Monday, May 11, 2009

Sanskrit Song “Kavi-Gītikā” : Harekrishna Meher

Kavi-Gītikā (Song for the Poet)  
Lyrics and Tuning by : Dr. Harekrishna Meher  
(Extracted from ‘Mātrigītikāñjalih’ Kāvya)
- - - - - - - - - - - - - - - - - - - - - - - - - - 

कवि-गीतिका  : 
रचना तथा स्वर-संयोजना : डॉ. हरेकृष्ण-मेहेरः  
(‘मातृगीतिकाञ्जलिः’- काव्यतः )
- - - - - - - - - - - - - - - - - - - - - - - - -

अमर-कविस्त्वं प्रवर-कविः ;
भवदनुभावः

प्रभूत-भावः
कम्र-कोमलामलच्छविः ।

अमर-कविस्त्वं प्रवर-कविः ॥ (ध्रुवम्) 
*
नव-रस-नव्या
श्रुति-गुण-भव्या
सुसेवितव्या
तव कवनी ;
सुविमल-वर्णा
विजित-सुवर्णा
सुवितत-पर्णा
सनातनी ।
तिमिर-विदारण-दिव्य-रविः ।
अमर-कविस्त्वं प्रवर-कविः ॥ (१)
*
सुविद्यमाना
मधुरोद्‌गाना
वरं दधाना
सरस्वती ;
रसिक-वल्लभं
भुवन-दुर्लभं
कवन-सौरभं
वितन्वती ।
जाड्‍यं नियतं यत्र हविः ।
अमर-कविस्त्वं प्रवर-कविः ॥ (२)
*
भ्रान्ति-कर्शनं
क्रान्त-दर्शनं
सन्निदर्शनं
निरङ्‍कुशम् ;
जगत्यनल्पं
सुम-गिरि-कल्पं
प्रतिभा-तल्पं
वितरतु शम् ।
काव्य-नभश्‍चर-सुन्दर-विः ।
अमर-कविस्त्वं प्रवर-कविः ॥ (३)
*
ऋत-सन्धाने
शास्त्र-निधाने
सृष्टि-विधाने
प्रजापतिः ;
नय-कमनीया
सम्मननीया
भुवि महनीया
शुभा मतिः ।
कलमस्य पुरो नमति पविः ।
अमर-कविस्त्वं प्रवर-कविः ॥ (४)
*
छन्दःसदना
रस-स्यन्दना

विश्‍व-वन्दना
नान्दनिकी ;
सुधा-सुधर्मा
शोभा परमा
रङ्ग-सङ्गमा
माङ्गलिकी ।
सुगम-सुमार्गा पदाटविः ।
अमर-कविस्त्वं प्रवर-कविः ॥ (५)
*

मञ्जुल-घोषा
विशेष-कोषा
मृदुला योषा
तव कविता ;
युग-रुचि-यागा
नवानुरागा
प्रसृत-विभागा
पल्लविता ।
सुविदां प्रभवति तव पदविः ।
अमर-कविस्त्वं प्रवर-कविः ॥ (६)
*
अद्‍भुत-भूतिः
सदानुभूतिः
सरसोद्‍भूतिः
काव्य-कला ;
मसी-तरण्या
बुध-जन-गण्या
वृत-लावण्या
समुज्ज्वला ।
कालिदास-भाः सभारविः ।
अमर-कविस्त्वं प्रवर-कविः ॥ (७)

* * *     

(इति  कवि-गीतिका)
*
(इयं गीतिका प्रायः कहरवा-ताल-मध्यलयेन परिवेषणीया ।)
= = = = = =  

English Translation :
 http://hkmeher.blogspot.in/2012/12/kavi-gitika-drharekrishna-meher.html
= = = = = = = = 

No comments: