Friday, February 26, 2010

Brief Biodata (Sanskrit) / परिचय-पत्रिका : हरेकृष्ण-मेहेरः

डॉ. हरेकृष्ण-मेहेर: 
= = = = = = = = = = = = = =  

हरेकृष्ण-मेहेरः आधुनिक-संस्कृत-साहित्यस्य अन्यतमः सुपरिचितः सारस्वत-साधकः । 
स कविः संस्कृत-विद्वान्, अध्यापकः, गवेषकः, समालोचकः, गीतिकारः, स्वर-रचनाकारः, 
सुवक्ता मौलिक-लेखकः सफलानुवादकश्च । 

ओड़िशा-राज्यस्य नूआपड़ा-जिल्लान्तर्गते सिनापालि-ग्रामे १९५६- ईसवीय-वर्षे 

कवि-परम्परा-वाहिनि वंशे स लब्ध-जन्मा ।
तस्य पिता दिवंगतः कविः नारायण-भरसा-मेहेर:, माता श्रीमती सुमती देवी । 

पितामहः दिवंगतः कविः मनोहर-मेहेरः ओड़िआ-साहित्ये पश्चिम-ओड़िशायाः 'गणकवि'-रूपेण चर्चितः ।

कवेः शिक्षा :
- - - - - - - - - - 

सिनापालि-उच्च-विद्यालये अध्ययन-पूर्वकम् ओड़िशायाः माध्यमिक-शिक्षापरिषदः 
माट्रिकुलेशन् (१९७१, प्रथम श्रेणी); 

गङ्गाधर-मेहेर-महाविद्यालये अध्ययन-पूर्वकम् सम्बलपुर-विश्वविद्यालयतः 

प्राक्-विश्वविद्यालय(पी.यू.)- (१९७२) तथा बी.ए. प्रथम वर्ष कला (१९७३, प्रथम श्रेणी) । 

कटक-स्थिते रेवेन्शा-महाविद्यालये अध्ययन-पूर्वकम् उत्कल-विश्वविद्यालयात् 
स्नातक-संस्कृत-सम्माने (ऑनर्स) प्रथम-श्रेणीषु प्रथमः (१९७५) । 

बनारस-हिन्दु-विश्वविद्यालयात् उपाधित्रयम् * * 

एम्.ए. संस्कृते स्वर्णपदक-प्राप्त: (१९७७), पीएच्.डी. संस्कृतम् (१९८१), 
डिप्लोमा-इन्-जर्मन् (१९७९) । 

बी.ए. संस्कृत-ऑनर्स-परीक्षायां सर्वोच्च-स्थानाधिकार-प्राप्ति-हेतोः  रेवेन्शा-महाविद्यालयात् 

जगन्नाथमिश्र-स्मारकी-पुरस्कार-प्राप्तः । 

एम्.ए.-संस्कृत-परीक्षायां सर्वोच्च-स्थान-प्राप्ति-हेतोः 

बनारस-हिन्दु-विश्वविद्यालय-स्वर्णपदकम्, 
श्रीकृष्णानन्द-पाण्डेय-सहारनपुर-स्वर्णपदकम्, 
काशीराज-पदकं च प्राप्य पुरस्कारेण सम्मानितः ।

सारस्वत-सेवा :
- - - - - - - - - -

हरेकृष्ण-मेहेरः १९८१-वर्षे ओड़िशा-शिक्षा-सेवायां संस्कृताध्यापक-रूपेण नियुक्तः । 
बरगड़स्थ-पञ्चायत-महाविद्यालये, बालेश्वरस्थ-फकीरमोहन-महाविद्यालये, 
भवानीपाटनास्थ-सर्वकारीय-महाविद्यालये च  अध्यापनां कृतवान् । 
सम्बलपुर-स्थिते  गङ्गाधर-मेहेर-स्वयंशासित-महाविद्यालये 
स्नातकोत्तर-संस्कृत-विभागस्य वरिष्ठ-प्रवाचक-रूपेण  विभागाध्यक्ष-रूपेण च 
कार्यं सम्पाद्य २०१४-वर्षस्य मई-मासे  सेवा-निवृत्तः ।  

ओड़िआ-हिन्दी-आङ्ग्ल-संस्कृत-कोशली-भाषासु स कृतविद्यो लेखकः । 


तस्य अनुवादेषु ओड़िआ-प्रकृतिकवि-गङ्गाधरमेहेर-कृतस्य तपस्विनी-महाकाव्यस्य 

संस्कृत-हिन्दी-आङ्ग्ल-पद्यानुवादाः, 

भर्त्तृहरिशतकत्रय-कुमारसम्भव-ऋतुसंहार-मेघदूत-रघुवंश-नैषध(नवमसर्ग)-गीतगोविन्द-                                
श्रीमद्भगवद्गीतादीनां संस्कृत-ग्रन्थानाम् ओड़िआ-छन्दोबद्ध-पद्यानुवादाः, 
कालिदासीय-मेघदूत-काव्यस्य कोशली-गीत-रूपान्तरं च तस्य रचना-नैपुण्यं प्रकाशयन्ति ।

राष्ट्रीय-अन्ताराष्ट्रीय-स्तरीय-पत्रपत्रिकासु तस्य शोधलेख-निबन्ध-कवितादयः प्रकाशिताः सन्ति । 

तेन विश्वसंस्कृतसम्मेलन-राज्यस्तरीय-सम्मेलनेषु शोधलेख-परिवेषण-समेतं कवि-सम्मेलनेषु 
मौलिक- कविता-पठनं सक्रिय-योगदानं च कृतम् ।
आकाशवाणी-दूरदर्शनेषु तस्य लेख-परिचर्चा-कवितादयः प्रसारिताः ।

संस्कृतस्य आधुनिकीकरण-सरलीकरण-दिशासु एतस्य कवेः सारस्वतावदानमुल्लेखनीयम् । 

आधुनिक-संस्कृत-साहित्ये स्वीय-काव्यगुणैः सर्जनशील-शोधलेखैश्च 
स स्वतन्त्र-स्थानमधिकरोति । पदलालित्य-समेतं सङ्गीतमयत्वम् अस्य गीतिकवेः 
काव्य-रचनायाः विशेषत्वम् । 

मातृगीतिकाञ्जलिः, पुष्पाञ्जलि-विचित्रा, स्वस्तिकविताञ्जलिः, सारस्वतायनम्, सौन्दर्य-सन्दर्शनम्, 

सावित्रीनाटकम्, जीवनालेख्यम्, मौनव्यञ्जना, अस्रमजस्रम्, हासितास्या वयस्या, 
उत्कलीय-सत्कला, स्तवार्चन-स्तवकम्, सूक्ति-कस्तूरिका, मेहेरीय-छन्दोमाला चेत्यादीनि 
तस्य संस्कृत-काव्यानि प्रबन्ध-ग्रन्थाश्च ।

अयं कविः गङ्गाधर-सम्मानः, गङ्गाधर-सारस्वत-सम्मानः, 

जयकृष्णमिश्र-काव्य-सम्मानः, विद्यारत्न-प्रतिभा-सम्मान:, 
अशोकचन्दन-स्मारक-सम्मान:, आचार्य-प्रफुल्लचन्द्र-राय-स्मारक-सम्मानः, 
हरिप्रियामुण्ड-स्मारकी-गङ्गाधर-मेहेर-सम्मानः, ‘कोशली मेघदूत’-पुस्तकार्थं 
सम्बलपुर-विश्वविद्यालय-प्रदत्तः डा.नीलमाधव-पाणिग्राही-सम्मानः, 
वाचस्पति-गणेश्वर-रथ-वेदान्तालङ्कार-सम्मानः, विश्व-संस्कृत-दिवस-सम्मानः, 
राज्यस्तरीय-गङ्गाधर-मेहेर-स्मृतिसम्मानः, सर्वश्री-साहित्य-सम्मानः  , 
चेत्यादिभिः समलङ्कृतः तथा अनेकैः सारस्वत-सास्कृतिकानुष्ठानैः 
मानपत्र-समेतं संवर्धितः । तस्य अनेकानि पुस्तकानि प्रकाशितानि सन्ति । 

स ओड़िशा-साहित्य-अकादम्या: पूर्वतन-सदस्य: । 
======= 
Biodata Details: Dr. Harekrishna Meher : Works and Achievements : 
Link :  http://hkmeher.blogspot.com/2007/07/my-biodata.html
= = = = = = = = = =  

Interview with Dr.Harekrishna Meher: Published in ‘Bartika’ Magazine (2017): 
Hindi Version: Link : 

= = = = 

Interview with Dr.Harekrishna Meher: Sanskrit Saptahiki, All India Radio, New Delhi: 12 June 2021: 

http://hkmeher.blogspot.com/2021/08/interview-with-dr-harekrishna-meher-by.html

YouTube Link : https://youtu.be/n0XPok3m-rM 

- - - 
Contributions of Harekrishna Meher to Sanskrit Literature: 

सङ्केतः
- - - - - -
Dr. HAREKRISHNA MEHER
Retired Sr. Reader and Head, 
Post-Graduate Department of Sanskrit,
Gangadhar Meher Autonomous College, 
SAMBALPUR - 768004, Orissa (India)

Mobile : +91-94373-62962
e-mail : meher.hk@gmail.com
website : http://hkmeher.blogspot.com
= = = = = = = = =


No comments: