Saturday, May 9, 2009

Sanskrit Song ‘Mātŗi-Gītikā’ (मातृगीतिका): Dr.Harekrishna Meher

Mātri-Gītikā  (Song for the Mother)  
Lyrics and Tuning by : Dr. Harekrishna Meher  
*
(Composed in my self-innovated original new lyrical 
maatraa-metre, 
which has been named 'Bhavyaa' * भव्या *)

*
(Extracted from ‘Mātrigītikāñjalih’ Kāvya)
= = = = = = = = = = = = 

मातृगीतिका  
गीत-रचना तथा स्वर-संयोजना : डॉ. हरेकृष्ण-मेहेरः  
(मातृगीतिकाञ्जलिः’-काव्यतः )
= = = = = = = = = = = = = 


जयतु जननी जन्म-भूमी
भव्य-भुवनं भारतम्,
विजयतां नो वन्दनीयं

सुन्दरं धामामृतम्,
भव्य-भुवनं भारतम् ॥
(ध्रुवम्)
*
धरित्रीयं श्यामला,

कामधेनुः कोमला ।
रत्न-गर्भा शाश्वती,

कल्प-वल्ली भास्वती ।
विन्ध्य-भूषा सिन्धु-रशना हिमगिरि-शिखा शर्मदा,
रम्य-गङ्गा-सङ्ग-यमुना महानदीह नर्मदा ।
कर्म-तपसां सार्थ-तीर्थं प्रकृति-विभवालङ्कृतम्,
विजयतां नो वन्दनीयं सुन्दरं धामामृतम् ।
भव्य-भुवनं भारतम् ॥ (१)
*
बिभर्त्ति भूति-सम्पदम्,
राष्ट्रमिदं हि शं-पदम् ।
वैरि-लोचन-बाष्पदम्,
सत्‍कलाया आस्पदम् ।
सांस्कृतिक्या एकतायाः पुञ्जिता सञ्जीवनी,
मङ्गलमयी रङ्ग-ललिता निखिल-सुखदा लेखनी ।
प्रेम-जगतां जैत्र-गीतं विबुध-हृदये झङ्कृतम्,
विजयतां नो वन्दनीयं सुन्दरं धामामृतम् ।
भव्य-भुवनं भारतम् ॥ (२)
*
साभ्युदयता-द्योतिनी,
सदाचार-विवर्द्धिनी ।
लभ्यते सा सभ्यता,
भाति दिव्या नव्यता ।
चतुर्वर्गद-शास्त्र-मार्गा यत्र विद्या विद्यते,
विश्व-मध्ये यदध्यात्मं तत्त्व-सारं कीर्त्त्यते ।
भारतीये मूल-मन्त्रे जयति सत्यं नानृतम्,
विजयतां नो वन्दनीयं सुन्दरं धामामृतम् ।
भव्य-भुवनं भारतम् ॥ (३)
*
भूमिरियं सुचर्चिता,
धीर-वीरैरर्चिता ।
प्राच्य-परिचय-गौरवा,
शुभा प्रतिभा-वैभवा ।
यत्र भाषा-वेष-भूषा-रीति-चलनै-र्विविधता,
तथाप्येका दीप्यमाना राजते जातीयता ।
एक-मातुः सुताः सर्वे भ्रातृ-साम्यं सत्‍कृतम्,
विजयतां नो वन्दनीयं सुन्दरं धामामृतम् ।
भव्य-भुवनं भारतम् ॥ (४)
*
स्वार्जितैरूर्जस्वलम्,
ज्ञान-दीपैरुज्ज्वलम् ।
शान्त्यहिंसा-सद्‍बलम्,
त्याग-सेवा-पुष्कलम् ।
यत् त्रिरङ्गं ध्वजं विदधद् वर्षमार्षं पूज्यते,
लोकतन्त्रं सार्वभौमं स्वीय-भूम्ना मान्यते ।
ऐक्य-मैत्री-भाव-सूत्रं परम्परया सम्भृतम्,
विजयतां नो वन्दनीयं सुन्दरं धामामृतम् ।
भव्य-भुवनं भारतम् ॥ (५)
*
यद् “वसुधा कुटुम्बकम्”,
निगदितं दिग्‌दर्शकम् ।
अम्बर-चुम्बि-चुम्बकम्,
सकल-मानस-कर्षकम् ।
मानविकता-मानयित्री यत्र वागविनश्वरा,
स्वर्ण-वर्णा प्रीति-पूर्णा महामहिमा सुस्वरा ।
विश्व-बन्धो-र्मधुर-गन्धं यशो यस्मिन् विस्तृतम्,
विजयतां नो वन्दनीयं सुन्दरं धामामृतम् ।
भव्य-भुवनं भारतम् ।
भारतम्, भारतम्, भारतम् ॥ (६)
= = = = = = = = 

(इयं गीतिका प्रायः रूपक-ताल-मध्य-लयेन परिवेषणीया)

*
English Translation : 
http://hkmeher.blogspot.in/2012/12/matri-gitika-drharekrishna-meher.html
= = = = = 
Complete ‘Matrigitikanjalih’ Kavya: 
= = = = = = = =  

2 comments:

surya said...

UTTAMAM GEETAM

Yuvraj Bhattarai said...

अतिशय सुन्दरम्