थ-रूपेण निगदितम् – "यतो धर्मस्ततो जयः।"

॥ २ ॥
क्षत्रियस्य धर्मः कर्त्तव्यं तु स्वीय-पराक्रमेण अन्यायं विरुद्ध्य संग्रामं कृत्वा न्यायस्य प्रतिष्ठापनम्, शरणापन्नस्य सुरक्षणम्, युद्ध-क्षेत्राद् अपलायनादिकं च । श्रीकृष्णस्य काम्यं वै सत्य-न्याय-धर्म-सदाचरस्य प्रतिष्ठा । अतः धर्मयुद्धे प्रवर्त्तयितुं स अर्जुनं समुपदिशति ज्ञान-कर्म-विषये । श्रीकृष्णेन यः उपदेशः परामर्शः उद्‍बोधनं वा प्रदीयते, तत् सर्वं केवले अर्जुन-रूपे व्यक्ति-विशेषे न सीमितम्, अधिकन्तु समग्र-मानवजाति-निमित्तं तद् उद्दिष्टमस्ति । गीतायाः सारतत्त्वं ज्ञान-कर्म-भक्ति-रूपं त्रयमेव । एतत् तत्त्वत्रयं मानव-जीवनेन सह ओतप्रोतम् । सामाजिक-क्षेत्रे स्वकीय-कर्त्तव्य-सम्पादनेन जीवनस्य सार्थकता प्रतिपाद्यते । गीता जीवनस्य शास्त्रमेव । अत्र अर्जुनः मानव-जातेः प्रतिनिधि-रूपेण वर्णितः ।

मानवस्य सामाजिक-जीवने आध्यात्मिकता अङ्ग-विशेषभूता । ईश्वरं प्रति भक्ति-नैवेद्यार्पणं भारतीय-संस्कृतेः महत्त्वपूर्णो विषयः । मानवतायां निहितमस्ति ईश्वरीय-तत्त्वम् । गीता प्रददाति तां शिक्षां जन-समाजाय । मानव-सेवायां विद्यते माधव-सेवा । आस्तिक-दर्शनस्य भाव-धारया सह ब्रह्मास्मि-तत्त्वम् अस्मिन् गर्भितं विद्यते ।

अर्जुनवत् वीर-योद्धा समय-क्रमेण मानसिक-दैन्येन दौर्बल्येन च प्रभावितः सञ्जायते । परन्तु एतादृशो विषादः सामयिक-कुहेलिका-सदृशः । ज्ञानालोकागमे अज्ञानान्धकारो दूरीभवति । श्रीकृष्ण-प्रदत्तेन समुपदेशेन अर्जुन-मानसात् संशयो विषाद-भावश्च विनश्यतः । स आत्मानं प्रत्यभिजानाति परमात्म-स्वरूपम् । सामाजिक-दिशा सोत्साहं कर्त्तव्यं समाचरन् स विजयी भवति परिशेषे ।

॥ ३ ॥
पञ्चभूत-निर्मितं शरीरं समय-क्रमेण विनाशं याति । परन्तु शरीर-रूपे गृहे वसतः आत्मनः क्षयो विनाशो वा न भवति । कालानुसारेण शरीरे वाल्य-यौवन-वार्धक्यावस्थानां परिवर्त्तनं घटते । किन्तु शरीर-निवासिनः आत्मनः न कोऽपि परिवर्त्तनं न वा कश्चिद् विकारो जायते । मनुष्य-कृतैः मारणास्त्रैः प्रकृति-कृतैः सलिल-पवनानलैश्च आत्मनः न कश्चित् क्षतिः सञ्जायते । शरीरात्मनोः विवेचनं ज्ञानस्य प्रमुखो विषयः । प्रत्येक-प्राणी आत्म-स्वरूपः । आत्मनो नास्ति जननम् अथवा मरणम् । केवलं पञ्चभूत-रचितं कलेवरं समयानुसारेण पञ्चभूतेषु लीयते । अयं विलयो विनाशो वा मृत्यु-रूपेण कथ्यते । मनुष्यः जीर्ण-वस्त्रं त्यक्त्वा यथा नूतनं वस्त्रं धारयति, तथा आत्मा जीर्ण-देहं परित्यज्य नूतनं शरीरं प्रविशति । गीतायां वर्णितमस्ति –   

"वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही ॥"

नवीन-शरीरे आत्मनः प्रवेशः ‘जन्म’-नाम्ना कथ्यते । इदं जन्म-मरण-तत्त्वं मर्त्त्य-जगति कदापि अन्यथा न भवति । यथार्थमुक्तमेव – “जातस्य हि ध्रुवो मृत्यु-र्ध्रुवं जन्म मृतस्य च ।” कर्मफल-भोग-निमित्तं मनुष्यः सामाजिक-प्राणि-रूपेण बारम्बारं जन्म-ग्रहणं कुरुते, मृत्यु-वरणं च । एतन्मतं भारतीयानाम् आस्तिक-दर्शनानाम् । जन्म-मृत्यु-चक्रं पुनरावृत्तिरिति कथ्यते । मनुष्यः सांसारिक-प्रपञ्चे वसन् माया-ममता-प्रलोभनासक्ति-प्रभावैः कर्म-फल-बद्धो भवति । सुकर्मणः परिणामो भवति उत्तमः, कुकर्मणः परिणामो मन्दः । एतत् सत्यं युगे युगे प्रतिष्ठितं सर्वैः स्वीकृतम् ।

॥ ४ ॥गीतायां वर्णितो धर्म-शब्दो विशेषतः कर्म बोधयति । कामना-रहितं कर्म "निष्काम-कर्म" इति उच्यते । उद्देश्यं विना अथवा फलाशां विना केवलं कर्त्तव्यानुरोधेन कर्माचरणं निष्कामं भवति । अर्जुनं प्रति उपदेश-माध्यमेन श्रीकृष्णेन निष्काम-कर्मणः विवरणं प्रदत्तम् । महर्षि-व्यासदेवस्य अभिव्यक्तौ –    

"कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्म-फल-हेतु-र्भू-र्मा ते सङ्गोऽस्त्वकर्मणि ॥"

कर्म-करणे एव मनुष्यस्य अधिकारो विद्यते । कर्म-फले तस्य नास्ति अधिकारः । अतः कर्म-फलस्य कारणं न भवितुम् उपदेशः प्रदत्तः । तथापि मनुष्यः कर्मणः अकरणे प्रवृत्तो न भवतु इति निष्काम-कर्मणः तात्पर्यम् । कर्मणि यदि कामना निहिता भवति, कर्मणः वैफल्ये सति दुःखं जायते । अनेन मानसिकी स्थितिः विचलिता भवति । अस्मात् कारणात् सामाजिक-प्रसङ्गेऽपि आसक्तिहीनं कर्म विधेयमिति परामर्शः दीयते । संसारे साधारणतः जनाः सकाम-करणे प्रवृत्ताः भवन्ति । किन्तु निष्काम-कर्म-योगिनः विरलाः संदृश्यन्ते ।

उद्देश्यं विना यदि कर्म क्रियते, तर्हि कर्म-करणं वृथा इति प्रश्ने कृते कथ्यते यत् मनुष्यः अथवा प्राणी कर्म विना शरीर-धारणे असमर्थो भवति । अस्मात् कर्म-करणं सुनिश्चितम् । कर्मणः अकरणे प्रवृत्तिः न स्यात् – अस्यार्थस्तु कर्म-करणे प्रवृत्तिः भवतु इति । कर्मफल-क्षयात् कर्म-बन्धनाभावात् जन्म-मृत्यु-चक्रेण बन्धनं न जायते । अतः कर्म-फले आशायाः आसक्ते-र्वा निषेधः कृतोऽस्ति । सकाम-कर्मापेक्षया निष्काम-कर्म श्रेयस्करमिति वर्णितम् ।

कर्माचरणेऽपि सामाजिक-कर्त्तव्य-बोधः विद्यते, जीवनस्य मूल्यबोधोऽस्ति । संसार-मध्ये साधारण-जनाः मायाबद्धाः अज्ञान-वशीभूताश्च जीवन्ति । समाज-परिसरे उत्तमाः जनाः यत् कर्म समाचरन्ति, अन्ये जनाः तेषां पथमनुसरन्ति । अस्मात् कारणात् महान्तो जनाः सर्वथा सत्कर्म-प्रवृत्ताः भवेयुः । फलतः साधारण-जनाः तान् आदर्श-रूपेण स्थापयित्वा सत्कर्म-तत्पराः भविष्यन्ति । गीतायां यथार्थ-रूपेण वर्ण्यते –    

"यद् यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत् प्रमाणं कुरुते लोकस्तदनुवर्त्तते ॥"


कर्माचरणे एव वैयक्तिकः तथा सामाजिकः कर्त्तव्य-बोधो निहितः अस्ति । तद् आचरणमेव समय-क्रमेण मनुष्यस्य व्यक्तित्वं प्रकाशयति । उत्तमाचरण-द्वारा मनुष्यः सामाजिक-दृष्ट्या परोपकारी यशस्वी लोकप्रियश्च भवति । कुकर्म-करणेन मानवः सामाजिक-निन्दायाः अपयशसः भाजनं जायते । साम्प्रतिके वैज्ञानिके युगे मानवस्य व्यक्तिगतः सामाजिकश्च कर्त्तव्यबोधः हानिं भजते । एतद्‍द्वारा मानव-समाजः पथ-भ्रष्टो विशृङ्खलितो लक्ष्यते । अस्मिन् परिप्रेक्ष्ये वैयिक्तिके सामाजिके क्षेत्रे च सत्कर्म प्रति प्रेरणा-प्रदान-निमित्तं गीतायाः अमृत-वाणी दिग्‍दर्शिनी-रूपेण नितान्तं सुकल्याणी उपादेया ।

॥ ५ ॥
गीतायाः द्वितीयाध्याये आत्मसंयमं स्थितप्रज्ञमधिकृत्य विशद-वर्णना समुपलभ्यते । इन्द्रियाणि मनःसमेतानि अत्यन्तं चञ्चल-स्वभावानि । इन्द्रियाणां वशीकरणे सत्कर्मणि अग्रसरो भवितुं सद्‍बुद्धिः जागर्त्ति । उच्छृङ्खलता मानव-चरित्रं दूषयति । अद्यतने विज्ञान-युगे आत्मसंयमस्य अभावः सामाजिक-पर्यावरणं विपर्यस्तं करोति । काम-पुरुषार्थस्य प्राबल्यं समग्र-समाजे अशान्तेः झञ्झां सृजति । मानव-जीवनस्य मूल्यं मर्यादाबोधश्च साम्प्रतिके दूषित-परिवेशे अत्यन्तं मालिन्यं भजते । एतद्-दुरवस्थातः समुद्धार-निमित्तं विश्वजनीन-शास्रस्य श्रीमद्‍भगवद्‍गीता-रूपस्य समुपादेयता नूनं प्रणिधेया ।

आविष्कृतानां नव-नवानां पदार्थानां दुरुपयोग-करणे अद्यतनाः आधुनिकाः जनाः सदैव तत्पराः विभ्रान्ताश्च दरीदृश्यन्ते । । एतद् विनाशि तत्त्वं न केवलं भारतीय-संस्कृत्याः, अपितु समग्र-मानव-जातेः ध्वंसार्थं मार्गं परिष्करोति । मारणास्त्रैः साम्प्रतिकाः निरीहाः जनाः भीति-ग्रस्ताः असुरक्षिताः निवसन्ति । यथा यथा पार्थिव-भौतिक-प्रगतिश्चलति, तथा तथा मानवस्य मानसिकी अधोगतिः परिलक्ष्यते । अतः परमात्मनः अंश-स्वरूपाः मानवाः साम्प्रतिके विज्ञान-युगे ज्ञान-नेत्रमुन्मील्य स्वान् प्रति दृष्टिपातं कुर्युः, आत्म-समीक्षणमपि करणीयम् । सदाचरण-सत्प्रेरणा-माध्यमेन मानवतायाः विजयो भविष्यति । अन्यथा, आसुरिकतायाः कवलेन ग्रस्तो मानव-समाजः निष्पेषितः प्रदूषितश्च भविता । धर्म-संस्थापकः अधर्म-संहारकः दुष्ट-दलनकारी साधु-पालनकारी भगवान् एव समेषामेकमात्रं शरणम् ।
* * * 


(Published in Sanskrit E-Journal 'Jahnavi', 2010 issue) 
= = = = = =