Wednesday, February 10, 2016

'Rajaniti-Prasunam' (राजनीति-प्रसूनम्) Sanskrit Poem/Dr. Harekrishna Meher

राजनीति-प्रसूनम् (संस्कृत-कविता) 
रचयिता : डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = = = = =
राजनीति-प्रसूनं राजते सजल-स्थलम्
कदा बहु-दलं  कदा नव-दलम्
स्वीय-प्रलोभन-सौरभेण
मधुकर-निकर-प्रारम्भेण
सम्मदयति जन-मानसम्,
मतदानं स्वपक्षं कर्त्तुं निरलसम्

कदा सप्तपर्णोत्कट-गन्धेन
कृत-नेत्र-प्रतिबन्धेन
छिद्यते अन्यदल-ग्रन्थिः,
भिद्यते प्रतिपक्ष-पन्थी,
खिद्यते जनता तपस्विनी,
विद्यते प्रवञ्चन-वाक् तेजस्विनी,
स्विद्यते देश-मातृकायाः
सर्वंसहमपि सर्वाङ्गं निर्भीकायाः

अभूतपूर्वं तन्नूनम्
सर्वफलप्रसू राजनय-प्रसूनम्,
नयनानयन-विमोहनम्
शयन-परिहृत-सहनम्,
वैचित्र्य-विमण्डितम्
कदा संयुक्तं कदा विखण्डितम्

* * * 

भारतीय-युद्ध-वीराः (Bharatiya-Yuddha-Viraah: Sanskrit Poem): Dr. Harekrishna Meher

Bharatiya-Yuddha-Viraah 
Sanskrit Poem by : Dr. Harekrishna Meher 
*
भारतीय-युद्ध-वीराः (संस्कृत-कविता) 
रचयिता : डा. हरेकृष्ण-मेहेरः 
= = = = = = = = = = = = = = =

हे भारतीय-संग्राम-वीर-वर्गाः !
स्वीय-प्राणोत्सर्गैः समलङ्कृत-स्वर्गाः !
कृते समेषां भवतां
नानाशस्त्रचालनै-र्भारत-राष्ट्रं समवतां
भारतीया भ्रातृ-भगिनी-समुदायाः
समुच्चारित-करुण-विदायाः
प्रशंसन्ति, विलपन्ति, आलपन्ति,
गर्वमनुभवन्ति, जल्पन्ति
स्मृति-विनम्र-मस्तकाः
कृतज्ञाः स्वदेश-हित-चिन्तकाः

वैरि-सन्तप्ताया मातृभूम्याः सुरक्षार्थं
परित्यक्त-वैयक्तिक-सुख-सार्थं
अन्तक-भीतिं चिन्तयन्तः
अमृतत्वं ये प्राप्तवन्तः
जन्मदाया वसुधाया वर-सन्तानाः
शौर्य-सूर्य-रश्मि-राशिं दधानाः
भारत-मातुः  सविजय-गानम्
भवन्तो नमस्याः सुचिर-वन्द्याः ससम्मानम्

विष-कुम्भाः पयोमुखाः प्रतिवेशिनः
वर्वराचरणा  अविश्वासिनः
अन्येषामनिष्टं चिन्तयन्तः पश्चात्पदाः
निवृत्ताः भीति-त्रस्ता निरस्त-मदाः

सत्कर्त्तव्याचरणार्थं कृत-शपथाः
निर्भयं समाश्रित-मृत्यु-पथाः
मातृसेवायां भवन्त आहुतीकृतासवः
त्यक्त-रक्ता  देश-भक्त-प्रवराः सद्बन्धवः

हे जन्मभूमि-मान-धन-बोधाः
दुष्टाराति-निपातनाः
धृतायुधा अपराजेय-योधाः
सिंह-संहति-संपन्नाः !
निवेद्यन्ते भवत्कृते समेषामस्माकम्  
सजलाः श्रद्धाञ्जलयः सनमोवाकम्
= = = = = = = 

Sunday, February 7, 2016

‘Nisargasya Ranga-Kalaa' निसर्गस्य रङ्गकला (Sanskrit Poem)/Harekrishna Meher

‘Nisargasya Ranga-Kalaa'
(Sanskrit Poem)
By:  Dr. Harekrishna Meher 
= = = = = = = = = = = = = = = 

निसर्गस्य रङ्गकला (संस्कृत-कविता)
रचयिता : डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = = = = =     

अद्वितीयो निपुण-कलाकारो निसर्गः
अद्भुत-वर्ण-विभामयः
तस्य प्रत्येक-सर्गः
नीरनिधे-र्नीलिमा
अम्बरस्यापि तादृग् रङ्गिमा,
तरु-वल्लरीणां कोमल-वर्णाभा
पल्लवानां हरितिमा लोहितिमा ,
कुसुमानां मनोहारिणां बहुवर्णिमा

अरुणिमा रमणीयाया उषायाः,
स्वर्णिमा सन्ध्यायाः सुवेषायाः,
मयूर-व्रातस्य चित्रपतङ्ग-वर्गस्य
वर्ण-लावण्येषु कला-प्रावीण्यम्,
समस्तं वस्तुतो दर्शनीयं निसर्गस्य
वैमनस्यं वैरस्यं निरस्य 

नीलकण्ठादि-द्विजानां  
विचित्र-चित्र-कान्तिः,
विहङ्गमेषु माङ्गलिकी चमत्कारिता,
जन-नयन-मानस-समाकर्षण-प्रतिभा
सुरुचिरा ह्यपूर्वा विमोहिनी

प्रकृत्या प्रकृतिरादर्श-चित्रकारिणी
रङ्ग-तूली-लालित्या रञ्जयति जगत् सर्वम्,
सुगुञ्जना मञ्जुला  विश्व-रञ्जिनी
सा विदग्धा माधुर्य-निधिः
सुन्दरताया आनन्दिनी प्रतिमा
= = = = 

(English Translation by the Author Dr. Harekrishna Meher) 

Colourful Art of Nature
= = = = = = = = = = = = =
Nature is the unique and dexterous artist.
Her every creation is replete
with marvellous colour and lustres.
Blueness of the ocean,
the same hue of firmament also,
the delicate colourful splendour
of trees and flowers,
the green and reddish hues of leaves,
the multicolour mien
of beautiful flowers.

The saffron figure of comely Dame,
the golden glow of pretty Evening,
the artistic efficiency in colourful beauties
of peacocks and butterflies,
all these of Nature are really worth-seeing
by discarding all mental unstability
and rude tastelessness.

The wonderful painted glaze
of Nilakantha birds,
the auspicious marvellousness in birds,
the excellence of attracting
the eyes and minds of the people
which is very beautiful,
ineffable and enticing.

Verily Dame Nature
who forms a genius of an ideal painter,  
by grace of the colour-brush
embellishes the entire world,
is mellifluous, comely universal portrayer.
Excellent, she forms
the repository of sweetness,
is the blissful embodiment of beauty.
= = = = = 
(Extracted from Sanskrit Kavya 'Saundarya-Sandarshanam' 
of Dr. Harekrishna Meher) 
* * * 


Related Link : 

*
Contribution of Dr. Harekrishna Meher to Sanskrit Literature:  
*

 = = = = = 

Saturday, January 30, 2016

BIODATA of Dr.HAREKRISHNA MEHER (English-Hindi-Sanskrit-Odia)

Biodata (English-Hindi-Sanskrit-Odia): 

Dr. HAREKRISHNA MEHER

= = = = = = = = = = = = = = = =

My Works & Achievements : Biodata Details :
*
English : Brief Biodata :
*
Hindi : Brief Biodata :
*
Sanskrit : Brief Biodata :
*
Odia : Brief Biodata :
* * * * * 

Places where cited, discussed and referred :
*
Books (Some Images) :
* * * * * 

Wikipedia :
Wikipedia : Matrigitikanjalih (Sanskrit Kavya) : 
Wikipedia : Philosophical Reflections in the Naisadhacarita (Ph.D. Thesis) : 

List of Indian Poets: Sanskrit- Modern Poets: Wikis: Full Wiki : 
*
Book Ref. (WorldCat) :
*
Biography (PoemHunter.com) :
*
Biodata (Srijangatha) :
*
Biodata (Muse India) :
*
*
Facebook  (DrHarekrishna Meher) : 
= = = = = = 

Dr. HAREKRISHNA MEHER

Retired Sr. Reader and Head, 
Post-Graduate Department of Sanskrit,  
Gangadhar Meher Autonomous College 
(College with Potential for Excellence)
Sambalpur – 768004. Odisha (India)

Mobile : +91-94373-62962 
e-mail :  meher.hk@gmail.com
website : 
= = = = = = = =