Monday, February 23, 2009

Sanskrit Song: Naţarāja-Gītikā (नटराज-गीतिका): हरेकृष्ण-मेहेरः

Naţarāja-Gītikā (Sanskrit Song)   
Lyrics and Tuning By : Dr. Harekrishna Meher   
= = = = = = = = = = 

नटराज-गीतिका  
गीत-रचना तथा स्वर-संयोजना : डॉ. हरेकृष्ण-मेहेरः   
(मातृगीतिकाञ्जलिः- काव्यतः)   
= = = = = = = = = = = = = 


त्र्यम्बकं यजामहे,
पावकं यजामहे ।
प्रभो प्रसीद साम्ब हे !
सादरं भजामहे,
परात्परं भजामहे,
महेश्वरं भजामहे ।
त्र्यम्बकं यजामहे, त्र्यम्बकं यजामहे ॥
(ध्रुवम्)
*
देव-वृन्द-वन्दितम्, नन्दितम्,
धूर्जटिं नटराजम् ।
योगि-योग-भावितम्, सेवितम्,
रुद्र-रूप-विराजम् ।
विभूति-भूषणं विभुं भास्वरं भजामहे,
शुभङ्करं भजामहे,
महेश्चरं भजामहे ।
त्र्यम्बकं यजामहे, त्र्यम्बकं यजामहे ॥ [१]
*
विलसति मन्दाकिनी, स्यन्दिनी,
मस्तके सुशोभिता ।
शैलराज-नन्दिनी, मोदिनी,
प्रियतमा विराजिता ।
शिवं शशाङ्क-शेखरं शङ्करं भजामहे,
जगद्धरं भजामहे,
महेश्वरं भजामहे ।
त्र्यम्बकं यजामहे, त्र्यम्बकं यजामहे ॥ [२]
*
प्रिया-लास्य-वर्त्तितम्, शाम्भवम्,
ते प्रचण्ड-ताण्डवम् ।
अष्टमूर्त्ति-कीर्त्तितम्, भैरवम्,
नष्ट-दुष्ट-दानवम् ।
पुरान्तकं हि सन्ततं सुन्दरं भजामहे,
सुखाकरं भजामहे,
महेश्वरं भजामहे ।
त्र्यम्बकं यजामहे, त्र्यम्बकं यजामहे ॥ [३]
*
भवं वृषभ-वाहनम्, शोभनम्,
पशुपतिं पिनाकिनम्।
नदित-डमरु-निस्वनम्, मोहनम्,
व्योमकेश ! शूलिनम् ।
भुजङ्ग-हारमोजसां सागरं भजामहे,
दिम्बरं भजामहे,
महेश्वरं भजामहे ।
त्र्यम्बकं यजामहे, त्र्यम्बकं यजामहे ॥ [४]
*
दिव्य-भोग-दायकम्, मङ्गलम्,
प्रमथ-निकर-नायकम् ।
विजित-पुष्प-सायकम्, शितिगलम्,
भस्म-गौर-कायकम् ।
गिरीशमाशुतोष हे ! सुस्वरं भजामहे,
सुधा-झरं भजामहे,
महेश्वरं भजामहे ।
त्र्यम्बकं यजामहे, त्र्यम्बकं यजामहे ॥ [५]
*
भक्त-हृदय-दीपकम्, स्वस्तिदम्,
विश्वनाथ ! शाश्वतम् ।
क्षपित-सकल-पातकम्, मुक्तिदम्,
महाकाल-दैवतम् ।
‘नमः शिवाय’ सुभक्त्या गोचरं भजामहे,
सदक्षरं भजामहे,
महेश्वरं भजामहे ।
त्र्यम्बकं यजामहे, त्र्यम्बकं यजामहे ॥ [६]
*
सर्व-रोग-हारकम्, तारकम्,
यतीशं कृपामयम् ।
दक्ष-दर्प-दारकम्, धारकम्,
सविनयं नुमो वयम् ।
क्षमस्व दोष-समस्तं त्वां हरं भजामहे,
अनश्वरं भजामहे,
महेश्वरं भजामहे ।
त्र्यम्बकं यजामहे, त्र्यम्बकं यजामहे ॥ [७]
* * *

(इयं गीतिका दादरा-ताल-मध्य-लयेन परिवेषणीया)
*
 
English Translation by the Author
- - - - - - - - - - - - - - - - -    
Naţarāja-Gītikā
By : Dr. Harekrishna Meher 

- - - - - - - - - - - - - - - - - - - - - 
Song for God Śiva : Tryambakam yajāmahe…. 
(This lyric forms a prayer with greatness of Lord Śiva
reputed for his Tāņđava Dance.
He is known as Ardha-Nārīśvara God,

the combination of Pārvatī and Īśvara himself.)
= = = = = = = = = = = = = -


OM, the Holy Chant. 
We pray and worship the Lord of the three worlds,
the three-eyed God Śiva, the purifier one.
O Lord ! O ye, united with Mother-goddess Pārvatī !
Please be propitiated.
With hearty endearments,
we eulogize thy divine self,
the excellent above the excellents,
O Great Lord ! [0] 


We worship Lord Śiva,
who is adored by the gods,
is receptacle of all gaieties,
endowed with matted locks on his head,
is Naţarāja, the king of dancers,
is meditated upon by yogins
in their yogic process,
 is served by the devotees,
is luminous Supreme Being in the form of Rudra,
is adorned with all kinds of wealth,
is all-pervading, is scintillating with own luster
and is the bestower of weal of the world. [1]

Mandākinī (Gańgā), the divine river,
sportively shines on the head of the Lord.
Beloved Pārvatī, the daughter
of the mountain-king Himālaya, is with himself.
We extend hearty prayer
to the auspicious God Śańkara,
whose crest is illuminated with Moon
and who is the destroyer of the world. [2]

Yours is the vigorous dance Tāņđava,
induced with the glamorous dance (Lāsya) of Pārvatī.
Thy Tāņđava is glorified with thy eight forms
(water, oblation, sacrifice-performer,
Sun, Moon, sound, earth and air)
 and has annihilated the wicked demons.
O Lord ! We heartily pray thee, the beauteous God,
the destroyer of three lands of demons,
and the repository of happiness. [3]

We pray Lord Bhava, the source of all,
who has bull as his vehicle,
who wields the bow Pināka,
is the controller of all the beings,
has dambaru as his musical instrument,
 is attractive and is the bearer of trident.
O Lord having hairs spread over all the firmament !
we pray and worship thee,
the bearer of necklace of serpents,
the ocean of energies
and is clad with directions, so omnipresent. [4]

