Saturday, July 28, 2018

‘Insaan Ka Insaan Se Ho Bhaichara’ (Paigaam Film Song): Sanskrit Version (Lyrics: मनुजस्य भ्रातृप्रेम स्याद् मनुजेन साकम्): Dr. Harekrishna Meher

Original Hindi Film Song : ‘Insaan Ka Insaan Se Ho Bhaichara’ *  
इनसान का इनसान से हो भाईचारा *  (Film ‘Paigaam’ 1959) 
*
Sanskrit Translation by :  Dr. Harekrishna Meher
(As per Original Hindi Tune)
Sanskrit Version Lyrics : मनुजस्य भ्रातृप्रेम स्याद् मनुजेन साकम् * 
‘Manujasya Bhratri-Prema Syaad Manujena Saakam’   
*
Participated in Sanskrit Lyric Translation Competition
Conducted by Sanskrit Vaartaavali, DD News Channel, Delhi.
Name enlisted in the Program telecast on 28-July-2018,
Saturday at 10 pm.     
*
For pleasure of reading, my translation sent for competition,
not selected, is placed here.  
= = = = = = = = =
मूलहिन्दी-गीतम् :  इनसान का इनसान से हो भाईचारा * 
चलचित्रम् : पैगाम (१९५९)
मूलस्वरानुकूल-संस्कृतानुवादकः - डॉ. हरेकृष्ण-मेहेरः * 
= = = = = = =
मनुजस्य भ्रातृप्रेम स्याद् मनुजेन साकम्,
अयं सन्देशोऽस्माकम्, अयं सन्देशोऽस्माकम् ॥ (०)  
*
नवीन-विश्वे गता प्रत्नताम्, उच्च-नीचयो-र्गाथा, 
सर्वे लभेरन्  श्रमानुरूपं  स्वं स्वं भागं सुस्थाः । 
सम-वण्टितं भूयात्, कृते सकलानां सौख्यम् । 
अयं सन्देशोऽस्माकम्, अयं सन्देशोऽस्माकम् ॥ (१)
*
वद प्रतिसौधम् इदम्, प्रदीपं ज्वलयतु कुटी-समूहे,  
भेदः कोऽपि न स्याद् वै, सम्प्रति निम्नोच्च-वर्ग-मध्ये । 
प्रतिसदनं भायाद् भूतले, ज्योतिः प्रेमाङ्कम् ।  
अयं सन्देशोऽस्माकम्, अयं सन्देशोऽस्माकम् ॥  
मनुजस्य भ्रातृप्रेम स्याद् मनुजेन साकम्,
अयं सन्देशोऽस्माकम्, अयं सन्देशोऽस्माकम् ॥ (२)  
= = = = = = = = = = = =  
FaceBook Link :
= = = = = = = = = = = =

Original Hindi Song: ‘Insaan Ka Insaan se Ho Bhaichara’ *  

हिन्दीगीतइनसान का इनसान से हो भाईचारा * 
चलचित्र : पैगाम (१९५९) *  गीतिकार :  कवि प्रदीप  *
सङ्गीतकार :  सी. रामचन्द्रः *  गायक :  मान्ना दे *
= = = = = = = = = = = = 
इनसान का इनसान से हो भाईचारा,
यही पैगाम हमारा,  यही पैगाम हमारा ॥ (०)
*
नये जगत में हुआ पुराना,  ऊँच नीच का किस्सा,
सबको मिले मेहनत के मुताबिक, अपना अपना हिस्सा ।
सबके लिये सुख का, बराबर हो बँटवारा ।
यही पैगाम हमारा,  यही पैगाम हमारा ॥ (१)
*
हर एक महल से कहो, कि झोपड़ियों में दीये जलाये,
छोटों और बड़ों में, अब कोई फर्क नहीं रह जाये  ।
इस धरती पर हो प्यार का, घर-घर उजियारा ।
यही पैगाम हमारा,  यही पैगाम हमारा ॥
इनसान का इनसान से हो भाईचारा,
यही पैगाम हमारा,  यही पैगाम हमारा ॥ (२)
= = = = = = = = =

Related Links :
‘Chalachitra-Gita-Sanskritaayanam’: चलचित्र-गीत-संस्कृतायनम्  :
= = =  
Biodata: Dr. Harekrishna Meher :
* * * 
YouTube Videos (Search): Dr. Harekrishna Meher :
* * * 
VIDEOS of Dr. Harekrishna Meher :  
Link : 
* * * 
Dr. Harekrishna Meher on Radio and Doordarshan Channels :
Link : 

= = = = = = 

Thursday, July 19, 2018

Car Festival of Lord Jagannatha: महाप्रभु-श्रीजगन्नाथस्य रथयात्रा : Sanskrit Article by Dr. Harekrishna Meher

Car Festival of Lord Jagannatha: 
Mahaprabhu-Sri-Jagannathasya Ratha-Yatra: 
Sanskrit Article by Dr. Harekrishna Meher 
* * * 
महाप्रभु-श्रीजगन्नाथस्य रथयात्रा 
डॉ. हरेकृष्ण-मेहेरः 
= = = = = = = = = 

‘महाम्भोधेस्तीरे कनक-रुचिरे नील-शिखरे
वसन् प्रासादान्तः सहज-बलभद्रेण बलिना ।
सुभद्रा-मध्यस्थः सकल-सुर-सेवावसरदो
जगन्नाथः स्वामी नयन-पथगामी भवतु मे ॥’ (श्रीजगन्नाथाष्टकम्,३) 

      भारतवर्षे ओड़िशा-राज्यस्य विश्वविश्रुते परम-पावने पुरुषोत्तम-क्षेत्रे पुरी-नगर्यां श्रीमन्दिरे दारुब्रह्म-विग्रह-रूपेण महाप्रभुः श्रीजगन्नाथः, अग्रजेन श्रीबलभद्रेण, कनिष्ठ-भगिन्या देव्या सुभद्रया च साकं सुदर्शन-चक्र-समेतं रत्नसिंहासन-समासीनः भक्तजनैः समाराधितो विराजते । एते चत्वारः दारुविग्रहाः चतुर्धा-मूर्त्तयः इति कथिताः । ब्रह्मपुराण-स्कन्दपुराणादिषु श्रीजगन्नाथ-माहात्म्यं सविस्तरं प्रतिपादितमस्ति । इतिहास-कथादिभिः ज्ञायते यत् पुराकाले विष्णुभक्तेन अवन्ती-नरपतिना इन्द्रद्युम्नेन दक्षिण-महोदधि-तटे पुर्यां श्रीजगन्नाथ-मन्दिरं विनिर्मितम् । तस्य धर्मपत्नी आसीत् महाराज्ञी गुण्डिचा । तया निर्मितं मन्दिरं तस्याः नाम्ना एव गुण्डिचा-मन्दिरम् इति विख्यातम् । परम्परायां राज्ञी गुण्डिचा श्रीजगन्नाथादीनां ‘मातृष्वसा’ इति निगद्यते । तद् मन्दिरं श्रीजगन्नाथस्य जन्मस्थलमिति  प्रथितमस्ति । रथारूढ़ाः दारुदेवाः विविधां मानवीयां लीलां विधाय श्रीमन्दिरात् मातृष्वसुः मन्दिरं गच्छन्ति, तत्र आत्मीयभाव-सत्कृताः प्रसन्नाः सन्तः स्वमन्दिरं प्रत्यावर्त्तन्ते । 

    प्रतिवर्षम् आषाढ़-शुक्लपक्षस्य द्वितीया-तिथौ श्रीजगन्नाथस्य जगत्प्रसिद्धः नव-दिवस-व्यापी रथयात्रा-महोत्सवः महासमारोह-पूर्वकं भक्तवृन्दैः समनुष्ठीयते । रथयात्रा ‘घोषयात्रा’ इति, ‘गुण्डिचा-यात्रा’ इति नाम्नाऽपि प्रसिद्धिं गताऽस्ति । रथयात्रारम्भे सर्वादौ महाप्रभोः अग्रजस्य बलभद्रस्य ‘तालध्वज’-नामा सुसज्जितो रथः पुरी-नगर्याः श्रीमन्दिर-सम्मुख-स्थिते ‘बड़दाण्डे’ अर्थात् बृहद्-मार्गे भक्तगणैः सुप्रस्तुतैः बृहद्-रज्जुभिः समाकृष्य अग्रे चाल्यते गुण्डिचा-मन्दिरं प्रति । एवं पश्चात् चाल्यते देवी-सुभद्रायाः ‘दर्पदलन’-नामा अथवा ‘देव-दलन’-नामा रथः । सुभद्रायाः रथे दण्डस्वरूपः सुदर्शन-विग्रहः स्थापितो विद्यते । परिशेषे चलति श्रीजगन्नाथस्य ‘नन्दिघोष’-नामा रथः । अत्र प्रस्थानावसरेऽपि अग्रजं प्रति अग्र-गमन-रूपः सम्मानः, मध्यवर्त्तिनीं कनिष्ठां भगिनीं प्रति स्नेहभावोऽपि व्यज्यते, स्वयं जगन्नाथस्तु अनुगामी एव । स्वकुटुम्बेऽपि लघु-गुरुजनानां प्रति यथोचित-स्नेहादरभावः भारतीय-संस्कृत्याः मूल्यबोध-सम्पन्नं तत्त्वम् । 
      
      श्रीबलभद्र-सुभद्रा-जगन्नाथाः दारुविग्रहाः स्वस्व-रथे समारूढ़ाः श्रीमन्दिरात् मातृष्वसुः मन्दिरं गच्छन्ति, रथेभ्यः अवरुह्य तत्र आड़प-मण्डपे सिंहासनोपरि समासीनाः भवन्ति । तत्र नानाविध-सुस्वादु-भोजनादिभिः विशेषतः ‘पोड़-पिठा’-नामकैः सुमधुर-पिष्टकैः परितृप्ताः  सस्नेहं सत्कृताः आप्यायिताः भूत्वा नवमे दिवसे आषाढ़-शुक्ल-दशमी-तिथौ स्वमन्दिरं प्रत्यावर्त्तन्ते । ओड़िआ-भाषायाम् इयं ‘बाहुड़ा-यात्रा’ इति कथ्यते । बाहुड़ा-शब्दस्य अर्थः प्रत्यावर्त्तनम् । तदा श्रीमन्दिरे समुपगताः दारुविग्रहाः स्वर्णवेश-विभूषिताः भवन्ति । बह्वाभरण-सम्पन्नः अयं स्वर्णवेशः दर्शकानां भक्तजनानां महानन्द-प्रदायकः । एकादश्यां ते रत्नसिंहासनस्थाः विश्रामं शयनं च कुर्वन्ति । सा तिथिः ‘हरि-शयनी एकादशी’ इति शास्त्रेषु सुविदिता । दारुदेवाः चतुर्मास-शयनात् परं कार्त्तिक-शुक्लपक्षस्य एकादशी-तिथौ उत्थिताः भवन्ति । सा तिथिः ‘प्रबोधिनी एकादशी’ अथवा ‘देवोत्थान-एकादशी’ इति कथ्यते ।   

     रथयात्रावसरे पुरी-गजपति-महाराजेन स्वहस्त-धृतया स्वर्ण-सम्मार्जन्या चन्दनादि-सुगन्धजल-सेचनैः सह रथोपरि सम्मार्जनं विधीयते । ततः दारुविग्रहाः रथ-सिंहासनोपरि समधिरूढ़ाः  राजन्ते । रथस्थं वामनं दृष्ट्वा पुनर्जन्म न विद्यते इति शास्त्रवचनं लोके सुप्रसिद्धम् । रथयात्रायाः पञ्चदश-दिनेभ्यः प्राक् ज्येष्ठपूर्णिमा-तिथौ अनुष्ठिते स्नानयात्रावसरे अष्टोत्तरशत-घट-जलैः स्नाताः सन्तः ज्वरग्रस्ताः भवन्ति दारुविग्रहाः । मन्दिर-वैद्यैः आयुर्वेदिक-चिकित्सा-पद्धत्या औषधादि-सेवनात् परं ते स्वस्थाः भवन्ति । आषाढ़-शुक्लपक्षस्य प्रतिपदायां दारुदेवानां नवयौवन-दर्शनं कुर्वन्ति भक्त-समुदायाः । ततः अन्यदिवसे द्वितीया-तिथौ अनुष्ठीयते रथयात्रा । परंब्रह्म-स्वरूपस्य महाप्रभोः मानवायिताः लीलाः वस्तुतः बहु-वैचित्र्यमावहन्ति । पतितपावनः इति परिचितः लक्ष्मीदेवी-कान्तः विष्णुरूपः भक्तवत्सलः श्रीजगन्नाथः अग्रजानुजाभ्यां साकं सर्वसाधारण-जनानां दर्शन-निमित्तं प्रतिवत्सरं स्वयमेव मन्दिराद् बहिरागत्य मुक्त-व्योमतले रथारूढ़ो विराजते । मन्दिर-परिचालकैः सेवकैः भक्तवृन्दैश्च सर्वं कार्यं यथारीति सम्पाद्यते । रथयात्रा-दर्शनाय देश-विदेशेभ्यो लक्ष-लक्ष-जनाः पुरीनगर्यां सम्मिलिताः भवन्ति । धार्मिक-दृष्ट्या महाप्रभोः सन्दर्शनं तन्नाम-चिन्तन-सङ्कीर्त्तनं नितरां पावनं पापघ्नं भवतीति इति लोकविश्वासः ।  

     पौराणिक-कथानुसारं श्रीजगन्नाथः आसीत् मूलतः शबरराज-विश्वावसु-समाराधितः ‘नीलमाधव’-नाम्ना सुपरिचितः महाप्रभुः । परवर्त्ति-काले अवन्ति-महाराजेन इन्द्रद्युम्नेन प्रतिष्ठापितः स ‘जगन्नाथः’ इति आख्यायितः । अद्य यावत् स ‘जगन्नाथ’-नाम्ना देश-विदेशेषु सर्वत्र सम्पूज्यते । साधु-भक्त-कवि-लेखकादीनां चित्रणे श्रीजगन्नाथः विविध-रूपान्वितः । वैष्णव-श्रीचैतन्यस्य कृते स राधावल्लभ-कृष्णरूप:, गोस्वामि-तुलसीदासस्य कृते स  सीतापति-श्रीरामरूप:, भक्त-गणपति-भट्टस्य कृते स गजानन-रूपः । एवं विविध-देवानां समाहार-स्वरूपः स जगतां नाथः जगन्नाथः । । यवनभक्त-सालवेगस्य स प्रिय-पूज्यः । कवि-जयदेव-कृत-गीतगोविन्द-काव्यस्य गान-श्रवणं भगवतः अत्यन्तं प्रियम् । स उपनिषत्-प्रतिपादितः अपाणि-पादः परम-पुरुषः इति वर्ण्यते । स लीलामयः भक्तानां भाव-दोरक-बद्धः भावग्राही, आर्त्तत्राणः, दीनबन्धुः, दयासिन्धुः, दुःखहर्त्ता सुखदाता, प्रेम-भक्तिप्रियो भगवान् ।  लोकेषु परस्पर-सौहार्दस्य जातीय-संहतेः विश्वबन्धुतायाः समन्वय-भावस्य च प्रतीकभूतः नयन-हृदयोल्लासकः पुण्यप्रदः रथयात्रा-महोत्सवः । महाप्रभोः श्रीजगन्नाथस्य दर्शनेन आत्मानं धन्यं मन्यन्ते भक्तजनाः । सर्वोपरि विलसति विश्वास-तत्त्वम् । विश्वासे लभ्यते हरिः, तर्के बहुदूरं तिष्ठति इति उक्तिः जनेषु लब्धप्रसरा । स विचित्रकर्मा श्रीजगन्नाथ-देवो विजयते ।  
     
‘मैत्रीं प्रशान्तिं सुखदां चिरन्तनम्, 
तनोतु विश्वे तव नाम-चिन्तनम् ।
आत्मीयता-रूप-रसो महीयताम्,
प्रभो जगन्नाथ ! कृपा विधीयताम् ॥’ (श्रीजगन्नाथ-प्रार्थना)
= = = = = 


Related Link : 
Biodata: English :