Sanskrit Poem : 
Saundarya-Prakashah
*
(From Sanskrit Kavya 'Saundarya-Sandarśanam')
By : Dr. Harekrishna Meher
= = = = = = = = = = = = = = = = = = = = = = =
सौन्दर्य-प्रकाशः / हरेकृष्ण-मेहेरः
= = = = = = = = = = = = = = = = = = = = = = =
सन्ताप-नाशाय सुखोपलब्धये
Saundarya-Prakashah
*
(From Sanskrit Kavya 'Saundarya-Sandarśanam')
By : Dr. Harekrishna Meher
= = = = = = = = = = = = = = = = = = = = = = =
सौन्दर्य-प्रकाशः / हरेकृष्ण-मेहेरः
= = = = = = = = = = = = = = = = = = = = = = =
सन्ताप-नाशाय सुखोपलब्धये
स्वान्तःप्रसादाय  भुवां शिवाप्तये । 
सुमङ्गलं  वाङ्मय-सिन्धु-गर्भतः 
काव्याख्य-रत्नं विबुधैः समुद्धृतम् ॥ (१)
शब्दार्थ-रूपं  प्रथितं हि काव्यं 
भावानुकूला कलिता गिरा स्यात् । 
वाच्यार्थ-मध्ये लसतीह चारुता 
सा लक्षित-व्यञ्जितयोरनन्तरम् ॥ (२)  
सत्यं शिवं सुन्दरमत्र लोके 
प्रसिद्धमेतत् त्रितयं विभाति ।
जानाति नित्यं  खलु तत्त्व-दर्शी
नाज्ञाय किञ्चित् स्वदते मनोज्ञम् ॥ (३)
निस्सीम-सौन्दर्य-महासमुद्रो 
ब्रह्मैव नित्यं परमात्म-तत्त्वम् । 
विभ्राजते शाश्वतमेवमव्ययं  
तदुद्भवा नान्दनिकी प्रवृत्तिः ॥ (४) 
यद्दर्शनाद् दृङ्-मनसो-र्जनस्य  वै 
तृप्तेः समाप्ति-र्न भवत्यहर्निशम्
। 
स्वान्तं यदार्द्रीकुरुते नितान्तं 
तत् सुन्दरं वस्तु  बुधै-र्निगद्यते ॥ (५) 
क्षणे क्षणे यन्नवतामुपैति 
तदेव रूपं रमणीयतायाः । 
इत्युक्तिरेषा प्रथितास्ति माघे 
किं स्वानुभूत्या भजते न सार्थताम् ? (६)
विचारणीयाऽऽन्तर-सूक्ष्म-दृष्ट्या 
सर्वत्र धीरं  रमणीयता बुधैः । 
यत्रौचिती विद्यत एव निश्चिता 
तत्रैव सौन्दर्यमभिप्रकाशते ॥ (७)
सौन्दर्यमुत्समतुलं भव-सर्जनाया
आकर्षणं प्रभवति श्रित-मूल-तत्त्वम् ।
यत्रास्ति यस्य रुचिराऽऽन्तरिकी नितान्तं
तत्रैव तस्य रुचिरा भवति प्रतीतिः ॥ (८)
मन्नेत्रयो-र्यत् प्रतिभाति सुन्दरं
त्वन्नेत्रयोस्तन् न भवेत् तथाविधम् ।
यदन्य-नेत्रे  रुचिरं प्रपश्यत-
स्तथैव नैतन् मम ते च नेत्रयोः ॥ (९)
परन्तु किञ्चिद् भुवि वस्तु विद्यते
विचित्रमेवं  रचितं विधात्रा ।
यद् वै जनानां जगतां समेषां
नेत्राणि पश्यन्ति सदैव सुन्दरम् ॥ (१०) 
= = = = = 
Related Links: 
Saundarya-Sandarshanam (Sanskrit Kavya) : 
*
Contribution of Dr. Harekrishna Meher to Sanskrit Literature:
Contribution of Dr. Harekrishna Meher to Sanskrit Literature:
*
Translated
Works of Dr. Harekrishna Meher : 
http://hkmeher.blogspot.in/2016/08/translated-works-of-dr-harekrishna-meher.html
 = = = = = http://hkmeher.blogspot.in/2016/08/translated-works-of-dr-harekrishna-meher.html

No comments:
Post a Comment