We pray thee, the auspicious God,
who is the giver of celestial enjoyments,
who is the head among the Pramatha group,
who has subdued the flower-shafted Love-god Kāmadeva,
who is black-throated
and is white-bodied with dusts of pyres.
O Lord propitiated soon !
We sweetly pray thee, the Lord of Kailāsa mountain
and the stream of ambrosia. [5]

O Lord of the universe ! we pray thee,
the eternal god who is the effulgent light
in the hearts of the devotees,
is benevolent giver of welfare and salvation,
is eradicater of all sins and is famous
as Mahākāla, the supreme destroyer.
We worship thee, Śiva,
 known with sincere devotion
and endowed with noble letters. [6]

We render prostrations to thee,
the supreme saviour,
who is the abater of all terrestrial diseases,
 is great among the yogins, is compassionate,
has pulverized the pride of Daksha
and is the holder of all universe.
O Lord ! kindly forgive all our faults.
We pray thee, the imperishable one,
the dispeller of all evils,
and the three-visioned God. [7]
= = = = = = =   

(Extracted from Author’s Sanskrit Kāvya ‘Mātrigītikāñjalih’.)
* * * 

Complete ‘Matrigitikanjalih’ Kavya: 
= = = = = = = 

Sunday, February 22, 2009

‘Varshā’ Poem (Rādhānāth Rāy / H K Meher)


‘Varshā’
(Original Oriya Poem ‘Barshā’ by : Poet Rādhānāth Rāy)
Sanskrit Version by : Dr. Harekrishna Meher

- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - -
वर्षा
(प्रस्रबण श‌इळे कले बसति …)
ओड़िआ-मूल-पद्यस्य रचयिता : कविवर-राधानाथ-रायः
संस्कृत-श्‍लोकानुवादकः : डॉ. हरेकृष्ण-मेहेरः
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - -

श्रीरामचन्द्रो रघुवंश-भूषणं
शैलेऽवसत् प्रस्रवणे सलक्ष्मणः ।
तत्पाद-देशे शयनेऽश्म-बन्धुरे
गोदावरी झर्झर-गुञ्ज-मञ्जुला ॥ [१]
*
रम्योऽद्रिरादौ झरणा-शिरान्वितो
वर्षा धरायां हि पुनः समागता ।
वीक्ष्यान्तरिक्षं मुदिरालि-मेदुरं
प्रोवाच सौमित्रिमिदं रघुत्तमः ॥ [२]
*
"नृत्यन्ति मेघानवलोक्य बर्हिणो
भक्ता इव त्यक्त-भवानुरक्तयः ।
अब्दो वदान्यो वितरत्यकुण्ठितं
दाता स धन्योऽर्थि-मनस्तु वेत्ति यः ॥ [३]
*
श्यामाम्बुदाङ्गे चपला हि दीप्यते
प्रीतिः खलानां चपलेव सन्ततम् ।
वर्षन्ति भूमौ सलिलै-र्नताः घना
नम्राः सुविद्या-विभवै-र्बुधा यथा ॥ [४]
*
कोटि-द्वयं कूट-युगे निधाय
व्योम्नि त्रिवर्णांशु-रयं विरच्य ।

अलङ्करोतीन्द्र-धनुः पयोमुचो
भालं यथैवास्तिक-वक्त्रमाशा ॥ [५]
*
धराधर-श्याम-शरीर-लग्ना
विभान्ति शुभ्राः क्वचिदभ्र-पुञ्जाः ।
विष्णो-र्ध्रुवं विच्छुरिताः कलेवरे
क्षीरोद-फेनाः प्रतिभान्ति चेतसा ॥ [६]
*
पयःप्रपातः प्लवति प्रचण्डं
गम्भीर-घोषै-र्भृगुतः समुच्चैः ।
तत्कन्दरस्तैः कुरुतेऽनुनादं
यथा हृदो धर्म-नयै-र्विवेकः ॥ [७]
*
शैलाः सहन्ते जल-वृष्टि-भारं
यथा खलानां वचनानि सन्तः ।
क्षेत्रेऽपि शुष्के क्षरतीह निर्झरो
मूढ़ेषु सत्सङ्गज-विष्णु-भक्तिवत् ॥ [८]
*
उल्लङ्‌घ्य कूलं नग-निम्नगा इमा
मत्ता इवाल्प-द्रविणै-र्जनाधमाः ।
गोदावरीं द्रागुपयान्ति पावनीं
लभ्या क्व मुक्ति-र्महतां विनाश्रयम् ॥ [९]

*
स्पृष्टा धरण्याविल-नव्य-नीरै-
र्मायावलेपैरिव जीव-राशिः ।
घनाम्बु- पातैश्‍च सरः प्रपूर्णं
स्वान्तं सतां सत्त्व-गुणै-र्यथैव ॥ [१०]
*
नद्यम्बु सिन्धुं सपदि प्रधावति
प्रविश्य तं विस्मरति स्वगोत्रम् ।
भक्तस्य चेतः परमात्म-सक्तं
लब्ध्वा यथा तन्मयतामुपैति ॥ [११]
*
उत्पाट्यते तीर-तरुः पयोभि-

श्‍चित्तं विटप्या इव लम्पटोक्तिभिः ।
पश्याचलस्तिष्ठति धैर्य-निष्ठः
सती-मनः किं विट-चाटुभिश्‍चलम् ॥ [१२]
*
नदी-रयो लङ्‍घति सेतु-बन्धं
द्रोहीव राज्ये नरपाल-शासनम् ।
यात्यम्बु-धारा च विलङ्‍घ्य वप्रं
त्यक्त-प्रतिष्ठेव वधूः स्वतन्त्रा ॥ [१३]
*
मूकः पिकोऽस्ति श्रुत-भेक-रावो
मौनीव धर्मी खलु मूढ़-संसदि ।
दात्यूह-विः कूजति वंश-कुञ्जे
यथा भृशं जल्पति वावदूकः ॥ [१४]
*
तपर्तु-रूक्षा वसुधा त्विदानीं

दूर्वादलैः सा हरितैः सुचार्वी ।
विराग-शुष्कं हृदयं हि साधो-
र्यथात्म-भक्त्या सरसत्वमेति ॥ [१५]
*
द्रुमेषु फुल्लो नव-पर्ण-राशि-
र्यथा विवेको हृदि साधकस्य ।
निरस्त-पत्रास्तरवोऽर्क- संज्ञकाः
सौराज्य-दीना इव तस्करा जनाः ॥ [१६]
*
परिस्फुटं शैल-वने कदम्बं
मित्राम्बुवाह-स्तनितैः सुमन्द्रैः ।
यथा स्वबन्धु-प्रभु-नाम-कीर्त्तनै-
र्भक्तस्य हृष्टं पुलकान्वितं वपुः ॥ [१७]
*
गुल्म-प्रभूतैरयनं हृतं वै
विधर्मि-राजत्व-बलेन शास्त्रवत् ।
शोभामयी भाति रसा सुशस्या
सम्पत् प्रशस्येव परोपकारिणः ॥ [१८]
*
ऋक्षेऽन्तरिक्षादखिले लयं गते
खद्योत-पुञ्जस्त्विह दर्शित-द्युतिः ।
राज्येऽधमानां गुणिनो ह्रियन्ते
गुणै-र्विहीनाश्‍च समाद्रियन्ते ॥ [१९]
*
नीवार-वारः कृषकै-र्निरस्तो
यथात्म-गर्वः सुजनै-र्मनस्तः ।
तोयात्तु कोकाश्‍चपलं पलायिता
बुधा इवाबोध-नृपस्य राज्यतः ॥ [२०]
*
भवन्ति शादाः सजलेऽपि नोषरे
सतो विकारा मनसीव मान्मथाः ।
सम्प्रत्यरण्यं पशुभिः सुखाश्रितं
सुशासितं राष्ट्रमिव प्रजान्वितम् ॥ [२१]
*
मार्गे क्वचित् तिष्ठति पान्थ-वर्गो
बोधोदये वृन्दमिवेन्द्रियाणाम् ।
क्वचिद् घनौघं हरति प्रवातो
यथा कुपुत्रः कुल-धर्म-वित्तम् ॥ [२२]
*
क्षणं प्रगाढ़ैस्तिमिरै-र्वृता धरा
क्षणं खरांशोः किरणै-र्विभास्वरा ।
ज्ञानं कुसङ्गै-र्हि विलुप्यते
तथा सुसङ्गै-र्नितरां प्रकाश्यते ॥ [२३]
*
दधाति नेदं तट-काननच्छविं
पश्याश्रमस्थं मलिनं सरो हृदि ।
यथा स्वचित्ते कलुषीकृते जनः
क्षमो ग्रहीतुं न परस्य सद्‍गुणम् ॥ [२४]
*
चित्रं प्रपश्य पुरतः सलिले सरस्याः
क्रूराहि-तुण्ड-कवले पतितोऽपि भेकः ।
लम्फं प्रदाय तरसा विलपन्नगालीद्
ऊर्द्ध्वं पतङ्गम-शिशुं वियति भ्रमन्तम् ॥ [२५]
*
मनुजोऽनुज ! काल-बन्धनै-
र्भ्रमतीत्थं बहुलार्त्ति-विह्वलः ।
इह कामयते तथाप्यसौ
चरितार्थां भव-भोग-तृष्णिकाम् ॥ [२६]
*
भवति जलद-कालो बन्धुरुद्‌भित्-कुलानां
क्षयमलभत पद्मं नात्र किञ्चिद् विचित्रम् ।
सलिलमतिशयं वै तत्कृतेऽभूत् कृतान्तो
ह्यतिशय-धनराशि-र्भ्रातरित्थं दुरन्तः ॥" [२७]

* *
( Published in “Lokabhāshā-Sushrīh”, October-November 2006 Issue,
of Lokabhāshā Prachār Samiti, Sharadhābāli, Puri.)
* * *


'Vibhāti Bhāvanā' ( विभाति भावना) Sanskrit Poem/ HKMeher

Vibhāti Bhāvanā (Sanskrit Poem)By : Dr. Harekrishna Meher
(Extracted from ‘Pushpāñjali-Vichitrā’ -Kāvya)

- - - - - - - - - - - - - - - - - - - - -
विभाति भावना  (संस्कृत-कविता)
रचयिता : डॉ. हरेकृष्ण-मेहेरः
(‘पुष्पाञ्जलि-विचित्रा ’- काव्यतः)
= = = = = = = = = = = = = = = = 


प्रयामि यस्मिञ्जगती-महोदरे
त्वमेव तस्मिन् विपुले चराचरे ।
अभिन्न-मूर्त्ति-र्वितता शुभानना
प्रिये ! मम त्वं मनसोऽसि भावना ॥ [१]
*
प्रालेय-शैलाद् रमते कुमारिका
यदीय-संज्ञान-रसाब्धि-बोधिका ।
सद्‌वैजयन्ती सुयशोविवर्द्धना
सा भारतीया सुभगास्ति भावना ॥ [२]
*
या वैदिकैरार्यवरै-र्महस्वती
मनीषिभिः सत्प्रतिभां वितन्वती ।
प्रकीर्त्तिता विश्‍वजनीन-दर्शना
मान्यैव सा मानवतेति भावना ॥ [३]
*
उदात्त-कण्ठै-र्भुवि विश्‍वबन्धुता
विधीयते या नितरां जनै-र्नुता ।
महानुभावा महनीय-चेतना
सनातनी सैव विभाति भावना ॥ [४]
*
ऊर्जस्वला सिंह-बला समुज्ज्वला
सूर्य-प्रकाशामित-शौर्य-मण्डला ।
अजेय-सेना दलितारि-वासना
जातीयता सा जयतीह भावना ॥ [५]
*
कश्‍मीर-रश्मि-प्रकरै-र्विभास्वरा
विराजते वर्जित-सर्व-मत्सरा ।
प्रेम-स्वरूपा जन-शक्ति-बोधना
स्व-मातृभक्ति-र्मधुरास्ति भावना ॥ [६]
*
तनोतु वातावरणे विशुद्धतां
भूयात् सदा साभ्युदया दयावताम् ।
पूज्या भुवां सभ्य-समाज-सर्जना
जगज्जनानां प्रतिभा हि भावना ॥ [७]
*
किं चेष्टकै-र्बहु-धनैरुपलैः श्रिया वा
नात्मीयता यदि गृहे परिवार-भावा ?
किं देश-नागरिकता कुरुते धृतासना
नेष्टा यदि स्वहृदि राष्ट्रियतेति भावना ? [८]
*
न यत्र पर्यावरण-प्रदूषिका
न वै वधू-प्राणहरा विभीषिका ।
न यत्र हिंसा शठता प्रवञ्चना
दिव्या चिरं सैव चकास्ति भावना ॥ [९]
*
प्रवर्त्तिता विश्‍वजनस्य संविदा
परोपकार-प्रसरा विभूतिदा ।
परम्परा-सेवित-पुण्य-साधना
भूयात् सदा सर्व-शुभाय भावना ॥ [१०)
*
सङ्कल्प-सात्त्विक-रुचा रुचिरा विचारणा
कायेन तत्र वचसा मनसा च कर्मणा ।
श्रद्धा-प्रशान्ति-ममता-समता-निबन्धना
ध्येया सुधा-मधुमती जगतीह भावना ॥ [११]


* *
(Published in “Sanskrita-Mañjarī”, 10th Year / 2nd Issue, Bhāvanā Special 2000,
Delhi Sanskrit Akademi, Delhi.)
* * *

Thursday, February 19, 2009

Śiva-Tāņđava-Stotram (Devanāgarī and Roman Scripts): Dr. Harekrishna Meher

Śiva-Tāņđava-Stotram 
(रावण-विरचितं शिव-ताण्डव-स्तोत्रम्) 


For Original Sanskrit Ślokas in Devanāgarī Script with
Oriya Translation by Dr. Harekrishna Meher, 

Link : 
* * * 

Śiva-Tāņđava-Stotram  

(Original Sanskrit Ślokas in Roman Script)  
= = = = = = = = = = = = = = = = = =  


Jaţāţavī-galajjala-pravāha-pāvita-sthale
Gale’valambya lambitām bhujańga-tuńga-mālikām /
Đamađ-đamađ-đamađ-đaman-ninādavađ-đamarvayam
Chakāra chaņđa-tāņđavam tanotu nah Śivah śivam // [1]
*
Jaţā-kaţāha-sambhrama-bhraman-nilimpa-nirjharī-
Vilola-vīchi-vallarī-virājamāna-mūrdhani /
Dhagad-dhagad-dhaga-jvalallalāţa-paţţa-pāvake
Kiśora-chandra-śekhare ratih pratikshaņam mama // [2]
*
Dharādharendra-nandinī-vilāsa-bandhu-bandhura-
Sphurad-diganta-santati-pramodamāna-mānase /
Kripā-kaţāksha-dhoraņī-niruddha-durddharāpadi
Kvachid digambare mano vinodametu vastuni // [3]
*
Jaţā-bhujańga-pińgala-sphurat-phaņā-maņi-prabhā-
Kadamba-kumkuma-drava-pralipta-digvadhū-mukhe /
Madāndha-sindhura-sphurat-tvaguttarīya-medure
Mano vinodamadbhutam bibharttu bhūta-bharttari // [4]
*
Sahasralochana-prabhrityaśesha-lekha-śekhara-
Prasūna-dhūli-dhoraņī-vidhūsarāńghri-pīţhabhūh /
Bhujańgarāja-mālaya nibaddha-jāţa-jūţakah
Śriyai chirāya jāyatām chakora-bandhu-śekharah // [5]
*
Lalāţa-chatvara-jvalad-dhanañjaya-sphulińga-bhā-
Nipīta-pañchasāyakam naman-nilimpa-nāyakam /
Sudhā-mayūkha-lekhayā virājamāna-śekharam
Mahākapāli sampade śiro jaţālamastu nah // [6]
*
Karāla-bhāla-paţţikā-dhagad-dhagad-dhaga-jvalad-
Dhanañjayāhutīkrita-prachaņđa-pañchasāyake /
Dharādharendra-nandinī-kuchāgra-chitra-patraka-
Prakalpanaika-śilpini trilochane ratir mama // [7]
*
Navīna-megha-maņđalī-niruddha-durddhara-sphurat-
Kuhū-niśīthinī-tamah-prabandha-baddha-kandharah /
Nilimpa-nirjharīdharas tanotu kritti-sindhurah
Kalā-nidhāna-bandhurah śriyam jagad-dhurandharah // [8]
*
Praphulla-nīla-pańkaja-prapañcha-kālima-prabhā-
Valambi-kaņţha-kandalī-ruchi-prabaddha-kandharam /
Smarachchhidam purachchhidam bhavachchhidam makhachchhidam
Gajachchhidāndhakachchhidam tamantakachchhidam bhaje // [9]
*
Akharva-sarva-mańgalā-kalā-kadamba-mañjarī-
Rasa-pravāha-mādhurī-vijrimbhaņā-madhuvratam /
Smarāntakam purāntakam bhavāntakam makhāntakam
Gajāntakāndhakāntakam tamantakāntakam bhaje // [10]
*
Jayatvadabhra-vibhrama-bhramad-bhujańgama-śvasad-
Vinirgamat-krama-sphurat-karāla-bhāla-havyavāţ /
Dhimid-dhimid-dhimid-dhvanan-mridańga-tuńga-mańgala-
Dhvani-krama-pravarttita-prachaņđa-tāņđavah Śivah // [11]
*
Drishad-vichitra-talpayor bhujańga-mauktika-srajor
Garishţha-ratna-loshţhayoh suhrid-vipaksha-pakshayoh /
Triņāravinda-chakshushoh prajā-mahī-mahendrayoh
Sama-pravrittikah kadā sadāśivam bhajāmyaham // [12]
*
Kadā nilimpa-nirjharī-nikuñja-koţare vasan
Vimukta-durmatih sadā śirahsthamañjalim vahan /
Vilola-lola-lochano lalāma-bhāla-lagnakah
Śiveti mantramuchcharan kadā sukhī bhavāmyaham // [13]
*
Imam hi nityamevamuktamuttamottamam stavam
Paţhan smaran bruvan naro viśuddhimeti santatam /
Hare gurau subhaktimāśu yāti nānyathā gatim
Vimohanam hi dehinām suśańkarasya chintanam // [14]
*
Pujāvasāna-samaye daśavaktra-gītam
Yah śambhu-pūjana-param paţhati pradoshe /
Tasya stirām ratha-gajendra-turańga-yuktām
Lakshmīm sadaiva sumukhīm pradadāti Śambhuh // [15]
* *
( Iti Śrī-Rāvaņa-kritam Śiva-Tāņđava-Stotram Sampūrņam)

* * * 


Siva-Tandava-Stotra : Link :  
= = = = 

Monday, February 16, 2009

Sanskrit Poem 'Vilapati Dharani' (The Earth bemoans)/Dr.Harekrishna Meher


विलपति धरणी (संस्कृत-कविता)
रचयिता : डॉ. हरेकृष्ण-मेहेरः 

= = = = = = = = = = = = = = = = 

सत्यस्य कण्ठ-स्वरो रुद्धः,
नय-मार्गोऽपि कारितो नियतमशुद्धः ।
निबिड़ं पीड्यते प्रबुद्धः
प्रभवति क्रूरः कलि-र्महाक्रुद्धः ।
धर्मस्य मलिनीक्रियते वक्त्र-वासः
अधर्मस्य लपने विकटालाट्टहासः ।
ग्रामेषु क्रियते कुमन्त्रणा दुस्तर्कैः
तथाकथितैः क्षुद्र-सेवकै-र्वकैः
प्रतीक्षित-सुयोगैः काङ्‌क्षित-मीनैः

जन-हित-नाम्ना स्वार्थ-साधन-लीनैः ॥

जम्बुकास्ते कृतक-हर्यक्ष-मुखाः
मध्येजनं जनयन्ति ध्वान्तम्,
येषां प्रकाम-बलै-र्हृत-सुखाः
लोक-समुदाया दूयन्ते नितान्तम् ।
कापुरुष-चतुष्कात् षण्ड-चतुष्क-पर्यन्तम्
एतेषां हिंस्र-जन्तूनां विचरणम्,
न जानन्ति ते महाधमाः
स्वं स्वं कियच्छक्तिमन्तम्,
बहु मन्यन्ते मण्डुकोपमाः
पङ्‌किल-कूप-जगति विहरणम् ॥

न सहन्ते शान्तिमन्येषां कदाचित् ते,
नित्यं खलत्वं ध्यायन्ति चित्ते ।
निर्बोधा सामान्य-जनता भीता
न प्रभवति किञ्चिदपि कर्त्तुं प्रवञ्चिता ।
विनतीकृत-वदना तूष्णीमास्ते,
दुर्जनानां तर्जन-गर्जनार्जिते स्वहस्ते ॥

ह्रियते जनताया आत्म-विश्वासः,
म्रियते प्रतिभाया निसर्गोल्लासः ।
समाद्रियन्ते धूर्त्ता दुर्गुणाः,
अकुण्ठं पूज्यन्ते लुण्ठन-निपुणाः ।
दुर्वाचिक-सूचीभि-र्भिद्यन्ते सुभाषितानि,
सद्‍गुण-जातानि भू-लुण्ठितानि ।
वाक्‍कीलाः कील-ग्रस्ताः
मौनं साधयन्ति भीत-त्रस्ताः ॥

भृशं प्रदूषितं पर्यावरणम्
सर्वत्र केवलं हरणं वै हरणम् ।
जीवन-मूल्यबोधजातं सिन्धौ निमज्जितम्,
दुष्ट-गर्जितैः खलु जगज्जितम् ।
विलपति सर्वंसहा सत्प्रसू रसा
दूषण-शोषणै-र्नीरसा ।

महाड़म्बरा विड़म्बना ह्यपूर्वा,
शान्तिं नाश्‍नुते ग्रामं वा नगरी वा पू-र्वा ॥

अविनश्वर हे !
जगदधीश्वर हे !

स्वकृत्य-कर्दम-लिप्तावयवाः
समुद्धर्तुं संसारमसमर्था मानवाः ।
सानुग्रहं विनाशय ते धर्म-मार्त्तण्डेन
अधर्म-ध्वान्तं निश्‍चप्रचं प्रचण्डेन ।
विश्व-वदनाम्बुजे सन्नामकं देहि
सद्‍भाव-सौरभम्,
समेषां विकाशय हृदय-कन्दे हि
मनुज-जाति-ज्योतिः सुदुर्लभम् ॥

* * *

Thursday, February 12, 2009

Biodata (Hindi) : Harekrishna Meher / परिचय-पत्रिका : हरेकृष्ण मेहेर


परिचय-पत्रिका
- - - - - - - - - -

डॉ. हरेकृष्ण मेहेर
*
जन्म-दिनांक : ५ मई १९५६
जन्मस्थान : सिनापालि (ओड़िशा)

पिता : कवि नारायण भरसा मेहेर
माता : श्रीमती सुमती देवी
पत्‍नी : श्रीमती कुन्तला कुमारी मेहेर   

मातृभाषा : ओड़िआ
राष्ट्रीयता : भारतीय
*

शिक्षा : 

सिनापालि उच्च विद्यालय, माध्यमिक शिक्षापरिषद्, ओड़िशा से 
माट्रिकुलेशन् (१९७१, प्रथम श्रेणी); 
गङ्गाधर मेहेर महाविद्यालय, सम्बलपुर विश्वविद्यालय से 
प्राक्-विश्वविद्यालय (पी.यू.) - (१९७२) एवं बी.ए. प्रथम वर्ष कला (१९७३, प्रथम श्रेणी); 
रेवेन्शा महाविद्यालय कटक में अध्ययन पूर्वक उत्कल विश्वविद्यालय से
बी.ए. संस्कृत आनर्स, प्रथम श्रेणी में प्रथम (१९७५) ; 
बनारस हिन्दु विश्वविद्यालय से तीन उपाधियाँ * * एम्.ए. संस्कृत, स्वर्णपदक प्राप्त (१९७७),
पीएच्.डी. संस्कृत (१९८१), डिप्लोमा इन् जर्मन् (१९७९).

* विशेष विषय : भारतीय दर्शन


* बी.ए. संस्कृत आनर्स में सर्वोच्च स्थान अधिकार हेतु 
   रेवेन्शा महाविद्यालय से जगन्नाथ मिश्र स्मारकी पुरस्कार प्राप्त । 

* एम्.ए. संस्कृत परीक्षा में सर्वोच्च स्थान प्राप्ति हेतु 
   बनारस हिन्दु विश्वविद्यालय-स्वर्णपदक, श्रीकृष्णानन्द पाण्डेय सहारनपुर-स्वर्णपदक, 
   काशीराज-पदक एवं पुरस्कार से सम्मानित ।

* अध्यापक, कवि, गवेषक, समालोचक, प्राबन्धिक, गीतिकार, स्वर-रचनाकार, 

    सुवक्ता एवं सफल अनुवादक के रूप में परिचित ।

* ओड़िआ, हिन्दी, अंग्रेजी, संस्कृत एवं कोशली – पाँच भाषाओं में मौलिक लेखन 

   तथा अनेक श्रेष्ठ काव्यकृतियों के छन्दोबद्ध अनुवाद ।

* राष्ट्रीय एवं अन्तर्राष्ट्रीय स्तर की पत्रपत्रिकाओं में शोधलेख, प्रबन्ध और कविता आदि प्रकाशित ।
* अनेक मौलिक और अनूदित पुस्तकें प्रकाशित ।


* अन्तर्जाल पर अनेक पत्रिकाओं में तथा अपने वेब्‌साइट् में कई लेख प्रकाशित ।


* विश्वसंस्कृत-सम्मेलनों, राज्य-स्तरीय अनेक सम्मेलनों एवं संगोष्ठियों में 

   शोधलेख परिवेषण  तथा कवि-सम्मेलनों में सक्रिय योगदान ।

* संस्कृत के सरलीकरण और आधुनिकीकरण की दिशा में विशेष प्रयत्नशील ।

* आकाशवाणी-दूरदर्शन आदि में लेख, परिचर्चा और कविताएँ प्रसारित ।

* पितामह दिवंगत कवि मनोहर मेहेर पश्चिम ओड़िशा के “गणकवि” के रूप में परिचित । 

   कवि-परम्परा से मौलिक सर्जनात्मक-प्रतिभासम्पन्न डॉ. मेहेर की भाषा-साहित्य एवं 
   सङ्गीत कला में विशष अभिरुचि ।

* कई उपलक्ष्यों में स्वरचित संस्कृत-गीतियाँ एवं कोशली गीत एकल तथा वृन्दगान के

   रूप में परिवेषित ।

* हाथरस  उत्तरप्रदेश की लोकप्रिय ‘संगीत’ पत्रिका में अपनी मौलिक नवीन छन्दोबद्ध 

   संस्कृत गीतियों सहित स्वरचित स्वरलिपियाँ प्रकाशित । 
   प्रसिद्ध संगीतकार पण्डित एच्. हरेन्द्र जोशी- रचित स्वरलिपियाँ भी वहाँ प्रकाशित । 
   डॉ. मेहेर-कृत संस्कृत गीत “नववर्ष-गीतिका” की आडियो कैसेट् एवं वीडियो कैसेट् 
   मध्यप्रदेश की रतलाम एवं जावरा आदि नगरियों में स्थानीय टी.वी. चैनलों पर प्रसारित ।

* कुछ विश्वविद्यालयों के प्रस्तुत शोध-ग्रन्थों में तथा अन्यत्र अनेक विद्वानों के शोधलेखों में 

   डॉ. मेहेर संस्कृत कवि एवं मौलिक लेखक के रूप में संस्कृत गीतियों सहित चर्चित । 


प्रमुख साहित्यिक एवं सांस्कृतिक अनुष्ठानों द्वारा सम्मान प्राप्त :
= = = = = =

* सांस्कृतिक परिषद, पाटनागड़ से “गंगाधर सम्मान” (२००२).

* गंगाधर साहित्य परिषद, बरपालि से “गंगाधर सारस्वत सम्मान” (२००२).

* निखिलोत्कल संस्कृत कवि सम्मेलन, कटक से “जयकृष्ण मिश्र काव्य सम्मान” (२००३).
 

* राज्यस्तरीय पण्डित नीलमणि विद्यारत्न स्मृति संसद, भुबनेश्वर से 
“विद्यारत्न प्रतिभा सम्मान” (२००५).

* राज्यस्तरीय स्वभावकवि गंगाधर स्मृति समिति, बरपालि  एवं 
   केदारनाथ कला साहित्य संसद, अम्बाभोना से
 " अशोक चन्दन स्मारक  गंगाधर सम्मान"  (२००९).

* अकादेमी अफ्‌ बेङ्गली पोएट्रि, कोलकाता से
"आचार्य प्रफुल्ल चन्द्र राय स्मारक सम्मान" (२०१०).

* कवि गंगाधर मेहेर क्लब् बरपाली से
"हरिप्रिया-मुण्ड स्मारकी गंगाधर मेहेर सम्मान" (२०१०).

* सम्बलपुर-विश्वविद्यालय सम्बलपुर से
"डॉ.नीलमाधव-पाणिग्राही सम्मान" (२०१०) ['कोशली मेघदूत' पुस्तक के लिये].

* एवार्ड़् अफ् एप्रिसिएशन् (जयदेव उत्सव -२००८) – ओड़िशी एकाडेमी, लोधी मार्ग, नई दिल्ली

* वाचस्पति गणेश्वर रथ वेदान्तालङ्कार -सम्मान (२०१३) 
 (विश्वसंस्कृत-दिवस-समारोह, पण्डित सम्मिलनी) 
बालाजी मन्दिर सुरक्षा समिति, भवानीपाटना, ओड़िशा ।  

* विश्वसंस्कृत-दिवस-सम्मान (२०१३)
महाबीर सांस्कृतिक अनुष्ठान, भवानीपाटना, ओड़िशा । 
 = = = = = =


ओड़िशा के अनेक सुप्रतिष्ठित अनुष्ठानों द्वारा मानपत्र सहित   
संवर्धना एवं अभिनन्दन प्राप्त :
= = = = = =

* खरियार साहित्य समिति, राजखरियार (१९९८),
* गदाधर साहित्य संसद, कोमना (१९९८),
* सम्बलपुर विश्वविद्यालय, ज्योतिविहार (२०००),
* शिक्षाविकाश परिषद, कलाहाण्डि (२००३),
* कलाहाण्डि लेखक कला परिषद, भवानीपाटना (२००३),
*अभिराम स्मृति पाठागार ट्रष्ट, भवानीपाटना (२००६).

* उदन्ती महोत्सव, सिनापालि, नूआपड़ा (२०१२) 
* बनानी-कवि-सम्मिलनी, कलाहाण्डि-लेखक-कला-परिषद (२०१३)
- - - - - - - 

* १९८१ से ओड़िशा शिक्षा सेवा (ओ. ई. एस्.) में संस्कृत अध्यापक के रूप में योगदान । 
  सरकारी पञ्चायत महाविद्यालय बरगड़, फकीरमोहन महाविद्यालय बालेश्वर एवं 
  सरकारी स्वयंशासित महाविद्यालय भवानीपाटना में अध्यापना के उपरान्त  
  गंगाधर मेहेर स्वयंशासित महाविद्यालय, सम्बलपुर में स्नातकोत्तर संस्कृत विभाग के 
  वरिष्ठ रीडर एवं विभागाध्यक्ष के रूप में कार्य सम्पादन करके मई २०१४ में  सेवा-निवृत्त ।


* डॉ. हरेकृष्ण मेहेर की प्रमुख साहित्यिक कृतियाँ *
प्रकाशित : (पुस्तक)
 = = = = = = =
 (१) पीएच्‌. डी. शोधग्रन्थ “Philosophical Reflections in the Naisadhacarita”.
(२) मातृगीतिकाञ्जलिः (मौलिक संस्कृत गीतिकाव्य) ।
(३) नैषध-महाकाव्ये धर्मशास्त्रीय-प्रतिफलनम् ।
(४) साहित्यदर्पण : अलंकार ।
(५) श्रीकृष्ण-जन्म ।
(६) श्रीरामरक्षा-स्तोत्र (शिवरक्षा-स्तोत्र सहित अनुवाद) ।
(७) शिवताण्डव-स्तोत्र (ओड़िआ अनुवाद) ।

(८) विष्णु-सहस्र-नाम (ओड़िआ अनुवाद) ।
(९) गायत्री-सहस्र-नाम (ओड़िआ अनुवाद) ।
(१०) मनोहर पद्यावली (संपादित) ।

(११) स्वभावकवि गङ्गाधर मेहेर-कृत ओड़िआ “तपस्विनी” काव्य का सम्पूर्ण हिन्दी अनुवाद ।
(१२) Tapasvini of Gangadhara Meher ('तपस्विनी' काव्य का सम्पूर्ण अंग्रेजी अनुवाद) ।

(१३) कोशली मेघदूत (कालिदास-कृत मेघदूत काव्य का सम्पूर्ण कोशली गीत रूपान्तर) ।
(१४) स्वभावकवि गङ्गाधर मेहेर-कृत ओड़िआ “तपस्विनी” काव्य का सम्पूर्ण संस्कृत अनुवाद ।

- - -

* भर्त्तृहरि-शतकत्रय (नीतिशतक, शृङ्गार-शतक एवं वैराग्य-शतक) के

   सम्पूर्ण छन्दोबद्ध ओड़िआ अनुवाद ।
* कविवर राधानाथ राय-कृत ओड़िआ कविता “बर्षा” का संस्कृत श्लोकानुवाद ।
* तपस्विनी-चतुर्थ सर्ग के अंग्रेजी एवं संस्कृत पद्यानुवाद ।
* श्रीहर्ष-कृत नैषधचरित- नवमसर्ग का ओड़िआ पद्यानुवाद ।
* महाकवि कालिदास-कृत रघुवंश-द्वितीय सर्ग का ओड़िआ पद्यानुवाद ।

* कुमारसम्भव के प्रथम, द्वितीय, पञ्चम, सप्तम एवं अष्टम सर्गों का ओड़िआ पद्यानुवाद । 
ऋतुसंहार  काव्य का सम्पूर्ण ओड़िआ पद्यानुवाद । 
* गीतगोविन्द काव्य का सम्पूर्ण ओड़िआ पद्यानुवाद । 
- - - - - - - - - -

अप्रकाशित (मौलिक):
 = = = = = = = = =
संस्कृत में : पुष्पाञ्जलि-विचित्रा, सारस्वतायनम्, सौन्दर्य-सन्दर्शनम्, सावित्रीनाटकम्, 
                  जीवनालेख्यम्, मौन-व्यञ्जना, अस्रमजस्रम्, हासितास्या वयस्या, उत्कलीय-सत्कला, 
                  स्तवार्चन-स्तवकम्, सूक्ति-कस्तूरिका, मेहेरीय-छन्दोमाला । 

ओड़िआ में : आलोचनार पथे, भञ्जीय काव्यालोचना, भञ्ज-साहित्यरे जगन्नाथ तत्त्व, 
                   घेन नैषध पराये, ओड़िआ रीति-साहित्यरे दार्शनिक-चिन्तन, निबन्धायन, 
                   कबिताबली, शिखण्डीकाव्य । 

अंग्रेजी में : Poems of the Mortals, Glory.
हिन्दी में : हिन्दी-सारस्वती,  कुछ कविता-सुमन ।
कोशली में : कोशली गीतमाला ।

अप्रकाशित (अनुवाद) :
= = = = = = = = =
संस्कृत से ओड़िआ : श्रीमद्‍भगवद्‍गीता, कुमारसम्भव, मेघदूत, रघुवंश ।
संस्कृत से हिन्दी : मातृगीतिकाञ्जलि: ।
संस्कृत से अंग्रेजी : शिवताण्डव-स्तोत्र, गीतगोविन्द ।
ओड़िआ से हिन्दी : कवि गङ्गाधर मेहेर-प्रणीत ‘प्रणय-वल्लरी’, ‘अर्घ्यथाली’, ‘कीचकवध’ काव्य ।
ओड़िआ से अंग्रेजी : कवि गङ्गाधर मेहेर-कृत 'अर्घ्यथाली' ।
ओड़िआ से संस्कृत :  प्रणयवल्लरी, अर्घ्यथाली । *
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - 

* For Brief Biodata in English : 
http://hkmeher.blogspot.in/2012/06/brief-biodata-english-dr-harekrishna.html 

Biodata : Hindi-English-Sanskrit-Odia :

* कुछ पुस्तकों की छवि के लिये, कृपया देखें : 
http://hkmeher.blogspot.com/2010/06/images-of-main-books-of-harekrishna.html 

 * विशेष विवरण के लिये द्रष्टव्य : 
Biodata : My Works and Achievements : 
http://hkmeher.blogspot.com/2007/07/my-biodata.html  

 = = = = = = = = = = = = =

Dr. HAREKRISHNA MEHER 
(Retired) Sr. Reader and Head, 
Post-Graduate Department of Sanskrit
Gangadhar Meher Autonomous College (CPE),
SAMBALPUR - 768004. Orissa (India)


Mobile : + 91- 94373- 62962 
e-mail : meher.hk@gmail.com / hkmeher56@yahoo.co.in
website : http://www.hkmeher.blogspot.com
* * *

Sunday, February 1, 2009

Sanskrit Song ‘Viśva-Gītikā’ (विश्व-गीतिका): Dr.Harekrishna Meher

Viśva-Gītikā (Song for the Omnipresent God)
Lyrics and Tuning by : Dr. Harekrishna Meher
(Extracted from Sanskrit Kavya ‘Mātrigītikāñjalih’ )

= = = = = = = = = = = = = = = = 
विश्‍व-गीतिका
गीत-रचना तथा स्वर-संयोजना : डा. हरेकृष्ण-मेहेरः
('मातृगीतिकाञ्जलिः’- काव्यतः)

= = = = = = = = = = = = = = = = 

भगवन् !
विश्‍व-पावन हे !
भूत-भावन हे !
भगवन् ! भगवन् ! भगवन् ! भगवन् !
तनु ते सुदयां धर्मे प्रभवन् !
भगवन् ! भगवन् !
भगवन् ! भगवन् !
(ध्रुवम्)

भव-महार्णवे कर्णधारस्त्वम्,
हृत-वसुन्धरा-बन्ध-भारस्त्वम् ।
हृदयानन्दी प्रेम-हारस्त्वम्,
सकल-कलानां रूपकारस्त्वम् ।
अन्तर्यामिन् ! भ्रान्तिं शमयन्,
दह मे दुरितं कुशलं कुर्वन् ।
भगवन् ! भगवन् !
भगवन् ! भगवन् ! (१)

ब्रह्मा विष्णु-र्व्योमकेशस्त्वम्,
पुण्य-पदव्यां दिव्य-देशस्त्वम् ।
अविनश्‍वर हे ! विश्‍व-वेशस्त्वम्,
निरुपम-रूपो वैभवेशस्त्वम् ।
शरणं चरणो भुवनं भ्रमयन्,
यस्मिन् देवा अभया अभवन् ।
भगवन् ! भगवन् !
भगवन् ! भगवन् ! (२)

भावोच्छ्वसितो ब्रह्म-नादस्त्वम्,
मुनि-मनुजानां पूज्य-पादस्त्वम् ।
अध्यात्मविदां साम्य-वादस्त्वम्,
सुजन-संविदां सुप्रसादस्त्वम् ।
तमसो नितरां ज्योति-र्गमयन्,
जहि मे जड़तां जगतां भास्वन् !
भगवन् ! भगवन् !
भगवन् ! भगवन् ! (३)

ललित-मूर्च्छना-नित्य-तानस्त्वम्,
शिव-सुन्दरतां सन्दधानस्त्वम् ।
स्व-महाशक्त्या विद्यमानस्त्वम्,
सुविमल-भक्त्या भिद्यमानस्त्वम् ।
परमेश्‍वर ! मे नयनं रमयन्,
हर मे मोहं महतां मघवन् !
भगवन् ! भगवन् !
भगवन् ! भगवन् ! (४)

जगदधिवासो वासुदेवस्त्वम्,
तत्त्वबोधिनां लब्ध-सेवस्त्वम् ।
आनन्द-घनः सच्चिदेव त्वम्,
लीला-निलयो देव-देव त्वम् ।
धरणे मरणे दुःखं दमयन्,
भवतो महिमा अमृतं तन्वन् ।
भगवन् ! भगवन् !
भगवन् ! भगवन् ! (५)
* *  

(इयं गीतिका प्रायः कहरवा-ताल-मध्य-लयेन परिवेषणीया ।)
* * *


English Translation by the Author 
Viśva-Gītikā
(Song for the Omnipresent God :

Bhagavan ! Viśva-pāvana he !)   
= = = = = = = = = = = = = = = = 

O Lord of supernal opulence !
O Sanctifier of the universe !
O Sustainer of all beings !
Deign to bestow thy compassion on us.
O Lord all-powerful in maintaining righteousness ! (0)
*
In the ocean of world,
you are helsman, the sole saviour.
You are pacifier of distress and of bondage
caused to the earth which is filled with wealth.
You form the garland of love
spreading sweet smell of bliss
in the hearts of the devotees.
You are unique painter of all the arts.
O Ye dweller in the core of hearts !
O Abater of illusion !
Deign to destroy my sin by conferring welfare.
O Lord of supernal opulence ! (1)
*
You are Brahmā (Creator), Vishņu (Sustainer)
and the sky-haired God Śiva (Destroyer).
You are the celestial place in the path of virtues.
O Imperishable Lord !
You are the form of entire universe.
Having an incomparable figure,
You are lord of all the riches.
Recourse is thy foot which stirs the world
and wherein the immortal deities remained fearless.
O Lord of supernal opulence ! (2)
*
You are Brahma-Nāda, the Blissful Supreme Voice
spontaneously emerged with emotions.
Thy feet are worshipped by gods and seers.
You are the equality of oneness
for the knowers of spiritualism.
You are the prime lucidity of intellect of the noble.
O Ye verily leading me towards light from darkness,
kindly annihilate my inertia of murk.
O Scintillating Sun of all the worlds !
O Lord of supernal opulence ! (3)

You form the eternal tune of graceful musical flow.
You are the receptacle of auspiciousness and beauty.
Established You are with your own great Supreme Power.
You are comprehensible by pure devotion.
O Supreme Lord ! Gladdening my eyes,
deign to dispel my delusion.
O Supreme One among the noble ! (4)
*
You are the proper prop of the world.
You are all-pervading consciousness.
You are served and prayed by the knowers of reality.
You are Existence, Knowledge and Bliss.
O God of gods ! You are the abode of all divine deeds.
Pacifying grief in life and death,
Thy greatness confers ambrosia of immortality.
O Lord of divine excellence !
O Lord of supernal opulence ! (5)
* * * 

(Extracted from Sanskrit Kāvya ‘Mātrigītikāñjalih’ published in 1997.)
= = = = = = =  


Complete ‘Matrigitikanjalih’ Kavya: 
= = = = = = = =  

Sanskrit Poem ‘Mahaushadham’ (The Prime Panacea)/Dr.Harekrishna Meher

Mahaushadham’
Sanskrit Poem by : Dr. Harekrishna Meher 
= = = = = = =  = = = = = = = = = = = 
महौषधम् (संस्कृत-कविता)
रचयिता : डा. हरेकृष्ण-मेहेरः   

= = = = = = = = = = = = = = = = = =  

वर्द्धन्ते महाव्याधयः
प्राणिजनानां मर्त्त्य-कलेवरेषु,
परन्तु गणतन्त्रस्य शरीरे
जायन्ते ये मानव-बुद्धि-कृता व्याधयः
चिकित्सा तेषां नूनं सुदुष्करा ॥

यौतुकजन्य-वधूमारणं चापहरणं
भष्टाचारो दुर्नीतिरुत्कोचः
लुण्ठनं शोषणं सन्त्रसनमित्यादयः
घोराः सामाजिक-व्याधयः ॥

रक्षका भक्षका भूत्वा
हरन्ति सम्पदं राष्ट्रस्य,

शोषयन्ति सन्तत-जन-धनम्
कृत्वा स्वात्मनः परितृप्ति-साधनम् ॥

घोटाला-घोटकाः सत्वरं
धावन्ति प्रशस्त-राजमार्गे,
धूली-धूमावृतं कृत्वा चत्वरं
प्रखर-खुरोत्‌क्षेपणैः पश्‍चाद्‌भागे ॥

दुर्नयो मारात्मक-व्याधीभूय प्रतिक्षेत्रम्
शनैःशनैः खादति देश-गात्रम्,
चेष्टते नितरां राष्ट्रस्य
पङ्‍गुत्वं विधातुं गणतन्त्राङ्‍गेषु ।
वराकी जनता न जानाति
मुद्रित-नेत्रा केवलं दृष्टिं दधाति ॥

जन-जागरणमेव महौषधम्
कर्त्तुं भ्रष्टाचार-व्याधि-वधम् ।
संस्कार-समुच्चार एव महामन्त्रः
सुसञ्चालित-जनतन्त्र-यन्त्रः ॥


* *


( Published in “Arvācheena-Sanskritam”, April 2004 - January 2005 Issue,
of Devavani Parishad, Delhi.)

* * *