Monday, April 1, 2013

Sanskrit ‘Tapasvini’ Canto-1 (तपस्विनी महाकाव्यम्, प्रथम-सर्गः/डॉ.हरेकृष्ण-मेहेरः)

(तपस्विनीमहाकाव्यम्, प्रथम-सर्गः/डॉ.हरेकृष्ण-मेहेरः/Sanskrit Tapasvini, Canto-1)

TAPASVINI     
Original Oriya Epic Poem 
By : Poet Gangadhara Meher (1862-1924)
Complete Sanskrit Translation By : Dr. Harekrishna Meher 
*
[Published by : Parimal Publications, 27/28, Shakti Nagar, Delhi-110007,
ISBN: 978-81-7110-412-3.  First Edition  2012.]
= = = = = = = = = = = = = = 

(Book Jacket, Left Inner Side Note by Publisher)

Svabhava-Kavi Gangadhara Meher (1862-1924) famous as ‘Prakriti-Kavi’, Poet of Nature,   in Oriya Literature, possesses a special unique excellence and for his poetic significance, he is regarded as one among the illustrious makers of Indian Literature.

‘Tapasvini’, an eleven-canto Oriya epic poem, is considered as a great classic and the best creation of Gangadhara. This Ramayana-based Kavya elucidates the post-banishment episode of Sita’s later life in the hermitage of Sage Valmiki. With own innovative muse, the poet has depicted Sita as Tapasvini, a Lady Ascetic, who even if repudiated by his husband-king Rama, observes utter penance for his all well-being. The poet has established the glory of a devoted wife steeped in Indian culture.

The present book comprises Tapasvini’s Complete Sanskrit Translation done by Dr. Harekrishna Meher with a critical and elaborate discussion on this mahakavya. This Sanskrit Tapasvini verily deserves a unique figure with modern new style in the sphere of Sanskrit Literature.
*

(Book Jacket, Right Inner Side Note)

तपस्विनी-महाकाव्यं स्वभावकविना कृतम् ।
गङ्गाधर-मेहेरेण  रङ्गायितं सुवर्णकम् ॥ 
जानकी नायिका यत्र श्रीराम-सहधर्मिणी ।
सती-शिरोमणी साध्वी पतिव्रता तपस्विनी ॥
सर्गा एकादश ख्याताश्छन्दोरागैरलङ्कृताः ।
ग्रन्थाद्यं प्रार्थना-वस्तुनिर्देशात्मक-मङ्गलम् ॥
निर्वासनोत्तरं वृत्तं रामपत्न्याः प्रकीर्त्तितम् ।
सीतायाश्च तपश्चर्या-विभा कवेरभीप्सिता ॥
वाणी भावमयी स्निग्धा प्रधानः करुणो रसः ।  
दर्शनीयं निसर्गस्य चित्रणं चात्र मञ्जुलम् ॥
मौलिकोद्भावना भाति  कवेरत्र स्वतन्त्रता ।
सौरभं भारतीयं च सांस्कृतिकं सुसम्भृतम् ॥
सीता-चरितमाश्रित्य विशेषेण विनिर्मितम् ।
वक्तुं हि शक्यते काव्यं सीतायनमिति स्मृतम् ॥
ओड़िआ-मूलभाषायाः कृतः संस्कृत-भाषया ।
मम काव्यानुवादोऽयं मोदयतु सतां मनः ॥

* हरेकृष्ण-मेहेरः
(From ‘Praak-Kathanam’ of  Sanskrit Tapasvini Book)
= = = = = = = = = = = = = =

Tapasvini  [Canto-1]
This Canto-1 has been taken from pages 47- 64 of my Sanskrit ‘Tapasvini’ Book. 
*
For Introduction, please see : ‘ Tapasvini-Mahakavyam: Ekam Aalokanam’

तपस्विनी  (महाकाव्यम्)
ओड़िआ-मूल-रचना * स्वभावकवि-गंगाधरमेहेरः (१८६२-१९२४)
सम्पूर्ण-संस्कृतानुवादः * डॉ. हरेकृष्ण-मेहेरः

= = = = = = = = =
प्रथमः सर्गः 
= = = = = = = = =

का त्वमयि ! ज्योतिष्मती
वेशं समुज्ज्वलं शुभ्रं बिभ्रती ?
विजितेन्द्रनील-कान्तयस्त्वदीयाः
कुन्तला विराजन्ते कमनीयाः ॥

कलेवर-कान्ति-र्भिन्दाना
तव शुभ्र-सूक्ष्म-परिधानम्
कुरुते नितरां प्रकाशमाना
हृदये मे समाह्लाद-प्रदानम् ॥

किमु कौमुदी घनीभूता सती
त्वं वर्त्तसे मूर्त्तिमती ?
लुठति कुन्तल-कैतवाद् ध्वान्तं
पद-द्वये त्वदीये सदानतम् ॥

सुविरला भास्वरा मनोहराः
ग्रह-तारका-निकराः
रत्न-विभूषण-रूपा विद्यन्ते
समलङ्कुर्वन्तः कलेवरं ते ॥

अमिताः प्रसून-हाराः शोभन्ते
धवलास्तव कण्ठ-स्थिताः ।
अद्भुत-कौशलेन  ते
समग्राः  सुग्रथिताः ॥

तव शुभाङ्ग-सौरभं सम्प्राप्य प्रीतिदम्
जायते जगत् सकलं मुग्धमिदम् ।
प्राणेषु मे समुपगता
स्फुटं लसति प्रफुल्लता ॥

आवर्जयसि वस्तु किं धृत्वा स्वहस्ते,
निपीय तन्मानवाः
ज्योतिष्मन्तः सञ्जायन्ते
दैवत-प्रतीकाशा दीप्तावयवाः ॥

का मन्त्र-दीक्षा पुन-र्दीयते
त्वया जनेषु चित्वा नितरामर्हान् ?
क्षपितान्धकारैस्तैः सृज्यते
प्रकाश-राशि-र्महान् ॥

विकसन्ति ते चरणाङ्के सरसानि
धवलानि तामरसानि ।
तस्मात् सार्थकतां नाधिगच्छति
कौमुदीति नामोदीरणं त्वां प्रति ॥

जीवन-सरो मे दारिद्र्‌य-पङ्कभरम्
जञ्जालाब्दपुञ्ज-वारिभिराविलं तस्योदरम् ।
विन्दत् सन्दर्शनं शरत्-सन्निभायास्तव
तन्नूनं प्रसन्नतामुपैति स्वत एव ॥

प्रफुल्लतां गच्छति
मदीयं हृदयारविन्दं व्यापि ।
देवि ! त्वत्पद-सम्पत् सम्प्रति
तेन किमु खलु सम्प्रापि ?

त्वत्पद-स्पर्शात् संवृत्ताः
ममासवो नितरां विमोहिताः ।
कुरु त्वं स्वेच्छया
विचार्यते यत् समीचीनं त्वया ॥

वाल्मीकि-मुन्याश्रमं प्रति मनः
त्वरते धावन-रतमात्मनः
दर्शनमवाप्तुं सीतायाः
सत्या निर्वासितायाः ।
कीदृशं सा स्वयम्
असीव्यन् निजं जीर्ण-हृदयम् ?
जीवितं व्यतीतवती
कीदृशं केन साकं वा सती ?

अयि दयामयि ! त्वया
शक्तिर्मे प्रदीयतां कृपया ।
पवित्रतामेतु मनो दर्शनं कृत्वा,
करस्तु लिखित्वा ॥

प्रवहति काननाभ्यन्तरे भागीरथी सुभगा
पश्चिम-पुलिनोच्छलित-तरङ्गा,
विपिन-दृश्य-सन्दर्शन-तत्परा
व्याकुल-प्राणा चरणौ क्षिपन्तीव पुरस्सरा ॥

तीरे तस्या गभीर-दुःखाभिभूता
विद्यमाना वैदेह-सम्भूता
आसीन्  निरीक्षमाणा
प्राचीमभिलक्ष्य पतिप्राणा ॥  (१)

प्रवहन्नजस्रं नयनास्र-निष्यन्दः
उपर्युरसो निरर्गलमासीत् पतितः,
यथा पाथोदः
प्रतीच्यां दिशायां समुत्थितः
प्लावयति चरम-पर्वतम्
वारिधारा-सम्पातैरविरतम् ।
वारणेन्द्र-कर-वारिबिन्दु-निकरो यथा
सरस्या उरसि पतन्नविरलं सर्वथा
क्लेदयति नलिनम्
सन्ध्याकालीनम् ॥

हा नाथ ! इति व्याकुलं
समुदीरयन्ती मृदुलं
मेदिनी-तले विवशा समुपविशन्ती
उत्तानमपतन् निश्चेतना सती ।
नासीत् कोऽपि घटिते एवंविधे
तस्या धारणार्थं सविधे ॥

परिचारिकाः शत-शत-मिताः
आसन् यस्याश्चरण-सेवायां नियोजिताः,
तस्या दारुण-विपत्तिं द्रष्टुं नासीत्
एकाऽपि तत्र काचित् ॥

अहो ! भीषणा रीति-र्नियतेरियं यतः,
नायास्यति भीतिः कस्य हृदये पश्यतः ?
एतादृशं विलोकयत्
शकुन्त-वक्त्रेण काननमक्रन्दत् ॥

निश्वास-रूपेण तत्राधीरः
प्रावहत् प्रखरः समीरः ।
अभवत् सर्-सर्-स्वरः
प्रश्वास-रूपः श्रुति-गोचरः ।
पल्लव-सकलं विचलितमभवत्
कारुण्य-कल्लोलवत् ॥

इतस्ततः पश्यन्तश्चकितेक्षणाः
हरिणा अतिष्ठन् व्याकुलान्तःकरणाः ।
जनन्याः क्रन्दनमवलोकयन्तः
तस्य तात्पर्यमजानन्तः
यथा सन्तानास्तस्याः
भवन्ति व्यस्त-हृदयाः ॥

नियते-र्विरुद्धं योद्धुं तत्परः
प्रखरमगर्जत् तृणराजः करवाल-करः ।
मुहुर्मुहुः कम्पयन् बाया-कुलाय-निषङ्गकम्
बहिराकर्षदिव पर्ण-सायकम्  ॥

वेपमान-धुनी-कल्लोल-समुद्गताः
न्यपतन् पुलिने त्यक्तोर्मि-शीर्षाः पृषताः ।
वीची-तोपेषु सीसक-गोलिकाः पूरयन्ती
नियतिं प्राहरदिव भागीरथी क्रुद्धा सती ॥

सरोवराभ्यन्तरे चञ्चलं
विचलितं शतदल-सकलं
रचिताम्भोरुह-व्यूहमभवद् रण-प्रवणम्
प्रहृत्य भृङ्ग-मार्गणम् ॥

कानन-प्रसूनानि  परिहृत-वृन्तानि
वसुधा-तले निपत्य समस्तानि
पांसु-विलिप्तानि  परस्परम्          
प्रारभन्त मल्ल-समरम् ॥         

छित्त्वा नियते-र्बन्धनम्
ऊर्णनाभ-तन्तु-रूपं तरसा,
प्रादर्शयत् स्फुटमास्फालनम्
वल्लरी कोपाविष्ट-मानसा ॥

भग्न-हृदयः शीर्ण-तनुः
धावन् द्रुतं स्तनयित्नुः
समायातस्तत्र सक्रोधम्
स्वकीय-दलबलेन सार्धम् ॥

व्यक्त-रुष्टेक्षणेन  तेन
कृत-गम्भीर-गर्जितेन
नियतिमुद्दिश्य प्रदर्शितम्
तर्जनं कोप-जर्जरितम् ॥

मुहुर्मुहुः सिञ्चन् सुशीतलं
बिन्दुबिन्दु-मृदु-जलं
स जीमूतः सत्यानने
चेतनां प्रत्यानयत् तज्जीवने ॥

साध्वी-कुलवध्वाः सर्वं दुर्विपाकं पश्यता
कृतं निलीनं स्वमुखं सलज्जं खर-मयूखवता ।
सकलाभि-र्दिशाङ्गनाभिः
निषण्णाभि-र्विषण्ण-लपनाभिः
वितत्य स्तनित-रुदितम्
व्योम-मण्डलमकारि प्रकम्पितम् ॥

कियत्-क्षणानन्तरं
प्राप्त-चेतना नैराश्य-ग्रस्त-हृदया
निरैक्षत दश-दिक्षु कातरं
महादेवी वैदेह-तनया ॥

दिशाः समस्ता रामचन्द्रमय्यः
दृष्टि-गोचरा अभवन् ।
समुपविष्टो भर्त्ता स्वीयः
विषाद-ग्रस्त-हृदयः सन् ॥

पुरतः प्राञ्जलि-र्विद्यमानः
सुधीरः सुमित्रा-सन्तानः ।
उभयो-र्नयन-युगलम्
गतमश्रु-निष्यन्दतामविरलम् ॥

प्रष्टुं वार्त्तां सीतायास्ततः
न पारयति रघुपतिः ।
वक्तुं सौमित्रि-वक्त्रतः
न स्फुरति कापि वर्ण-ततिः ॥

यदा व्यलोकि तया दिवाकरः,
दृष्टस्तदा तपनोत्सङ्गे रघुनन्दनः
आस्ते विनत-वदनः
मस्तक-न्यस्त-करः ॥

भागीरथीं प्रति
तस्या नयने पतिते सम्प्रति,
अभवद् दृक्-पथ-गोचरः
भगीरथमनुगच्छन् रघुवरः ॥

गङ्गा-प्रवाह-तुल्यानि
श्रीराम-नयन-तोयानि ।
तत्र सकृत् निमज्जति स महीभृत्,
कदा पुनः प्लवमानः सकृत् ॥

प्रत्यावर्त्त्य ततः सहसा
दृष्टिं स्वगर्भोपरि निधाय सा
समवर्षत् स्वयम्
नेत्र-नीरं निरर्गल-रयम् ॥

निशाम्य तदा श्यामलं
सर्वं दूर्वादलं
सङ्कुचिता सती
प्रस्तरं प्रति प्रस्थानमैच्छत् ।
परन्तु तत्रापि नागच्छत्
स्वान्ते किञ्चिद् विचिन्तयन्ती ।
रोदनावेगावरोधनार्थं सर्वथा
मैथिलजा नाभवत् समर्था ॥

आर्त्त-व्याकुल-स्वरैः
विलापैः कारुण्यभरैः
वनस्थलं स्तब्धमकरोत् सरोदना
रामवधू-र्विदग्धवदना ॥

व्यक्तमासीद् दुःखिन्यास्तस्याः,
हा हा जीवितेश्वर !
करुणा-रत्नाकर ! स्नेहाम्बुधर !
कस्मिन् कुलग्ने गृहीतस्त्वया करः
मन्दभागाया अस्याः ?
अभवस्तदर्थं दारुण-दुःखाकरः ॥

अविदित्वा प्रभोः प्रभूत-महिमानं मया
रक्षितमासीत् कार्मुकमेकं गरिमाच्छन्नया ।
कृत्वा खण्डितं कोदण्डं तत्
अनायासमिक्षु-दण्डवत्
भावितवानासी-र्माम्
तस्य रस-माधुरीमनुपमाम् ॥

हे शूर-शिरोमणे !
विपिनस्थल-भ्रमणे
न मत्वा मां चरण-शृङ्खलां सप्रणयः
त्वमात्मना सार्धमनयः ॥

अङ्घ्रि-शृङ्खलामेतां
विधाय हृदय-हार-रूपामभिमतां
व्यहरस्त्वं तीर्थ-क्षेत्रेषु
आश्रमेषु च पवित्रेषु ॥

ममोपरि कानने समर्पितः
त्वया स्नेह-राशिरपरिमितः ।
कीदृशं वा विस्मरिष्यामि तम्
यो गभीरं प्रविष्टोऽस्ति मज्जीवितम् ॥

क्षुधार्ता भविष्यतीयं तुच्छा दासी
इति विचिन्त्य कानने
निरलसो नियतमासीः
त्वं नानाफल-मूलानयने ॥

पर्णासने सुप्ति-र्मम
न भविष्यतीति विचार्य
त्वया दोलिका प्रस्तूयते स्म
स्वीयाङ्क-पर्यङ्के नचिराय ॥

नगण्याया मे स्नेह-बन्धन-वशतः
त्वं महासिन्धुं विलङ्घ्य ततः
समारब्धवान् भीषणम्
दशवक्त्रेण सार्धं महारणम् ॥

त्वया तत्रानेके दृढ़ाः
महायुध-प्रहाराः सोढ़ाः ।
तत्कृत-क्षत-समुदायान्
त्वमासी-र्हृदय-हारं भावितवान् ।
हारस्य पदकानुरूपां विभाव्य माम्
अस्थापयो मध्यमणीं कृत्वा मनोरमाम् ॥

क्षत-चिह्नानि वीक्ष्य यदा
क्षोभः सञ्जातः स्वान्ते मम,
पीयूष-पूर्ण-वाक्यैस्तदा
मां निरन्तरं सन्तोषयसि स्म ॥

सुतरां निगदितं भवता,
समराध्वरे भीषणे शोणिताहुतिमर्पयता
त्वं खलु समधिगतासि मया
विभूति-र्दुर्लभा शुभाशया

शिलीमुख-मुख-चिह्नानि
नाद्यावधि विलयं गतानि,
अहो ! सौभाग्य-विरहिता
अभवं भवतोऽहं विप्रयुक्ता ॥

तव हृदय-फलकात् कृपया
स्मृति-र्मदीया पराम्रष्टव्या ।
समायास्यति त्वन्यथा
तव प्रतिनिमेषमन्तर्व्यथा ॥

अस्मि काऽहं हेया ?
प्रजा-रञ्जनं  ते चिरञ्जीवतु ।
अहं म्रियै हत-भागधेया,
कलङ्क-विभञ्जनं ते भवतु ॥

अस्मात् सम्भविष्यति या
शाश्वती कीर्त्तिरक्षया,
स्थापय स्वहृदये चिराय
तस्या मूर्त्तिमविलयां निर्माय ॥

अंशुमानसौ दिवसकरः
वंश-जनयिता भवताम् ।
निरन्तरं स मुक्त-करः
कल्याण-वितरणाय जगताम् ॥

धरित्री-धात्री-रूपिणीयं भागीरथी
चिरन्तनी विश्रुता कीर्त्तिः कुलस्य ते ।
मामत्यजः खलु कीर्त्ति-सुरक्षार्थी,
कर्मेदं महाभाग ! तवानुरूपं विद्यते ॥

भवतः कीर्त्ति-पताकायां
स्थास्यति निश्चितमेतस्यां
पातकिन्या मे चित्रं शश्वत्,
परन्तु विषमं विचित्रमेतत् ॥

नाथ ! धिङ् मम जीवितम्,
त्वमस्पृष्ट-कलङ्क-लवः
नूनं मन्निमित्तम्
अपकीर्त्ति-भाजनमभवः ॥

विहाय त्वदीयं श्रीचरणम्
प्रपत्स्ये कुत्राहं शरणम् ?
देहं मे न दहति दहनः,      (२)
केन वा धक्ष्यामि पुनः ?

द्युतिं त्वदीयां धृतवानस्ति
दूर्वा-राशिरयम् ।
कानने तं परित्यज्य सम्प्रति
नेष्यामि कस्याश्रयम् ?
अनुग्रहस्ते प्रस्तरेऽपि फलत्यवितथम् ।  (३)
मामधिकृत्य वा कथम्
निग्रहं ताः सर्वाः
समवाप्स्यन्ति दूर्वाः ?

गर्भे मम स्थापितमस्ति यत्
त्वया रत्न-निधानं महत्,
तस्य सुरक्षण-निमित्तम्
न किमपि प्रतिविधानं निगदितम् ॥

दृढ़ासीदाशा निश्चिता
मम हृदये सम्पोषिता,
समर्प्य रत्नमिदं शुभास्पदम्
मण्डयिष्यामि प्रभोरुत्सङ्ग-पदम् । 
परन्तु व्योम-प्रसूनमेव
परिणामस्तदाशायाः सञ्जातः ।
धन्य-धन्यस्त्वं दैव !
तुभ्यं सहस्रकृत्वः प्रणिपातः ॥

पिता यस्य नृपति-र्महान्
विश्वेऽस्मिन् विशाल-कीर्त्तिमान्,
हे दैव ! का दशा विधास्यते
तदीय-पुत्र-कृते ?

सम्भवति दम्भोलि-पातः
शैल-काये खलु शतशः ।
घोर-शल्यं हा हा ! चेत् सञ्जातः
तेन साकं शैल-सन्निवासिनां विनाशः ॥

धन्यस्त्वं प्रभो ! त्वद्-वदनं
पीयूष-निष्यन्दो वर्त्तते ।
पीयूष-तुषाराश्म-सदनं
वस्तुतो हृदय-पर्वतस्ते ॥

सन्तापे पतितेऽपि तस्मिन्
त्वदीये हृदये स्वामिन् !
नान्यन् निस्सरति तवास्यात्
ऋते सुमधुरात् पीयूषात् ॥

निशम्य सहसा मे कौलीन-वृत्तान्तं
मन्ये, अवश्यमेवाभवत्
भवतो हृदयाभ्यन्तरे नितान्तं
दुस्सहं कष्टं महत् ॥

नोक्त्वा तथापि भाषां
एकपदामपि परुषां
मां परित्यक्तवान् नितराम्
आशां प्रदाय मधुभराम् ॥

ममार्जितमेव पातकमस्ति
मम दुःखराशे-र्जनकम् ।
स्मृति-मार्गं मे समागच्छति
सम्प्रति तत् पातकम् ॥

महिमार्णवं मे प्राणेश्वरं
मत्वा जनमितरं
त्राहि लक्ष्मण इति रवः
भावितो मया तन्मुखोद्भवः ॥

निम्न-मनसाऽहं लक्ष्मणं
निम्नं विचार्य तत्‌क्षणं
प्राहिणवं बलपूर्वकम्
मामक-प्राणकान्तस्यान्तिकम् ॥

मत्कृतेन तेन पातकेन निश्चितं
नाथस्य महिम-समेधनार्थम्
अस्याः पातकिन्याः घटितं
चिर-निर्वासनं यथार्थम् ॥

निर्दोषं लक्ष्मणं प्रति
तिरस्कारो यो मया निक्षिप्तः,
तस्य पुरस्कारः सम्प्रति
मया समुचितः समवाप्तः ॥

मत्सकाशात् सत्वरं दूरीकर्त्तुं देवरम्
हृदये तस्याहं वाग्-वज्रं प्राहरम् ।
चरणयो-र्मे प्रणम्यासौ भक्तिमान्
विनय-वाक्येन मां दूरमपाकृतवान् ॥

छिन्नास्यमेकमानीय रावणः
प्रादर्शयत् पाप-प्रवणः
मम पाप-नेत्रयोः पुरतः ।
छिन्नं तन्मस्तकं
मत्वा मत्स्वामिनः स्वकं
विलुप्त-धैर्या नितरामरोदं ततः
व्याकुल-प्राणान् दधाना
नयनोदकेषु  प्लवमाना ॥

तदास्य-दर्शनाद् यन्न चलितम्
तत्क्षणमेव मज्जीवितम्,
वर्त्ते पातकेनामुना
जीवन्दग्धाऽहमधुना ॥

लघूकृत-त्वत्पद-सेवा-सुखया
आश्रम-दर्शन-सुखं समभिलषितं मया ।
तत् पातकं त्वत्सकाशात् सम्प्रति
मां वियोज्य कथयति,
तथा कुरु यथेच्छसि
अयि पापिनि ! स्वमनसि

अयोध्या-राजलक्ष्म्याः
प्रीति-वशतामस्पृशता
बहवो वासराः सुरम्याः
सार्धं मया व्यतीता भवता ॥ 

आसीदसूया-परायणा
राजलक्ष्मीः कृत-कालान्वेषणा ।
पुन-र्बहुदिवसानि यावत्
सा धारण-क्षमा नाभवत् ॥

तस्या दुःखस्य सङ्गिनः
आसन् ये नगर-निवासिनः,
मन्निर्वासन-निमित्तम्
अस्मारयत् तान् निश्चितम् ॥

गरीयसी सपत्नी-शक्तिरयोध्या-नगर्याम्,
पतिशक्ति-र्महीयसी न प्रभवति तस्याम् ।
देव्याः कैकेय्याः पराक्रमे
व्यक्त-साफल्याधिगमे
देशे तस्मिन् प्रादुरभवत्
बलं राजलक्ष्म्याः सुमहत् ॥

प्रजा-रञ्जनस्य चेत्
आवश्यकता भवेत्,
प्रभवामि परित्यक्तुं प्रियतमाम्
सीतामपि मे प्राण-समाम् ।
अष्टावक्र-मुनेः सम्मुखमित्थम्
त्वया प्रतिज्ञातं वचनमवितथम् ।
सा प्रतिज्ञा तव स्मरण-धृता
भवेन् निश्चितमशिथिलीकृता ॥

