Wednesday, December 2, 2009

Sanskrit Poem 'Dvijana-Nīrājanam' (द्विजन-नीराजनम् )/Dr.Harekrishna Meher

Dvijana-Nīrājanam (Tribute to the Two) 
   
Sanskrit Poem By : Dr. Harekrishna Meher
= = = = = = = = = = = = = = = = =


द्विजन-नीराजनम् (संस्कृत-कविता)
रचयिता : डॉ. हरेकृष्ण-मेहेर:    
= = = = = = = = = = = = = = = = =

हृदयस्य स्पन्दे स्पन्दे
प्रकटयति चरितं यो मलिनात्मनः,
दुर्जनं तं सर्वादौ वन्दे
भस्मभृतो यस्माद् बिभेति सज्जनः ॥

ध्वान्तो न विद्यते चेत्
महत्त्वमालोकस्य कुतः ?
दुराचारो यदि न भवेत्
सदाचारः कथं विश्रुतः ?

दुःखानुभावो न भवेद् यदि
सुखस्य महत्त्वं कीदृशम् ?
दारिद्र्यं नास्ति चेत् सपदि
कुतो द्रविणस्य गौरवं भृशम् ?

कीदृशं महत्त्वं शीतलतायाः
प्रखरस्तापो यदि नास्ति ?
रूपं यदि खेलति न खलतायाः
साधुताया माधुरी कथं चकास्ति ?

विरहो यदि नानुभूयते
मिलनं कथं स्तूयते ?
यदि न प्रादुर्भावो हेमन्तस्य
कुतो रामणीयकं वसन्तस्य ?

दानवा यदि न विद्यन्ते
देवाः कथं वा प्रशस्यन्ते ?
यदि न भवेत् प्रातिकूल्यम्
कीदृशं वा साफल्यस्य मूल्यम् ?

कथं प्रसूनस्य गौरवं
यदि न भवेत् कण्टकः ?
उदकस्य कीदृशं वा महत्त्वं
नास्ति यदि पावकः ?

यदि भवेन्नाधमः
समभिनन्द्यते कथमुत्तमः ?
यदि भवेन्न चार्वाक-सिद्धान्तः
कथं वा वन्द्यते वेदान्तः ?

क्रन्दनं यदि न स्यात्
माहात्म्यं कथं हास्यस्य ?
चण्ड-ताण्डवस्याभावात्
कीदृशो विलासो लास्यस्य ?

नास्ति यदि पतनस्य सत्ता
उत्थानस्य का वा सार्थकता ?
यदि न स्याद् विनाशः
कथं वा सर्जनायाः परिप्रकाशः ?

कदाचित् कु-वर्गोऽपि
ददाति हार्दिकं प्रसादम् ।
तद्‍वत् सु-वर्गोऽपि
कदाचिद् विषादम् ।
दोषोऽपि गुणायते,
गुणोऽपि दोषायते ।
क्वचित् प्रीतिः क्वचिद् व्यथा
जायते मर्त्त्य-जीवने व्यतिक्रमः सर्वथा ॥
* * *

No comments: