Sunday, January 30, 2011

Sanskrit Song कलाकर-गीतिका (Kalākara-Gītikā): Dr.Harekrishna Meher

Kalākara-Gītikā (Sanskrit Song) 
Lyrics and Tuning by : Dr. Harekrishna Meher 
(Extracted from ‘ Mātŗigītikāñjalih'- Kāvya)
= = = =  = = = = 
*Song for the Moon* 

कलाकर-गीतिका  
गीत-रचना तथा स्वर-रचना : डॉ. हरेकृष्ण-मेहेरः   
(‘मातृगीतिकाञ्जलिः’-काव्यात्‌ ) 
= = = = = = = = =   


कलाकर हे ! 
हृदय-वियति मम समुदय नियतम्‌,
निज-किरणैः
सुविकिरणैः
शुचि-हासैरुद्‌भासय नियतम्‌ ।
हृदय-वियति मम समुदय नियतम्‌ ॥
(ध्रुवम्‌)
*
यत्र सन्ति मे सन्ताप-तमो-विभ्रमाः,
ततः समस्तान्‌ नीत्वा त्वमेव चन्द्रमाः ।
रुज-हरणैः
शम-झरणैः
कालिम-विवरे पूरय नियतम्‌ ।
हृदय-वियति मम समुदय नियतम्‌,
समुदय नियतम्‌ ॥ (१)
*
ललित-शीतला मृदुला सरसामोदिनी,
त्वदीय-कान्तिः सकल-क्लान्त्यपनोदिनी ।
विच्छुरणैः
सपारणैः

तया दिव्यया नन्दय नियतम्‌ ।
हृदय-वियति मम समुदय नियतम्‌,
समुदय नियतम्‌ ॥ (२)
*
विरहि-जनानां ज्वलनस्त्वं यदि तापदः,
मिलित-युगलयो-र्हरसि पुन-र्विरहापदः ।
सित-वर्णैः
प्रस्रवणैः
सराग-हर्षं प्लावय नियतम्‌ ।
हृदय-वियति मम समुदय नियतम्‌,
समुदय नियतम्‌ ॥ (३)
*
हृत्वा विरह-स्फुलिङ्ग-लिङ्गं पावकम्‌,
स्वाग्नेयाङ्गे वेशय सदयं मामकम्‌ ।
मुद्‌गिरणैः
सुधा-कणैः
सन्तापं निर्वापय नियतम्‌ ।
हृदय-वियति मम समुदय नियतम्‌,
समुदय नियतम्‌ ॥ (४)
*
आधारस्त्वं मधुर-कलानां शं-तमः,
इन्दो ! सुन्दर ! जन-नयनानां सम्भ्रमः ।
सपार्वणैः
सञ्चरणैः
ब्रह्मानन्दं विन्दय नियतम्‌ ।
हृदय-वियति मम समुदय नियतम्‌,
समुदय नियतम्‌ ॥ (५)
* * *

(इति कलाकर-गीतिका)
इयं गीतिका प्रायः कहरवा-ताल-मध्यलयेन परिवेषणीया ।
= = = = = 

English Translation :  
= = = = = = = = =
Complete ‘Matrigitikanjalih’ Kavya: 
= = = = = =   

Sanskrit Song अभिज्ञान-गीतिका (Abhijñāna-Gītikā): Dr.Harekrishna Meher

Abhijñāna-Gītikā (Sanskrit Song)  
Lyrics and Tuning By : Dr. Harekrishna Meher
(Extracted from ‘ Mātŗigītikāñjalih'- Kāvya)
= = = = = = = = = = 
* Song for Recognition * 

अभिज्ञान-गीतिका
गीत-रचना तथा स्वर-रचना : डॉ. हरेकृष्ण-मेहेरः  

(मातृगीतिकाञ्जलिः’- काव्यतः)
= = = = = = = = = = 


कथयति को वा
दिव्यालोको नासि त्वम्‌ ?
प्रथयति को वा
पुण्य-श्लोको नासि त्वम्‌ ?
दिव्यालोको नासि त्वम्‌ ?
(ध्रुवम्‌)
*
रवि-सङ्काशः
स्वयम्प्रकाशः,
संसरणे त्वमनन्ताकाशः ।
कथयति को वा
नन्दित-लोको नासि त्वम्‌ ?
प्रथयति को वा
पुण्य-श्लोको नासि त्वम्‌ ?
दिव्यालोको नासि त्वम्‌ ? (१)
*
त्वं संसारे
पारावारे,
सुन्दर-मौक्तिक-रूपोऽपारे ।
कथयति को वा
स्वस्ति-विशोको नासि त्वम्‌ ?
प्रथयति को वा
पुण्य-श्लोको नासि त्वम्‌ ?
दिव्यालोको नासि त्वम्‌ ? (२)
*
यथासि जातः
कथमज्ञातः ?
विश्‍वे किं त्वं नाभिज्ञातः ?
कथयति को वा
हृत-निर्मोको नासि त्वम्‌ ?
प्रथयति को वा
पुण्य-श्लोको नासि त्वम्‌ ?
दिव्यालोको नासि त्वम्‌ ? (३)
*
द्वन्द्व-ग्रस्तः
किं त्वं त्रस्तः ?
माया-मोहौ द्वावत्रस्तः ।
कथयति को वा
निरस्त-शोको नासि त्वम्‌ ?
प्रथयति को वा
पुण्य-श्लोको नासि त्वम्‌ ?
दिव्यालोको नासि त्वम्‌ ? (४)
*
कुत आयातः
कदासि यातः ?
स्वजनाः सर्वे भुवि मायातः ।
कथयति को वा
ज्ञान-विलोको नासि त्वम्‌ ?
प्रथयति को वा
पुण्य-श्लोको नासि त्वम्‌ ?
दिव्यालोको नासि त्वम्‌ ? (५)

* * *
(इति अभिज्ञान-गीतिका)
गीतिकेयं प्रायः कहरवा-ताल-मध्यलयेन परिवेषणीया ।
= = = = = = = 


English Translation : 
http://hkmeher.blogspot.in/2012/12/abhijnana-gitika-drharekrishna-meher.html 
= = = = = =
Complete ‘Matrigitikanjalih’ Kavya: 
= = = = = =   

प्रबोध-गीतिका (Prabodha-Gītikā): Sanskrit Song: Dr. Harekrishna Meher

Prabodha-Gītikā (Sanskrit Song) 
Lyrics and  Tuning by : Dr. Harekrishna Meher  
(Extracted from ‘ Mātŗigītikāñjalih'- Kāvya of the Author)
= = = = = = = = = = 

प्रबोध-गीतिका  
गीत-रचना तथा स्वर-रचना : डॉ. हरेकृष्ण-मेहेरः   
(‘मातृगीतिकाञ्जलिः’ - काव्यतः)
= = = = = = = = = = 


मानव रे !
मानव रे !
वर-कलेवरे, मर-कलेवरे,
सद्‌भावं कुरु हृदयाभरणम्‌, दुःख-विशरणम्‌ ।
भव-सिन्धौ हरि-नाम हि शरणम्‌ ॥
(ध्रुवम्‌)
*
जगतां सर्वे सत्त्वादि-जुषः,
पुरुषे प्रकृतिः प्रकृतौ पुरुषः ।
जहि विभ्रान्तिं स्वदिव्य-कान्तिं भासय रे !
विनय क्लान्तिं लभस्व शान्तिं चिन्तय रे !
मानव रे !
वर-कलेवरे, गत-तमोज्वरे,
उन्मोचय तन्मायावरणम्‌, जन्म-विवरणम्‌ ।
भव-सिन्धौ हरि-नाम हि शरणम्‌ ॥ (१)
*
विकासनीया मैत्री ममता,
भाव्या नियतं सुमानविकता ।
पश्यालोकं पुण्यश्लोकं दर्शय रे !
वञ्चित-लोकं प्रपञ्च-शोकं नाशय रे !
मानव रे !
वर-कलेवरे, त्वं प्रेमभरे,
पवित्रय सदा स्वान्तःकरणम्‌, तपोविकिरणम्‌ ।
भव-सिन्धौ हरि-नाम हि शरणम्‌ ॥ (२)
*
छल-कपटादौ खला निमग्नाः,
दुर्मतयः पर-पीड़न-लग्नाः ।
आस्तिक-बोधं नयानुरोधं राधय रे !
शमित-क्रोधं स्वात्म-विशोधं साधय रे !
मानव रे !
वर-कलेवरे, कलुष-जर्जरे,
विधेहि मङ्गल-धर्माचरणम्‌, यशोवितरणम्‌ ।
भव-सिन्धौ हरि-नाम हि शरणम्‌ ॥ (३)
*
सन्तः सन्ति सहृदया विरलाः,
परोपकारे निपीत-गरलाः ।
विश्‍वजनीनं कर्म नवीनं भावय रे !
स्वार्थ-विहीनं सुसमीचीनं श्रावय रे !
मानव रे !
वर-कलेवरे, सरस-निर्झरे,
अमृतं प्लावय मधुरं झरणम्‌, दुर्गति-हरणम्‌ ।
भव-सिन्धौ हरि-नाम हि शरणम्‌ ॥ (४)
*
भोग-विकारं साहङ्कारम्‌,
संहर हिंसा-द्वेषोद्‌गारम्‌ ।
कुरु सत्सङ्गं जगदुत्सङ्गं मार्जय रे !
संयम-भङ्गं काय-तरङ्गं तर्जय रे !
मानव रे !
वर-कलेवरे, क्षण-विनश्‍वरे,
भजस्व सुतरां श्रीगुरु-चरणम्‌, आत्मोद्धरणम्‌ ।
भव-सिन्धौ हरि-नाम हि शरणम्‌ ॥ (५)
*
धार्या चित्ते भगवत्‌-सत्ता,
तन्मय-पार्थिव-जन्म-महत्ता ।
नम गोविन्दं तमादिकन्दं मार्गय रे !
उपरत-मन्दं परमानन्दं धारय रे !
मानव रे !
वर-कलेवरे, तव विभास्वरे,
असंशयं त्वं जेष्यसि मरणम्‌, इह संसरणम्‌ ।
भव-सिन्धौ हरि-नाम हि शरणम्‌ ॥ (६)
* * *

(इति प्रबोध-गीतिका)
(इयं गीतिका प्रायः कहरवा-ताल-मध्यलयेन परिवेषणीया ।)
= = = = = 


English Translation : 
http://hkmeher.blogspot.in/2012/12/prabodha-gitika-english-version-dr.html 
= = = = = 
Complete ‘Matrigitikanjalih’ Kavya: 
= = = = = = = =  

Saturday, January 29, 2011

Sanskrit Song प्रणयिनी-गीतिका (Praņayinī-Gītikā): Dr.Harekrishna Meher

Praņayinī-Gītikā (Sanskrit Song) 
Lyrics and Tuning by : Dr. Harekrishna Meher  
(Extracted from ‘ Mātŗigītikāñjalih'- Kāvya) 
= = = = =

प्रणयिनी-गीतिका  
गीत-रचना तथा स्वर-रचना : डॉ. हरेकृष्ण-मेहेरः  
(‘मातृगीतिकाञ्जलिः’- काव्यतः )
= = = = =

लीलाऽहम्‌,
लीलाऽहम्‌, लोलाऽहम्‌ ।
प्रणय-प्रणीत-दोलाऽहम्‌ ।
लीलाऽहम्‌, लोलाऽहम्‌ ॥
(ध्रुवम्‌)
*
वसन्तस्य पिक-काकली,
रतिः कन्दर्प-कन्दली ।
अहं हिमांशो-र्यामिनी,
विवस्वतस्तव पद्मिनी ।
अम्बुद-कम्पा
स्वर्णा शम्पा
विभ्रम-सुकलित-कोलाऽहम्‌ ॥
लीलाऽहम्‌, लोलाऽहम्‌ ॥ (१)
*
वल्ली तरुवर-वल्लभा,
अस्मि सुरभिः समीर-भा ।
नीलताऽम्बर-करम्बिता,
शून्यता पूर्ण-लम्बिता ।
अस्मि सुस्मितिः
कुसुम-परिचितिः
पुलकित-कम्र-कपोलाऽहम्‌ ।
लीलाऽहम्‌, लोलाऽहम्‌ ॥ (२)
*
तरुणस्य तवोद्दीपना,
करुणस्याहं वेदना ।
मम सरसी-कलहंस हे !
शिरसि पदकावतंस हे !
मधुर-गीतिका
सुस्वागतिका
भवत्स्वर-समुत्तोलाऽहम्‌ ।
लीलाऽहम्‌, लोलाऽहम्‌ ॥ (३)
*
हरेरहं रामा रमा,
शचीन्द्र-शुचि-र्मनोरमा ।
मम मूर्त्तेरात्मा भवान्‌,
सावित्र्या मम सत्यवान्‌ ।
अस्मि राधिका
तवाराधिका
कृष्ण-मुदा व्यालोलाऽहम्‌ ।
लीलाऽहम्‌, लोलाऽहम्‌ ॥ (४)
*
त्यागस्य सहनशीलता,
आशा ह्याश्‍वासं गता ।
ईश्‍वरस्य माया मता,
विधेरहं भवितव्यता ।
साहं स्वाहा
पावन-वाहा
वह्नि-सुचिह्नित-चोलाऽहम्‌ ।
लीलाऽहम्‌, लोलाऽहम्‌ ॥ (५)
*
मानसस्य तव भावना,
साधूद्यमस्य साधना ।
मुक्तस्त्वमहं बन्धनी,
हृदयस्य तव स्पन्दनी ।
अस्मि विभक्तिः
कारक-पृक्तिः
कलम-ललामा गोलाऽहम्‌ ।
लीलाऽहम्‌, लोलाऽहम्‌ ॥ (६)
*
पर्वोत्सवस्य सर्वथा,
लोक-प्रथिता सुप्रथा ।
समङ्कित-शक्र-कार्मुका,
वर्णावली समुत्सुका ।
श्रावण-सारा
वर्षा धारा
मण्डित-रस-कण्डोलाऽहम्‌ ।
लीलाऽहम्‌, लोलाऽहम्‌ ॥ (७)
*
अलङ्कारस्य चारुता,
प्रदीपिका ज्योतिर्युता ।
सत्य-रूपस्य नित्यता,
गणित-सखी संख्या मता ।
त्वमनुप्रासः
सरस-न्यासः
पद-लालिती विलोलाऽहम्‌ ।
लीलाऽहम्‌, लोलाऽहम्‌ ॥ (८)
*
अयस्कान्ताऽयसः कृते,
क्षीरस्त्वं नाराऽस्मि ते ।
सुलेख-लसिता पुस्तिका,
वारस्त्वमहं तारिका ।
तवास्मि दयिता
प्रत्यय-सहिता
सुकृता प्रकृति-र्मौलाऽहम्‌ ।
लीलाऽहम्‌, लोलाऽहम्‌ ॥ (९)
*
समाधेस्तवैकाग्रता,
श्रद्धा विश्‍वासं गता ।
प्राण-निश्‍चिता चेतना,
स्वप्न-सुपन्ना कल्पना ।
समय-सहचरी
गतिः सुन्दरी
छन्दोमय-हिन्दोलाऽहम्‌ ।
लीलाऽहम्‌, लोलाऽहम्‌ ॥ (१०)
*
बिम्बाकृतिः सदर्पणा,
व्याप्ति-र्नाद-परायणा ।
देशस्य परा संस्कृतिः,
प्रणवस्याहं व्याहृतिः ।
जनक-नन्दिनी
प्रीति-वन्दिनी
रघुवर-वरणालोलाऽहम्‌ ।
लीलाऽहम्‌, लोलाऽहम्‌ ॥ (११)
* * *

(इति प्रणयिनी-गीतिका)  
[इयं गीतिका प्रायः कहरवा-ताल-मध्यलयेन परिवेषणीया ।]
= = = = = = = 


English Translation : 
http://hkmeher.blogspot.in/2012/12/pranayini-gitika-english-version-dr.html 
= = = = = 
Complete ‘Matrigitikanjalih’ Kavya: 
= = = = = = = 

Sanskrit Song प्रणयि-गीतिका (Praņayi-Gītikā): Dr.Harekrishna Meher

Praņayi-Gītikā (Sanskrit Song)   
Lyrics and Tuning by : Dr. Harekrishna Meher  
(Extracted from ‘ Mātŗigītikāñjalih'- Kāvya of the Author)  
= = = = = = 

प्रणयि-गीतिका  
गीत-रचना तथा स्वर-रचना : डॉ. हरेकृष्ण-मेहेरः  
(‘मातृगीतिकाञ्जलिः’- काव्यतः )
= = = = = = 

लीला त्वम्‌,
लीला त्वं लोला त्वम्‌,
प्रणय-प्रणीत-दोला त्वम्‌ ।
लीला त्वम्‌, लोला त्वम्‌ ॥
(ध्रुवम्‌)   

*
अयि ! पुरुषस्य त्वं सदा,
प्रकृतिः प्रमदा प्रेमदा ।
शुभाङ्गना मम सङ्गिनी,
अवनी नभसो भाविनी ।
अस्मि समुद्रः
प्रशान्त-मुद्रः
सरिता कल-कल्लोला त्वम्‌ ।
लीला त्वम्‌, लोला त्वम्‌ ॥ (१)
*
ऋक्‌ त्वमसि साम-शोभना,
ध्वने-र्मञ्जुला व्यञ्जना ।
मम मर्मोद्‌गारस्य वा,
विभाविता कविता नवा ।
प्रियाभिलाषा
मधुरा भाषा
भावाश्लिष्ट-निचोला त्वम्‌,
लीला त्वम्‌, लोला त्वम्‌ ॥ (२)
*
मम नायिका मनो-र्धनी,
कमनीया कामायनी ।
दुष्यन्तस्य शकुन्तला,
कान्ता सुललित-कुन्तला ।
सम्मदयन्ती
सा दमयन्ती
नैषध-कृत-हिल्लोला त्वम्‌ ।
लीला त्वम्‌, लोला त्वम्‌ ॥ (३)
*
उदयन-हृदय-निवासिनी,
वासवदत्ता भासिनी ।
लज्जासि मे समुज्ज्वला,
सम्मानस्य सुनिर्मला ।
शिल्प-चातुरी
स्वाद-माधुरी
सौम्यासि सम्यगोला त्वम्‌ ।
लीला त्वम्‌, लोला त्वम्‌ ॥ (४)
*
असि नयनस्य कनीनिका,
अङ्गुलि-मङ्गल-मुद्रिका ।
सिञ्जा नूपुर-सारिणी,
त्वमसि रागस्य रागिणी ।
उषा कृत-लया
वृत-दिग्‌वलया

पाटलासि चटुलोला त्वम्‌ ।

लीला त्वम्, लोला त्वम्‌ ॥ (५)
*
उत्साह-परा प्रेरणा,
संयमस्य मम धारणा ।
अत्रेः सती महीयसी,
अनसूया त्वं प्रेयसी ।
हरिश्‍चन्द्रगा
शैव्या सुभगा
यमुना गाङ्ग-पयोला त्वम्‌ ।
लीला त्वम्‌, लोला त्वम्‌ ॥ (६)
*
ज्ञानस्य मे पवित्रता,
सवितु-र्गायत्री रता ।
स्मृतिरसि संस्कारस्य मे,
रीतौ काव्य-गुणो रमे ।
प्रिये ! सदर्था
हुलहुली तथा
शङ्ख-रव-प्रेङ्खोला त्वम्‌ ।
लीला त्वम्‌, लोला त्वम्‌ ॥ (७)
*
अहमौषधे-र्वनस्पतिः,
त्वं विवेकस्य सन्मतिः ।
सुनय-संश्रया श्रीः प्रिया,
सङ्कल्प-युता सत्‌क्रिया ।
त्वमसि चैकता
सङ्घ-सङ्गता
भ्रान्तिस्तिमिरान्दोला त्वम्‌ ।
लीला त्वम्‌, लोला त्वम्‌ ॥ (८)
*
प्रमाणस्य मे त्वं प्रमा,
मृत्स्ना बीज-समागमा ।
छन्न-तालाऽसि मूर्च्छना,
शीतलता वृत-चन्दना ।
प्रिये ! वनानी
हिमगिरि-धानी
पोषित-तुषार-पोला त्वम्‌ ।
लीला त्वम्‌, लोला त्वम्‌ ॥ (९)
*
स्फटिक-वाञ्छिता स्वच्छता,
कर्मोत्तम-कीर्त्ति-र्मता ।
इतिहासस्य परम्परा,
प्रज्ञा त्वमसि ऋतम्भरा ।
सत्त्व-सुव्रता
भासि शुभ्रता
भूति-र्विजयोल्लोला त्वम्‌ ।
लीला त्वम्‌, लोला त्वम्‌ ॥ (१०)
*
सांख्यस्य योग-पद्धतिः,
सिद्धिस्तपः-समुन्नतिः ।
शान्तिराह्लाद-शालिनी,
उपनिषद्‌ ब्रह्मवादिनी ।
सविनय-भक्तिः
शिवस्य शक्तिः
वितत-सकल-भूगोला त्वम्‌ ।
लीला त्वम्‌, लोला त्वम्‌ ॥ (११)
* * *

(इति प्रणयि-गीतिका) 
[इयं गीतिका प्रायः कहरवा-ताल-मध्यलयेन परिवेषणीया ।] 
= = = = =  

English Translation : 
http://hkmeher.blogspot.in/2012/12/pranayi-gitika-english-dr-harekrishna.html
= = = = 
Complete ‘Matrigitikanjalih’ Kavya: 
= = = = = = = 

गीता-गीतिका (Gītā-Gītikā): Dr.Harekrishna Meher

Gītā-Gītikā (Sanskrit Song)  
Lyrics and Tuning by : Dr. Harekrishna Meher  
(Extracted from ‘ Mātŗigītikāñjalih'- Kāvya of the Author)
= = = = = = 
गीता-गीतिका  
गीत-रचना तथा स्वर-रचना : डॉ. हरेकृष्ण-मेहेरः  
= = = = = = 
श्रीमद्‍-भगवद्‍-गीता,
प्रहर्षिणीयं
महर्षि-कृष्ण-
द्वैपायन-प्रणीता ।
श्रीमद्‍-भगवद्‍-गीता ।
गीता, गीता, गीता ॥
(ध्रुवम्‌)
*
पुण्या श्रीहरि-पार्थ-सनाथा,
निर्भर-गर्भित- गौरव-गाथा ।
महाभारते
विश्व-हित-रते
यस्या वाणी सदा यथार्था ।
सुमेधसा समधीता,
श्रीमद्‍-भगवद्‍-गीता ।
गीता, गीता, गीता ॥ (१}
*
सकलोपनिषद्‌ गाभी सुभगा,
प्रभु-गोविन्दे दोग्धरि शुभगा ।
निवसति वत्सः
पार्थोऽनलसः
भोक्तृ-सुधीभि-र्धृतापवर्गा ।
सुदुग्ध-रूपा पीता,
श्रीमद्‍-भगवद्‍-गीता ।
गीता, गीता, गीता ॥ (२}
*
कर्म कुरु त्वं स्वधर्म-सक्तः,
देहि गुरुत्वं कर्मणि शक्तः ।
विवेक-बुद्ध्या

मानस-शुद्ध्या
भुवि भव सुतरां विभु-पद-भक्तः ।
सम-दर्शितोष्ण-शीता,
श्रीमद्‍-भगवद्‍-गीता ।
गीता, गीता, गीता ॥ (३}
*
समुपदिशति या मर-संसारे,
मानव-मानं सुव्यवहारे ।
तत्त्वं सत्त्वं
याति महत्त्वं
ज्ञाने भक्तौ कर्माचारे ।
आत्म-विचार-पुनीता,
श्रीमद्‍-भगवद्‍-गीता ।
गीता, गीता, गीता ॥ (४}
*
कलयति सकलं कलि-मल-नाशम्,
तिरयति मर्त्त्ये संसृति-पाशम्‌ ।
सुविहित-योगा
निरस्त-भोगा
वितरति दिव्यं हृदि प्रकाशम्‌ ।
ब्रह्ममयी सम्प्रीता,
श्रीमद्‍-भगवद्‍-गीता ।
गीता, गीता, गीता ॥ (५}
* * *

(इति गीता-गीतिका)  

इयं गीतिका प्रायः कहरवा-ताल-मध्यलयेन परिवेषणीया ।
= = = = = = = = 
English Translation : 
= = = = = = 

रुचिरं विश्वम् (Ruchiram Viśvam: Sanskrit Song): Dr..Harekrishna Meher

Ruchiram Viśvam (Sanskrit Song)
Lyrics and Tuning by : Dr. Harekrishna Meher
*
(Taken from Sanskrit Kavya *Saundarya-Sandarshanam*)
= = = = = = =
रुचिरं विश्वम्  (संस्कृत-गीतिका)
गीत-रचना तथा स्वर-रचना : डॉं. हरेकृष्ण-मेहेरः
= = = = = = =  

रुचिरम्‌, रुचिरम्‌‍, रुचिरम्‌, 
रुचिरे करणे भुवनं रुचिरम्‌ ।
रुचिरे चरणे गमनं रुचिरम्‌ ॥
 (ध्रुवम्‌)
*
राष्ट्रं रुचिरं रुचिरा धरणी,
धर्मो रुचिरो रुचिरा सरणी ।
सहितं निहितं
रुचिरं विहितं
रुचिराचरणे भवनं रुचिरम्‌ ।
रुचिरे करणे भुवनं रुचिरम्‌ ॥ (१)
*
ग्रामो रुचिरो रुचिरा पल्ली,
रुचिरा काशी रुचिरा दिल्ली ।
अशनं वसनं
रुचिरं हसनं
रुचिरे द्रविणे रसनं रुचिरम्‌ ।
रुचिरे करणे भुवनं रुचिरम्‌ ॥ (२)
*
कन्या तनयो रुचिरा भग्नी,
रुचिरौ पितरौ रुचिरा पत्‍नी ।
रुचिरा सुवधू
रुचिरो बन्धू
रुचिरे वरणे मिलनं रुचिरम्‌ ।
रुचिरे करणे भुवनं रुचिरम्‌ ॥ (३)
*
आस्यं रुचिरं रुचिरं हास्यम्‌,
रूपं रुचिरं रुचिरं लास्यम्‌ ।
अयनं नयनं
रुचिरं शयनं
रुचिराभरणे रचनं रुचिरम्‌ ।
रुचिरे करणे भुवनं रुचिरम्‌ ॥ (४)
*
त्यागो रुचिरो रुचिरा शिक्षा,
प्रीती रुचिरा रुचिरा दीक्षा ।
उचिता शुचिता
रुचिरा रचिता
रुचिरे स्मरणे मननं रुचिरम्‌ ।
रुचिरे करणे भुवनं रुचिरम्‌ ॥ (५)
*
ज्ञानं रुचिरं रुचिरं कृत्यम्‌,
गुरवो रुचिरा रुचिरं सत्यम्‌ ।
भक्ती रक्ती
रुचिरा शक्ती
रुचिरे गिरणे वचनं रुचिरम्‌ ।
रुचिरे करणे भुवनं रुचिरम्‌ ॥ (६)
*
श्रद्धा रुचिरा रुचिरं ध्यानम्‌,
दानं रुचिरं रुचिरं यानम्‌ ।
नीती रीती
रुचिरा गीती
रुचिरे वर्णे कवनं रुचिरम्‌ ।
रुचिरे करणे भुवनं रुचिरम्‌ ॥ (७)
*
सन्ध्या रुचिरा रजनी रुचिरा,
चन्द्रो रुचिरो रुचिरा तारा ।
दिवसो रुचिरो
रुचिरो मिहिरो
रुचिरे किरणे गगनं रुचिरम्‌ ।
रुचिरे करणे भुवनं रुचिरम्‌ ॥ (८)
*
जलधी रुचिरो रुचिरः पोतः,
रुचिरा सरसी रुचिरं स्रोतः ।
पुलिनं नलिनं
रुचिरामलिनं
रुचिरे झरणे प्लवनं रुचिरम्‌ ।
रुचिरे करणे भुवनं रुचिरम्‌ ॥ (९)
*
वृक्षो रुचिरो रुचिरा वल्ली,
विहगो रुचिरो रुचिरा मल्ली ।
पत्रं छत्रं
रुचिरं क्षेत्रं
रुचिरावरणे गहनं रुचिरम्‌ ।
रुचिरे करणे भुवनं रुचिरम्‌ ॥ (१०)
* * *
(इयं रुचिर-गीतिका प्रायः कहरवा-ताल-मध्यलयेन परिवेषणीया ।)
= = = = = =  
Bearing Title *Ruchira-Gītikā*
Published in Sanskrit Journal
“Sanskrita Pratibhā” (Vol. XXI-1),1995, Sahitya Akademi, New Delhi.
= = = = =