पितृ-वचन-पालनाय त्वम्
प्रपन्नोऽस्यपराङ्मुखत्वम् ।
भर्त्तृ-वचन-पालनाय सर्वथा
यदि जायते हृदि मे न व्यथा,
तदैवाहं सुविवाहा
भविष्यामि भवदीय-पत्नी-पदार्हा ।
समवगमिष्यति विषयमेतम्
मानसं मे सुनिश्चितम् ॥

व्रती त्वमन्वहम्
प्रजा-रञ्जन-व्रते ।
सहधर्मिणी तवास्म्यहम्,
त्वच्चरणाङ्के गति-र्मे वर्त्तते ॥

भवतु मन्निर्वासनम्
प्रजानां सन्तोष-सम्पादनम् ।
भवतु व्रतं प्रभोरनन्यम्
पूर्णतया दोषशून्यम् ॥

रुदितेन सत्याः स्तम्भीभूतः
समीरणस्य वेगः ।
जल-स्थल-समेतः
समजनि कातरो निसर्गः ॥

गङ्गा-कल्लोलाः संवृत्ता निश्चलाः,
अटव्यां व्यरमन्त शकुन्तानां मधु-कलाः ।
नाभवद् दोलितं
पर्णमेकमपि पादपानाम् ।
अपघनं च न चलितं
लतानां  लीला-रतानाम् ॥

प्रतिविटपं निषण्णाः
तत्र विहङ्गम-गणाः
अददुः श्रुति-लयम्
प्रतितालं प्राणेषु प्रपूर्य सन्ताप-रयम् ॥

स्ववदने मातृ-पयोधरं दधत्
मृग-शावकस्तत्रातिष्ठत्
निश्चलः स्थिरः
अचूषित-क्षीरः ॥

कुरङ्गी-सङ्गताः कुरङ्गाः
वदनस्य कुश-ग्रासं वदने दधानाः
अतिष्ठन् कृत-ग्रीवा-भङ्गाः
शोक-ध्वनौ दत्त-प्रणिधानाः ॥

मयूर-मयूरी-कदम्बकाः
तस्थुः सशावकाः
तत्र चित्रित-तुल्याः
परित्यक्त-चापल्याः ॥

गङ्गाभिमुखं गमनं विस्मृत्य
मध्येमार्गं निवृत्त्य
स्थिरमतिष्ठन् डित्थ-समाः
सकलभाः स्वाङ्गना-सङ्गता मतङ्गमाः ॥                               
* * *
- - - - - - - - - -
पादटीका :
(१) गढ़वालस्थित-वाल्मीकिमुन्याश्रम-समीपे गङ्गा दक्षिणवाहिनी ।
ततः पूर्वदिशायां विद्यते अयोध्या ।
(२) लङ्कापुरे अग्नि-परीक्षायां सीता न दग्धीभूता ।
(३) श्रीराम-पदधूलि-स्पर्शात् पाषाणमयी अहल्या दिव्य-नारीरूपा बभूव  ।
= = = = =

(इति स्वभावकवि-गङ्गाधरमेहेर-प्रणीतस्य
तपस्विनी-महाकाव्यस्य
श्रीहरेकृष्णमेहेर-कृत-संस्कृतानुवादे प्रथमः सर्गः)
= = = = = = = 


[सौजन्यम् :
स्वभावकवि-गङ्गाधरमेहेर-प्रणीता तपस्विनी ’ *
संस्कृतानुवादकः - डॉ. हरेकृष्ण-मेहेरः
प्रकाशकः - परिमल पब्लिकेशन्स्, २७/२८ शक्ति नगर, दिल्ली-११०००७, भारतम्.
प्रथम-संस्करणम् - २०१२ ख्रीष्टाब्दः]
= = = = = = 

Tri-lingual Translations of Poet Gangadhara Meher’s Tapasvini Kavya
By : Dr. Harekrishna Meher
Hindi-English-Sanskrit Articles on Tapasvini Kavya : 
http://hkmeher.blogspot.in/2011/08/my-hindi-english-sanskrit-articles-on.html
* * * * *


No comments: