Tuesday, April 15, 2008

Saundarya-Sandarsanam Kavya: सौन्दर्य-प्रकाशः Sanskrit Poem: Dr.Harekrishna Meher

Sanskrit Poem : 
Saundarya-Prakashah 
*
(From Sanskrit Kavya 'Saundarya-Sandarśanam')
By : Dr. Harekrishna Meher  
= = = = = = = = = = = = = = = = = = = = = = = 
सौन्दर्य-प्रकाशः / हरेकृष्ण-मेहेरः    
= = = = = = = = = = = = = = = = = = = = = = = 
सन्ताप-नाशाय  सुखोपलब्धये 
स्वान्तःप्रसादाय  भुवां शिवाप्तये ।
सुमङ्गलं  वाङ्‌मय-सिन्धु-गर्भतः
काव्याख्य-रत्नं विबुधैः समुद्धृतम् ॥ (१)

शब्दार्थ-रूपं  प्रथितं हि काव्यं
भावानुकूला कलिता गिरा स्यात् ।
वाच्यार्थ-मध्ये लसतीह चारुता
सा लक्षित-व्यञ्जितयोरनन्तरम् ॥ (२) 

सत्यं शिवं सुन्दरमत्र लोके
प्रसिद्धमेतत् त्रितयं विभाति ।
जानाति नित्यं  खलु तत्त्व-दर्शी
नाज्ञाय किञ्चित् स्वदते मनोज्ञम् ॥ (३)

निस्सीम-सौन्दर्य-महासमुद्रो
ब्रह्मैव नित्यं परमात्म-तत्त्वम् ।
विभ्राजते शाश्वतमेवमव्ययं  
तदुद्भवा नान्दनिकी प्रवृत्तिः ॥ (४)

यद्दर्शनाद् दृङ्-मनसो-र्जनस्य वै 
तृप्तेः समाप्ति-र्न भवत्यहर्निशम् ।
स्वान्तं यदार्द्रीकुरुते नितान्तं
तत् सुन्दरं वस्तु  बुधै-र्निगद्यते ॥ (५)

क्षणे क्षणे यन्नवतामुपैति
तदेव रूपं रमणीयतायाः ।
इत्युक्तिरेषा प्रथितास्ति माघे
किं स्वानुभूत्या भजते न सार्थताम् ? (६)

विचारणीयाऽऽन्तर-सूक्ष्म-दृष्ट्या
सर्वत्र धीरं  रमणीयता बुधैः ।
यत्रौचिती विद्यत एव निश्चिता
तत्रैव सौन्दर्यमभिप्रकाशते ॥ (७)

सौन्दर्यमुत्समतुलं भव-सर्जनाया
आकर्षणं प्रभवति श्रित-मूल-तत्त्वम् ।
यत्रास्ति यस्य रुचिराऽऽन्तरिकी नितान्तं
तत्रैव तस्य रुचिरा भवति प्रतीतिः ॥ (८)

मन्नेत्रयो-र्यत् प्रतिभाति सुन्दरं
त्वन्नेत्रयोस्तन् न भवेत् तथाविधम् ।
यदन्य-नेत्रे  रुचिरं प्रपश्यत-
स्तथैव नैतन् मम ते च नेत्रयोः ॥ (९)

परन्तु किञ्चिद् भुवि वस्तु विद्यते
विचित्रमेवं  रचितं विधात्रा ।
यद् वै जनानां जगतां समेषां
नेत्राणि पश्यन्ति सदैव सुन्दरम् ॥ (१०)
= = = = = 

Related Links: 
Saundarya-Sandarshanam (Sanskrit Kavya) : 
*
Contribution of Dr. Harekrishna Meher to Sanskrit Literature:  
*
 = = = = = 

No comments: