Friday, December 31, 2010

Śiva-Sańkalpa-Gītikā (शिवसङ्कल्प-गीतिका) /हरेकृष्ण-मेहेरः

Śiva-Sańkalpa-Gītikā (Song of Auspicious Resolve) 
Lyrics & Tuning by : Dr. Harekrishna Meher  
(Extracted from ‘ Mātŗigītikāñjalih'- Kāvya of the Author)

शिवसङ्कल्प-गीतिका 
गीत-रचना तथा स्वर-संयोजना : डॉ. हरेकृष्ण-मेहेरः  
(‘मातृगीतिकाञ्जलिः’- काव्यात्‌)
= = = = = = = = 

शिव-सङ्कल्पम्‌‍,
शिव-सङ्कल्पम्‌‍,
मनो भवतु मे शिव-सङ्कल्पम्‌‍,
चराचरे सुजवनमविकल्पम्‌‍ ।
शिव-सङ्कल्पम्‌‍, शिव-सङ्कल्पम्‌‍ ॥
(ध्रुवम्‌‍) *
अणु-परिमाणं
कर्माकर्मसु कारणम्,
स्वतःप्रमाणं
जगति समेषां स्मारणम्‌‍ ।
चिरं ज्योतिषां ज्योतिरनल्पम्‌‍ ।
मनो भवतु मे शिव-सङ्कल्पम्‌‍,
शिव-सङ्कल्पम्‌‍, शिव-सङ्कल्पम्‌‍ ॥ (१)
*
धर्मे निरतं
तदेव परमं दैवतम्‌‍,
आशा-विततं
तन्न निराशा-सैकतम्‌‍ ।
अस्तु विपदि तत्‌ प्रस्तर-कल्पम्‌ ।
मनो भवतु मे शिव-सङ्कल्पम्‌‍,
शिव-सङ्कल्पम्‌‍, शिव-सङ्कल्पम्‌‍ ॥ (२)
*
प्रसरतु धिषणा
लोक-सुमङ्गल-तर्पणे,
माऽस्तु भीषणा
प्रतिफलिता मुख-दर्पणे ।
तया सुरभितं प्रसून-तल्पम्‌‍ ।
मनो भवतु मे शिव-सङ्कल्पम्‌‍,
शिव-सङ्कल्पम्‌‍, शिव-सङ्कल्पम्‌‍ ॥ (३)
*
तस्मिन्‌ विमले
भुवनं पावन-निर्मलम्‌‍,
सति समुज्ज्वले
दिव्यमङ्गलमुज्ज्वलम्‌‍ ।
सुन्दर-मन्दिरमगम्य-शिल्पम्‌‍ ।
मनो भवतु मे शिव-सङ्कल्पम्‌‍,
शिव-सङ्कल्पम्‌‍, शिव-सङ्कल्पम्‌‍ ॥ (४)
*
आत्म-रथि-रते कलेवर-रथे
करण-तुरङ्गम-पुङ्गवाः,
विवेक-सारथि- विभास्वर-पथे
चलन्तु संयम-वैभवाः ।
रश्मि-र्यदस्ति सूक्ष्ममकल्पम्‌‍ ।
मनो भवतु मे शिव-सङ्कल्पम्‌‍,
शिव-सङ्कल्पम्‌‍, शिव-सङ्कल्पम्‌‍ ॥ (५)
= = = =


(गीतिकेयं कहरवा-तालस्य त्रिताल-तालस्य वा मध्यलयेन परिवेषणीया)
* * * * * 


English Translation : 
http://hkmeher.blogspot.in/2012/12/siva-sankalpa-gitika-drharekrishna-meher.html 
= = = = 


No comments: