Sunday, December 30, 2018

‘Ye Samaa, Samaa Hai Ye Pyaar Ka’: Sanskrit Version (Lyrics: वेलमिदम्, इदं वेलं प्रेमदम्): Dr. Harekrishna Meher


Original Hindi Film Song :
‘Ye Samaa, Samaa Hai Ye Pyaar Ka’ *
ये समा, समा है ये प्यार का * (Film ‘Jab Jab Phool Khile’ 1965) 
*
Sanskrit Translation by : Dr. Harekrishna Meher
(As per Original Hindi Tune)
Sanskrit Version Lyrics :  वेलमिदम्, इदं वेलं प्रेमदम् * 
‘Velamidam, Idam Velam Premadam ’ 
= = = = = = = 
Participated in Sanskrit Lyric Translation Competition
Conducted by Sanskrit Vaartaavali, DD News Channel, Delhi.
Name enlisted in the Program Telecast on 29  December 2018,
Saturday at 7 pm. Recast on 30 December 2018, Sunday at 12.30 pm.
*
My Translation is placed herewith for reading in pleasure.
= = = = = = = 

हिन्दीगीतम् : ये समा, समा है ये प्यार का *
मूलस्वरानुकूल-संस्कृतानुवादकः : डॉ. हरेकृष्ण-मेहेरः *  
= = = = = =

वेलमिदम्, इदं वेलं प्रेमदम्, कस्यचित् प्रतीक्षाकरम् । 
हृदयं न हरतु क्वचिन् मे, कालो वसन्तोऽयम् ॥
वेलमिदम्, इदं वेलं प्रेमदम्, कस्यचित् प्रतीक्षाकरम् । 
हृदयं न हरतु क्वचिन् मे, कालो वसन्तोऽयम् ॥ (०)
*
नयने मे सन्त्यासीनाः  कतिचित् स्वप्ना एवम्,
नयने मे सन्त्यासीनाः  कतिचित्  स्वप्ना एवम् । 
स्वस्य नेत्राभ्यां कश्चित्  कुरुते इवाह्वानम्, कुरुते इवाह्वानम् । 
वेलमिदम्, वेलं दर्शन-प्रदम्, कस्यचित् प्रतीक्षाकरम् । 
हृदयं न हरतु क्वचिन् मे, कालो वसन्तोऽयम् ॥ (१)
*
मिलित्वा हि भावनापुञ्जे  स्वप्रियेण सार्धम्,
मिलित्वा हि भावना-पुञ्जे  स्वप्रियेण सार्धम् । 
निद्रा मया संत्यक्ता  नूनं शपाम्यहम्, नूनं शपाम्यहम् । 
वेलमिदम्, वेलं खलु मादकम्, कस्यचित् प्रतीक्षाकरम् । 
हृदयं न हरतु क्वचिन् मे, कालो वसन्तोऽयम् ॥ (२) 
*
स्वप्नानां राज्ञोऽस्मि वै  राज्ञी प्रियाऽहम्,
स्वप्नानां राज्ञोऽस्मि वै  राज्ञी प्रियाऽहम् ।
सत्यं न भूयादेवं  मिथ्या गाथेयम्, मिथ्या गाथेयम् । 
वेलमिदम्, वेलं प्रतिज्ञाकरम्, कस्यचित् प्रतीक्षाकरम् । 
हृदयं न हरतु क्वचिन् मे, कालो वसन्तोऽयम् ॥ (३)
वेलमिदम्, इदं वेलं प्रेमदम् ..
= = = = = = 
(ज्ञातव्यम् : 
उर्दु-भाषायां हिन्दीभाषायां    'समा'-शब्दस्य अनेके अर्थाः भवन्ति ।  
यथा- सुन्दरं दृश्यम्,  वातावरणम्, समयः, मुहूर्त्तम्, क्षणः, वेला इत्यादयः ।  
संस्कृते प्रायः स्त्रीलिङ्गे  'वेला'-शब्दः समयार्थे, (समुद्र-तटार्थे अपि) व्यवह्रियते । 
पुनः क्लीवलिङ्गे  'वेलम्' इति शब्दोऽपि व्याकरण-दृष्ट्या समीचीनः शुद्धरूपः । 
वाचस्पत्यम्, शब्दकल्पद्रुमः चेत्यादि-कोषाभिधान-ग्रन्थेषु 'वेलम्' इति शब्दः 
क्लीवलिङ्गेऽपि निर्देशितः लभ्यते ।
*
मया अस्मिन् गीतानुवादे क्लीवलिङ्गे, आधुनिक-संस्कृते  सम्भवतः प्रथम-वारमेव
'वेलम्'-शब्दस्य प्रयोगः क्रियते । 'ये समा' इत्यस्य संस्कृतानुवादः प्रयोजनानुसारं  
'वेलमिदम्', 'दृश्यमिदम्', 'अयं क्षणः', 'इयं वेला', 'इदं वेलम्' चेत्यादिकं भवितुमर्हति ।) 
= = = = =
FaceBook Link :
= = = = = = = = 

हिन्दीगीत : ये समाँ, समाँ है ये प्यार का * 
चलचित्र : जब जब फूल खिले (१९६५) *  
गीतिकार : आनन्द बक्शी *
सङ्गीतकार : कल्याणजी आनन्दजी *  
गायिका * लता मङ्गेशकर *
= = = = = = = =
ये समाँ, समाँ है ये प्यार का, किसी के इन्तज़ार का ।  
दिल ना चुरा ले कहीं मेरा, मौसम बहार का ॥ (०)
*
बसने लगे आँखों में, कुछ ऐसे सपने,
कोई बुलाये जैसे, नैनों से अपने 
ये समाँ, समाँ है दीदार का, किसी के इन्तज़ार का ।  
दिल ना चुरा ले कहीं मेरा, मौसम बहार का ॥ (१)
*
मिलके ख़यालों में ही, अपने बलम से,
नींद गंवाई अपनी, मैंने कसम से ।
ये समाँ, समाँ है खुमार का, किसी के इन्तज़ार का ।  
दिल ना चुरा ले कहीं मेरा, मौसम बहार का ॥ (२)
*
मैं तो हूँ सपनों के, राजा की रानी,
सच हो न जाए ये, झूठी कहानी ।
ये समाँ, समाँ है इकरार का,  किसी के इन्तज़ार का ।
दिल ना चुरा ले कहीं मेरा,  मौसम बहार का ॥ (३)
 ये समाँ, समाँ है ये प्यार का ..
= = = = = = = 

Related Links :
‘Chalachitra-Gita-Sanskritaayanam’: चलचित्र-गीत-संस्कृतायनम्  :
* * *
Biodata: Dr. Harekrishna Meher :
= = = = = =

No comments: