Saturday, October 11, 2014

‘Ayaahi Devi’ (‘आयाहि देवि !’ Sanskrit Poem: Dr.Harekrishna Meher)

‘Ayaahi Devi’ : Invocation to Goddess Durga
[Sanskrit Poem by : Dr. Harekrishna Meher]
= = = = = = = = = =
आयाहि  देवि ! 
रचयिता :  डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = = = = 

आयाहि देवि ! जगतां परिपात्रि ! सौख्यदा
दुर्गे ! महेश्वरि ! मृगेश्वर-पृष्ठ-मण्डना ।
वन्दे सुरम्य-चरणाम्बुजमम्बिके  ! सदा
त्वं शङ्करी भगवती हर सर्व-सङ्कटम् ॥ (१)
*
दुर्नीति-खर्व-कबलै-र्वसुधा मलीमसा
कात्यायनि ! प्रमथिता व्यथितास्ति नीरसा ।
तामुद्धर त्वमिह वै शरण-प्रदायिनी
त्रायस्व देवि ! सुतरां तुहिनाद्रि-नन्दिनी ॥ (२)
*
आतङ्क-दुःख-विपदां हननी शुभङ्करी
त्वं सर्व-जीव-जगतां जननी सुधा-झरी ।
पाह्येव धर्ममखिलं शमनी दुरात्मनां
मातर्गृहाण सुमनोरचितां समर्चनाम् ॥ (३)
*
दुर्धर्ष-दानव-कुलं प्रबलं मदोद्धतं
ध्वस्तं कुरुष्व सकलं कलि-पङ्कमस्त्रिणी ।
रुद्रे ! त्वदीय-करुणा-सुरभि-र्महीयतां
विश्वोदरे त्वमसि नो दुरितापहारिणी ॥ (४)
*
शान्तिं प्रदेहि मुदितं हृदये सुपूजिता
सद्भावना च भुवने लसतु प्रभान्विता ।
त्वां शक्ति-रूपिणि ! भुवां प्रिय-भक्त-वत्सलां
दिव्यां च नौमि महतां सुनुतां सुमङ्गलाम् ॥ (५)

= = = = = =

(Published as Avaahani Slokas in ‘Bartikaa’, Odia Literary Quarterly,
Dasahara Special Issue, October-December 2014, Jajpur, Odisha)

= = = = = = 

Thursday, October 9, 2014

Research Article on 'Koshali Meghaduta' of Dr. Harekrishna Meher

'Kalidasiya Bhaaba-Dhaaraare Koshali Meghaduta : 
Eka Anushilana' 

[Oriya Research Article on ‘Koshali Meghaduta’ of Dr. Harekrishna Meher]

By : Dr. Dasarathi Acharya

* * * * * * * 
'कालिदासीय भावधारारे कोशली मेघदूत : एक अनुशीलन'
शोध-प्रबन्ध-लेखक :  अध्यापक  डक्टर्  दाशरथि आचार्य 
* * * * *

(Published in ‘Bartikaa’, Odia Literary Quarterly,
Dashahara Special Issue, pages 466- 483, October-December 2014, Jajpur, Odisha)
 *
Oriya Script Images of the Article are given below.

= = = = = =         
                                                                                                                                                                  

                                                                                                                   
 

                                                                                                                                                                   


                                                                                                                 

                                                                                                                     

                                                                                                                 







































                                                                                                                  



























































































































































Wednesday, September 10, 2014

Welcome Song ‘Swaagatikaa’ स्वागतिका/Dr.Harekrishna Meher

‘Swaagatikaa’  
Sanskrit Lyrics and Tuning :
By  Dr. Harekrishna Meher
* *
स्वागतिका
(गीति-रचना तथा स्वर-संयोजना :
डॉ. हरेकृष्ण-मेहेरः)
= = = = = = = = =

स्वागतम्,  अभिनन्दनम्  ।  
गुरुजनेभ्यो  वन्दनम्  ।
गुरुजनेभ्यो  वन्दनम्,  अतिथि-जनेभ्यो  वन्दनम्  ।
सादरम्  अभिनन्दनम्  ।  स्वागतम्, अभिनन्दनम्  ।
सभाजनानां   सुभाजनानां   
पदार्पणं  वै  पावनम्  ।
स्वागतम्, अभिनन्दनम्  ।  
स्वागतम्, अभिनन्दनम्  ॥ (ध्रुवम्) 
*
सुप्रतिभायां  प्रकाशते,  सुधी-सभायां  विराजते  ।
इदानीन्तनं  पुण्य-चिन्तनं   तत्त्व-मन्थनं  प्रशस्यते  । 
शुभोपदेशं     नव-सन्देशं
कामयामहे  शोभनम्  ।  सार-गर्भमुद्‍बोधनम्  ।
इह सम्यग् दिग्‌दर्शनम्  ।  स्वागतम्  अभिनन्दनम्  ॥ (१)
*
विद्या महसां प्रकाशिनी,   दुष्कृति-तमसां विनाशिनी  ।
मण्डितासना  विज्ञ-मण्डली  नव-जिज्ञासा-विकाशिनी  ।
कृते समेषां   सधन्यवादं
कृतज्ञताया  ज्ञापनम्  ।  हार्द-भावना-वर्धनम्  । 
सादरम्  अभिनन्दनम्  ।  स्निग्ध-सुमधुरं  स्पन्दनम्  ।
स्वागतम्  अभिनन्दनम्  ।  भाव-सुगन्धं  चन्दनम्  ।
सादरम्  अभिनन्दनम्  ।  सभाजनेभ्यो  वन्दनम्  ।
स्वागतम्,  अभिनन्दनम्  ।  स्वागतम्, अभिनन्दनम्  ॥ (२) 

* * * * * * 

(From Sanskrit Kavya ‘Pushpanjali-Vichitraa’
of Dr. Harekrishna Meher)

* * * 

Sunday, August 24, 2014

Modern Sanskrit Literature : Contribution of Poet Harekrishna Meher


Adhunika- Samskrita-Sahityam Prati 

Kavi-Harekrishna-Meherasya  Avadanam 

(Sanskrit Research Article by : Dr. Jayanta Kumar Tripathy) 

Published in Sanskrit Research Journal 'Sraddha' (ISSN 2321-273X)  

* * * 


आधुनिक-संस्कृत-साहित्यं प्रति 
कवि-हरेकृष्ण-मेहेरस्य अवदानम्
= = = = = = = = = = = = = = = = = = = = = = =

               * डॉ. जयन्त-कुमार-त्रिपाठी                

उपक्रमः

    संस्कृतं नाम दैवी वागन्वाख्याता महर्षिभिः  इति काव्यादर्शकारस्य दण्डिनः  वर्णनायां संस्कृत-भाषा देवभाषा इति विशेषत्वमर्हति । संस्कृतं नाम भाषा-जननी वैदिक-कालादारभ्य साम्प्रतिकयुग-पर्यन्तं निरन्तरं गतिशीला प्रगतिशीला च अग्रेसरति । सा गीर्वाण-वाणी यादृशी प्राचीनतमा, तादृशी आधुनिकतमाऽपि । समयानुसारं बहुबाधा-विघ्न-समूहैः पीड़िता अवहेलिता सती सुरभारती साम्प्रतिक-काले अधिक-दीप्यमाना विराजते । अस्माभिः विद्यालयेषु महाविद्यालयेषु विश्व-विद्यालयेषु च संस्कृत-विषये यानि यानि पठितानि, आधुनिक-काले तैः सार्धं नूतनानि बहूनि काव्यादीनि दृष्टि-पथमवतरन्ति । काव्यादि-रचनासु पुरातन-शैल्या साकं नव्या आधुनिक-शैली अपि सारस्वत-साधनायां स्वीकृतास्ति । साहित्यस्यापि  जायते युगानुसारं परिवर्त्तनं  किञ्चित् । संस्कृतं  केवलं रक्षणशीलं साहित्यं  न भवति । साम्प्रतिके    संस्कृत-साहित्ये   काव्य-कृतीनां नैके विभावाः दरीदृश्यन्ते । पुरातन-साहित्यवत् सम्प्रति विरच्यन्ते महाकाव्यानि, खण्ड-काव्यानि, गीति-काव्यानि, स्तोत्र-काव्यानि, गद्य-काव्यानि, नाटकानि, कथाश्चेत्यादीनि । एतैः सार्धं नव्य-शैल्या प्रणीयन्ते नूतनच्छन्दोभिः नव्य-काव्यानि, नूतन-मौलिक-च्छन्दोभिः नाना-गीति-काव्यानि, नूतनशैल्या नाटक-वीथी-नाटकानि, हास्य-व्यङ्ग्य-काव्यानि, उपन्यासिका- उपन्यास-रचनानि, नव्यरूपेण कथा-क्षुद्रकथाश्च । संस्कृतभिन्न-च्छन्दोभिः कृतानि विविधानि गल-गीत-काव्यानि, हाइकु-सिजो-तान्का-प्रभृति-विदेशीय-च्छन्दोभिः संस्कृत-कविता-काव्यादीनि च लोचन-गोचराणि भवन्ति । अनेन परिलक्ष्यते यत् आधुनिक-रुच्यनुसारं प्रवर्त्तते जनानां चित्तहारकं साम्प्रतिकं संस्कृत-साहित्यम् ।  

    आधुनिक-संस्कृत-साहित्ये अनेके कवयः राजन्ते यथा, अभिराज-राजेन्द्र-मिश्रः, भास्कराचार्य-त्रिपाठी, श्रीनिवास-रथः, हरिदत्त-शर्मा, गोविन्दचन्द्र-पाण्डेयः, राधावल्लभ-त्रिपाठी, रमाकान्त-शुक्लः, पुष्पा-दीक्षितः, हर्षदेव-माधवः, बनमाली-बिश्वालः चेत्यादयः । आधुनिक-संस्कृत-कविषु हरेकृष्ण-मेहेरः काव्यकविता-गीति-प्रभृति-रचनाप्रतिभया निज-स्वतन्त्र-शैल्या विशिष्टमेकं स्थानमधिकरोति । 

कवि-परिचयः 

     हरेकृष्ण-मेहेरः ओड़िशायाः नूआपड़ा-जिल्लान्तर्गते सिनापालि-ग्रामे ख्रीष्टाब्दे ०५-०५-१९५६ इति दिनाङ्के कवि-परम्परा-वाहिनि परिवारे लब्धजन्मा । तस्य पितामहः कवि-मनोहर-मेहेरः पश्चिम-ओड़िशायाः गणकवि-रूपेण लोके चर्चितः । पितुः कवि-नारायणभरसा-मेहेरस्य मातुः सुमति- देव्याश्च अङ्कं मण्डयन् सुपुत्रः सञ्जातः हरेकृष्णः । एक-साहित्यिक-परिवारस्य उत्तम-दायादो हरेकृष्ण-मेहेरः ।

   कवि-परम्परायां हरेकृष्ण-मेहेरः सर्जनात्मक-प्रतिभावान् विशेषाभिरुचि-सम्पन्नः भाषा-साहित्य-सङ्गीतकलासु । स संस्कृताध्यापकः, कविः, गवेषकः, समालोचकः, प्राबन्धिकः, गीतिकारः, स्वर-संयोजकः, सफलानुवादकः सुवक्ता च । अनेक-भाषाविदा हरेकृष्ण-मेहेरेण कृताः संस्कृत-हिन्दी-आङ्गल-ओड़िआ-कोसली-भाषासु नैकाः मौलिक-रचनाः अनुवादाश्च सहृदय-समाजे प्रथिताः विद्यन्ते । जातीयान्तर्जातिक-स्तरेषु विभिन्न-मुखपत्र-पत्रिकासु तस्य लेखाः प्रकाशिताः सन्ति । तेन विश्वसंस्कृत-सम्मेलनादिना सार्धम् अनेकेषु जातीयालोचना-चक्रेषु कवि-सम्मेलनेषु च सक्रियं योगदानं कृतम् । संस्कृतस्य आधुनिकी-करण-दिशायां सरलीकरण-दिशायां च स सदैव प्रयत्नशीलः । स्वोद्भावितैः मौलिक-च्छन्दोभिः आधुनिक-नवगीति-रचना स्वरलिपि-स्थापनं परिवेषणं च तस्य कवि-प्रतिभायाः विशेषत्वम् । उत्कल-विश्वविद्यालय- सागर-विश्वविद्यालयादिषु प्रस्तुत-शोधग्रन्थेषु तस्य कृति-विषये शोधात्मक-लेखाः अन्तर्भुक्ताः सन्ति । आकाशवाणी-दूरदर्शनादिषु तस्य लेखाः कविताः गीतयश्च प्रसारिताः । आन्तर्जातिक-जीवनी-ग्रन्थेषु तस्य परिचयात्मकं विवरणं प्रकाशितं प्राप्यते । ओड़िशा-साहित्य-अकादम्याः स  पूर्वतन-सदस्यः । साहित्यिक-सांस्कृतिकानुष्ठानैः  अनेकैः सार्धं सक्रिय-रूपेण सम्पृक्तो विद्यते ।

    अनेक-संस्थानां प्रदत्तैः साहित्यिक-सम्मानैः हरेकृष्ण-मेहेरः सभाजितोऽस्ति । तस्मै प्रदत्त-सम्मानेषु गङ्गाधर-सम्मानः (पाटनागड़, २००२), गङ्गाधर-सारस्वत-सम्मानः (बरपालि, २००२), जयकृष्ण-मिश्र-काव्य-सम्मानः (कटक, २००३), विद्यारत्न-प्रतिभा-सम्मानः (भुवनेश्वर, २००५), अवार्ड् अफ् एप्रिसिएशन् (जयदेव-उत्सवः, नवदिल्ली, २००८), अशोक-चन्दन-स्मारक-गङ्गाधर-सम्मानः (बरपालि, २००९), आचार्य-प्रफुल्लचन्द्र-राय-स्मारक-सम्मानः (एकाडेमी अफ् बेङ्गली पोएट्री, कलकाता, २०१०), हरिप्रियामुण्ड-स्मारक-गङ्गाधरमेहेर-सम्मानः (बरपालि, २०१०), नीलमाधव-पाणिग्राही-सम्मानः (सम्बलपुर-विश्वविद्यालयः,२०१०), विश्व-संस्कृतदिवस-सम्मानः (भवानीपाटना, २०१३), वाचस्पति गणेश्वर-रथ- वेदान्तालङ्कार- सम्मानः (भवानीपाटना२०१३) चेत्यादयः प्रमुखाः सन्ति । एतद्-व्यतिरिक्तं बहु-साहित्यिक-संस्थाभिः प्रदत्तैः मानपत्रादिभिः स  संवर्धना-प्राप्तः ।

   कवि-हरेकृष्ण-मेहेरस्य शिक्षागत-योग्यतापि प्रशंसनीया । उत्कल-विश्वविद्यालयात् संस्कृत-स्नातक-सम्माने प्रथम-श्रेण्यां प्रथमः (१९७५); वाराणसी-नगर्याः काशी-हिन्दु-विश्वविद्यालयात् सम्प्राप्तम् उपाधि-त्रयम् : एम्.. (संस्कृतम्) प्रथम-श्रेण्यां प्रथमः, स्वर्णपदक-प्राप्तः (१९७७); पीएच्. डी. संस्कृतम् (१९८१); डिप्लोमा-इन्-जर्मान् (१९७९) । पीएच्.डी.-उपाधि-निमित्तं काशी-हिन्दु-विश्वविद्यालये तेन प्रस्तुतः Philosophical Reflections in the Naisadhacarita’ इति- शीर्षकः शोध-ग्रन्थ: १९८९- वर्षे कोलकतायाः  पुन्थि-पुस्तक-संस्था-द्वारा प्रकाशितः सन् आन्तर्जातिक-स्तरे समादृतः लभ्यते ।

    १९८१-वर्षतः ओड़िशा-शिक्षा-सेवायां शासकीय-महाविद्यालयेषु कृताध्यापनः स शिष्यजन-समादृतः । ओड़िशा-प्रदेशस्य स्वनामधन्ये सम्बलपुर-स्थिते गङ्गाधर-मेहेर-स्वयंशासित-महाविद्यालये स सम्प्रति  स्नातकोत्तर-संस्कृत-विभागस्य मुख्यरूपेण कार्यरतः । कृतविद्येन तेन प्रणीतेषु आधुनिक-संस्कृत-काव्यादिषु विद्यन्ते  ‘मातृगीतिकाञ्जलिः’, ‘पुष्पाञ्जलि-विचित्रा’, ‘सौन्दर्य-सन्दर्शनम्’, ‘जीवनालेख्यम्’, ‘मौन-व्यञ्जना’, हासितास्या वयस्या’, ‘उत्कलीय-सत्कला’, ‘स्तवार्चन-स्तवकम्’, सूक्ति-कस्तूरिका, मेहेरीय-च्छन्दोमालाचेत्यादयो मौलिक-काव्य-कृतयः । कविवर-राधानाथ-राय-कृतायाः वर्षाइति ओड़िआ-कवितायाः संस्कृत-श्लोकानुवादः, स्वभावकवि-गङ्गाधर-मेहेर-विरचितस्य  ‘तपस्विनीइति प्रख्यातस्य ओड़िआ-महाकाव्यस्य (हिन्दी-आङ्गल-संस्कृत-भाषासु) तत्कृताः अनुवादाश्च  प्राधान्यं भजन्ते । कवि-गङ्गाधरमेहेर-कृतयोः प्रणयवल्लरी’ ‘अर्घ्यथालीचेति   ओड़िआ-  काव्ययोः  संस्कृतानुवादोऽपि  तेन  कृतो विद्यते । आङ्गल- हिन्दी-ओड़िआ-कोशली-प्रमुखासु  संस्कृतभिन्न-भाषास्वपि  कविना हरेकृष्ण-मेहेरेण अनेकानि मौलिकानि अनुवाद-रूपाणि च पुस्तकानि रचितानि  ।

रचना-शैली  

    हरेकृष्ण-मेहेरः न केवलं छन्दोबद्ध-रचनायाम्, अपितु मुक्तच्छन्दोभिः कविता-प्रणयनेऽपि प्रवीणः । आधुनिकता-पुरातनतयोः समन्वयवादि-कवि-रूपेण स परिचितः । कविः  स्वयं गीतिकारः स्वर-संयोजकश्च विभाति । विविध-कवि-सम्मेलनेषु तस्य गीति-कवितादीनां  सुस्वर-परिवेषणं सहृदयैः बुधैः समाद्रियते । भारतीय-संस्कृतेः गौरवं तस्य रचनासु प्रतिफलितं विलोक्यते । आधुनिकी नव्यशैली-सम्पन्ना च तदीया दृष्टि-भङ्गी परिलक्ष्यते । राजते तस्य  काव्येषु पदावली माधुर्य-लालित्यमयी अनुप्रास-भरिता, प्रसाद-गुणयुक्ता वैदर्भी-रीति-सम्पन्ना च अत्र किमपि काठिन्यं जटिलत्वं दुर्बोधत्वं वा न लक्ष्यते । 

    भाषायाः सारल्यं सौकुमार्यं भाव-वैशद्यम्, शब्द-योजनायाः वैचित्र्यपूर्णं नैपुण्यम्, आलङ्कारिकतायाः मनोरमं सूक्ष्म-कौशलं रसोत्तीर्णत्वं चेत्यादीनि तत्वानि कवेः कृतीनां हृदयस्पर्शित्वं प्रकटयन्ति । काव्येषु भावानुकूला ललित-पदन्यास-समेता चमत्कारिता पाठकानां मानसं हरति । साङ्गीतिक-माधुरी अपि सहृदयानां चित्तमनायासेन समाकर्षितं विमुग्धं समाह्लादितं च कर्त्तुं समर्था । देशभक्तिः, आध्यात्मिकता, दार्शनिकता, मानवतावाद-चिन्तन-धारा भाव-गाम्भीर्य-सहकारेण कलात्मक-रूपेण समन्विता दृश्यते । कान्ता-सम्मित-वचनस्य मनोज्ञमालेख्यं कवेः काव्येषु मूर्त्त-रूपेण समङ्कितम् ।  तस्य अनुवाद-कृतिषु अपि अर्थानुगतायां स्वीय-मधुर-ललित-पद-राजि-संयोजनायां प्रतिभायाः मौलिकता प्रतिभाति

मातृगीतिकाञ्जलिः’ 

 हरेकृष्ण-मेहेरेण रचितं मातृगीतिकाञ्जलिः इति मौलिकं गीतिकाव्यं साम्प्रतिक-सहृदय-पाठक-समाजे लोकप्रियं विदुषामादरणीयं च वर्त्तते ।  कविना नव्य-मौलिकच्छन्दोभिः प्रणीताः पञ्चविंशति-संख्याकाः गीतिकाः काव्येऽस्मिन् सङ्कलिताः । काव्यमेतत् तस्य सर्जनशील-प्रतिभायाः प्रकृष्टं निदर्शनम् । जीवने समनुभूयमानाः विविधाः विषयाः गीतिकानामाधारभूताः विद्यन्ते । स्वप्रणीतः आङ्ग्लानुवादोऽपि अस्मिन् काव्ये सन्निवेशितः । राष्ट्रीय-स्तरे आन्तर्जातिक-स्तरे च अस्य गीति-काव्यस्य प्रसारार्थमनुवादोऽयं सहायको भवति ।

 मातृगीतिकाञ्जलि-काव्ये कविना मेहेरेण स्वयमेव प्रदत्तास्ति ताल-लय-समेत-गेयानां गीतिकानां साङ्गीतिक-महत्त्व-सहिता स्वरादि-सूचना । सा एवंप्रकारा
   
    “नव्य-शैल्या प्रणीतानां गीतिकानां कृता मया
     स्वर-संयोजनाप्यासां स्वसामर्थ्य-समाश्रया
    गायनं कर्त्तुमर्हन्ति गीतिकानां स्वरप्रदाः
     स्व-सौविध्यानुसारेण सङ्गीतज्ञा विशारदाः
             (प्रास्ताविकम्, -पृ.१५)

   कविना परम्परामबलम्ब्य मौलिकी नूतन-च्छन्दोराजी रचितास्ति । स्वरचना-शैली-विषये कविः व्यनक्ति प्रास्ताविके
 अनुसृत्य परम्पराम्
 मात्राच्छन्दोभि-र्मौलिकैः स्वोद्भावितैः कृता मया  
 गीतिकावली सुतराम्
 प्रसाद-गुण-सम्पन्ना श्रद्धाबद्धा सदाशया

  ललिता मधुरा रसभाव-भरा
  सुकुमार-रुचि-र्नवकाव्य-परा
  प्रिय-देवगवी-प्रवणा सुखदा
  मम गीतिरियं कमनीय-पदा
            (प्रास्ताविकम्, -, पृ.१६)
  
   गीर्वाण-वाणी-नीराजनार्थं
    प्रस्तूयते मे गीत्यावलीयम्
    विस्तारयन्ती कान्ता यथार्थं
    किञ्चिद् विशेषं तत्त्वं स्वकीयम्   
          (प्रास्ताविकम्, १२, पृ.१७)

मातृगीतिकाञ्जलिः- काव्यस्य विषयचर्चा

   पञ्चविंशति-गीतिका-संवलितस्य अस्य काव्यस्य प्रथममर्घ्यं वाणी-गीतिका। कविना भारतीय-साहित्य-परम्परानुक्रमेण मङ्गलाचरण-रूपे ग्रन्थारम्भे पूजितास्ति विद्यादेवी सङ्गीत-कलादेवी सरस्वती । कविः एवं प्रस्तौति
        कवि-जननी त्वं  शतदल-निवासिनी,
         भव-शमनी त्वं   सुविमल-सुवासिनी  
                  (वाणी-गीतिका, पृ.२१)

    अस्मिन् काव्ये मातृगीतिका, विश्व-गीतिका, जीवन-गीतिका, पुरुषोत्तम-गीतिका, प्रबोध-गीतिका, नारी-गीतिका, प्रणयिनी-गीतिका, प्रणयि-गीतिका, विभु-गीतिका, शिशु-गीतिका, नटराज-गीतिका, शक्ति-गीतिका, समय-गीतिका, कलाकर-गीतिका, अभिज्ञानगीतिका, शिवसङ्कल्प- गीतिका, गायत्री-गीतिका, भारत-भारती-गीतिका, कवि-गीतिका, गीता-गीतिका, सङ्गीत-गीतिका, दशरूपगीतिका, नववर्ष-गीतिका, देशगीतिका संवलिताः । प्रत्येक-गीतिकायाः अन्ते गान-विषयिणी ताल-लयादि-सूचना प्रदत्तास्ति । जीवनस्य विविध-विषयाः अत्र सन्निवेशिताः । गीतिकानां नामानुसारमेव वर्ण्य-विषयाः सङ्केतिताः सन्ति । 

   आधुनिक-संस्कृते प्रसिद्ध-गीतिकविना आचार्य-श्रीनिवास-रथ-महोदयेन मातृगीतिकाञ्जलिः काव्यस्य विषये अभिमतम् प्रदत्तमस्ति । विदग्धसुलभैः स्वप्रणीतैः श्लोकैः सह तस्य गद्य-पङ्क्तिः विशेषेण प्रणिधेया । तस्य मन्तव्यस्य कियदंशः एवम्,
  संस्कृत-नवगीति-रचना-कविना श्रीहरेकृष्ण-मेहेरेण मातृगीतिकाञ्जलिरिति प्रकाशतामानीयते पञ्चविंशति-गीतिकालङ्कृतः स्वरचित-गीतिका-काव्य- सङ्ग्रहः सङ्ग्रहेऽस्मिन् कवित्वबोध-बन्धुरा गीतिका विविधविषय-भासुरा दीप्यन्ते भारतीय-कवितासु गीतिकाव्य-परम्परा भक्ति-रसायनभूता वितनोति समेषामानन्दम्  प्रस्तावना-पद्येषु    “गीर्वाण-वाणी-नीराजनार्थं प्रस्तूयते मे गीत्यावलीयम्इति स्वयं विनिवेद्य कविराशास्ते,
          भवतु गौरव-सौरभ-भास्वरा
          विजयिनी मम देश-परम्परा इति
मातृगीतिकाञ्जलि-पद्येषु परम्परानुगतापि नूतन-पद-रचना-शक्तिः सुतरां प्रीणाति
        रवि-सङ्काशः
         स्वयम्प्रकाशः,
         संसरणे त्वमनन्ताकाशः इति
         अबलं सबलं
         शुष्कं सजलं
         स्वैरं कुरुते सरलं वक्रम् इति  वा
 सुव्यक्तमुररीकुरुतः  सुललित-पदक्रम- कमनीयताम्   (अभिमतम्, पृ.)

हरेकृष्ण-मेहेरस्य कवित्व-विषयेऽपि आचार्य- रथ-महाभागस्य मन्तव्यं प्रणिधेयम्
  आयुष्मता हरेकृष्णेन मन्ये कवित्वबीजरूपः संस्कारविशेषः कुलपरम्परयार्जितः यतोऽस्य पितामहः श्रीमनोहर- मेहेर-नामाऽजनि सरस-भणितीनामाकरः कविः कविताश्रित-कीर्त्तिः तद्वदेवास्य जनयिता श्रीनारायणोऽपि कवि-पदवीमध्यास्तेऽनितर-साधारणीम् अथच केचनात्र कुल-परम्पराधिगत-संस्काररूपेण कवित्व-बीजभूतां  शक्तिं मन्यन्ते ते तु देवता-प्रसाद-जन्यमदृष्टमेव कवित्वशक्ति-कारणमिति तदात्मक एव संस्कार इति स्वीकुर्वन्ति यथातथा वा भवतु उभयथाऽपि प्रतिपद्यत एवात्र कवयितरि संस्कारवत्त्वम् तत्रापि सुरवाणी-शरणोऽयं प्रस्तौति मातृगीतिकाञ्जलिं बहुतराभ्यास-व्युत्पत्ति-लभ्यम् तथा ,
        कवित्वं जायते शक्ते-र्वर्द्धतेऽभ्यास-योगतः
          अस्य चारुत्व-निष्पत्तौ व्युत्पत्तिस्तु गरीयसी
इत्युक्त-दिशा वाग्देवता-प्रसादात् कालक्रमेण चारु चारुतरं सम्पत्स्यते संस्कृत-कवितावनी-कृतपदस्य आयुष्मतो हरेकृष्ण-मेहेरस्य काव्यमित्याशास्महे निबद्धाञ्जलिः कविरयं सदाशिषा योजयितव्यो भवति भावुकै-र्भावकैश्च भूयश्च,
  श्रीहरेकृष्ण-मेहेर-रचितो गीतिकाञ्जलिः
  भद्रं वितनुतां लोके तनुतां कवे-र्यशः
इति शम्    (अभिमतम्, पृ.)

   पुनश्च मातृगीतिकाञ्जलि-काव्यस्योपरि आचार्य-राजेन्द्रमिश्र-महोदयेन प्रस्तुतायां  पाण्डित्य-पूर्णायां दीर्घलेखायां भूमिकायां गीतितत्त्वस्य विशदं विवेचनं विलोक्यते । गीतेः संज्ञा-विचारणा-प्रसङ्गे तेन सामवेदादारभ्य महाकविकालिदास-शूद्रक-राजशेखर-आनन्दवर्धन-अभिनवगुप्त-प्रमुखै: सुकवि-जनैः समीक्षकप्रवरैश्च प्रसङ्ग-क्रमेण प्रतिपादितानां गीति-गीत-गान-गेय-शब्दानां सविस्तरमलोकपातः दृश्यते । गीतिकाव्यस्य स्वतन्त्रा संज्ञा यद्यपि केनचित् पूर्वविदुषा न निरूपिता, तथापि आचार्य-मिश्रेण पूर्वसूरि-कविभिः कृतानां गीत-विषयक-श्लोकानां विचारणा-पूर्वकं तन्मध्यात् गीतिकायाः निर्यास-रूपा संज्ञा समुद्भाविता । प्रस्तुत-गीतिकाव्योपरि भूमिकायां मन्तव्यम् एवमस्ति आचार्य- अभिराज-राजेन्द्रमिश्रस्य,      
     सुप्रथित-यशसो मेहेर-कवेरन्यतमा काव्यकृति-र्मातृगीतिकाञ्जलि-नाम्नी सम्प्रति प्रकाश्यते गीतिकाव्येऽस्मिन् पञ्चविंशति-मितानि ललित-ललितानि गीतानि वर्त्तन्ते विविध-विषयीणि, यानि पाठं पाठं रसोद्रेक-मुकुलितं जायते सहृदय-मानसम्   * सरल-सरलै-र्भाव-प्रतनन-क्षमैः पदैः इमा गीतिका गेयत्वं मनोहारित्वं लालित्यं भावान्वितत्वं चेति पूर्वोल्लिखित-गीतवैशिष्ट्यजातं सम्यक्तया बिभ्रतीति सचेतस एव प्रमाणम् मौलिक्यो भावनाः प्रायेण सर्वास्वेव गीतिषु समुपलभ्यन्ते   (भूमिका, पृ. ११-१२)

    मातृगीतिकाअस्य काव्यस्य द्वितीया गीतिः । रूपक-ताल-गान-बद्धायामस्यां वर्णितास्ति भारतमातु-र्महनीय-गुणावली । अस्याः पङ्क्तिरेका  समास्वादनीया

जयतु जननी जन्मभूमी  
                  भव्य-भुवनं भारतम्,
विजयतां नो वन्दनीयं
                   सुन्दरं धामामृतम् (ध्रुवम्)                                                 
बिभर्ति भूति सम्पदम्राष्ट्रमिदं हि शं-पदम्,
वैरि-लोचन-बाष्पदम्,   सत्कलाया आस्पदम्  
सांस्कृतिक्या एकतायाः  पुञ्जिता सञ्जीवनी,
मङ्गलमयी  रङ्गललिता  निखिलसुखदा लेखनी
    प्रेम-जगतां  जैत्र-गीतं  विबुध-हृदये झङ्कृतम्.
    विजयतां नो  वन्दनीयं  सुन्दरं धामामृतम्,
                      भव्य-भुवनं भारतम्   (मातृगीतिका, पृ.२५)

    जीवन-गीतिकायां मानवं प्रति उद्बोधन-समेतं कविना जीवनस्य समुज्ज्वल-दिशां प्रति आलोकपातः कृतः । नैसर्गिक-विभावादीनां शिक्षणीय-तत्त्वानि अस्माभिः कृते आहरण-योग्यानि भवन्ति इति कवेर्मतम् । मानवतायाः आत्मिकं सम्बन्धं दर्शयन् कविः कथयति

   पश्य मधुमयं विश्वमीश्वरं
            प्रीतिं शान्तिं हृदि सर्वेषाम्,
   साधय सारं परोपकारं
            लभस्व कीर्त्तिं सफल-सुवेषाम्
        मानवतायाः  कलय महत्त्वं
        चिरन्तनं परिचिन्तय तत्त्वं
            सकलात्मनि सद्भावनम्
   जीवनं सुन्दरम्, सुन्दरं तनु तपोवनम् 
                       (जीवन-गीतिका, पृ.३३)

   सङ्गीत-कलाप्रियः कविः सङ्गीत-विषयेऽपि न नीरव-मुखः । समग्र-विश्वब्रह्माण्डे क्षुद्रकीटात् मनुष्यं यावत्, निसर्गस्य सर्वविभावेषु ब्रह्मनादस्य परिव्याप्तिं प्रतिपादयति कविः । यथा

          विधातुः प्राङ्गणं  
                     विततं सङ्गीतमयम्     
          प्रकृत्याः प्रतिकणं 
                    नियतं युत-ताल-लयम् (ध्रुवम्)                                            
        पल्लविनी प्रफुल्ल-कुसुमा वल्लरी,
        गति-मन्दं  नृत्यति   छन्दः-सुन्दरी
         सुनिनदत्-कङ्कणं  
                   स्फुट-भाव-कलाभिनयम्
         प्रकृत्याः प्रतिकणं
                   नियतं युत-ताल-लयम्,
                 विततं  सङ्गीतमयम्      
                  (सङ्गीत-गीतिका, पृ.१०१)

  पुरातन-नूतन-मौलिक-रूपकल्प-योजनया दाम्पत्य-प्रणयस्य समङ्कितमस्ति मनोज्ञ-चित्रं प्रणयि-गीतिकाप्रणयिनी-गीतिकाचेति गीति-युगले । पद्यमेकं प्रस्तूयते यत्र प्रणयी प्रणयिनीं प्रति स्ववचनं विविध-रूपकल्प-माध्यमेन प्रकाशयति, 
  लीला त्वम्, लोला त्वम्
   प्रणय-प्रणीत-दोला त्वम् (ध्रुवम्)
        ऋक् त्वमसि साम-शोभना,  
        ध्वने-र्मञ्जुला व्यञ्जना
        मम मर्मोद्गारस्य वा,   
        विभाविता कविता नवा
        प्रियाभिलाषा         मधुरा भाषा  
           भावाश्लिष्ट-निचोला त्वम्
           लीला त्वम्, लोला त्वम्
                  (प्रणयि-गीतिका, पृ. ५४)

   अस्माकं भारतवर्षस्य प्राकृतिक-वैभव-सौन्दर्यवर्णन-समेतं देशात्मबोधकतां दर्शयन् कविः देश-गीतिकां प्रस्तौति । अत्र लालित्य-माधुर्यपूर्ण-शब्द-संयोजनायां पद्यमेकमुदाहरण-स्वरूपम्,
        अम्बुधि-विधौत-सुमधुर-चरण-विलासा,
        गङ्गा-सलिले  सलील-सुललित-हासा
        कुसुमारामे  रसभर-सुरभि-समीरा,
        तरुवर-पुञ्जे  रञ्जित-मञ्जु-शरीरा
       विहङ्ग-ताने                 मङ्गल-गाने
              श्यामल-शस्या विजयते
         भारतमाता परम-नमस्या विजयते
       स्वतन्त्रताया                रण-वीराणां
            सफल-तपस्या विजयते  (देशगीतिका, पृ.११३

मातृगीतिकाञ्जलि- काव्योपरि  मन्तव्यानि 

    काव्यमिदं संस्कृत-साहित्ये प्रतिष्ठितानां कतिपयेषां कवि-समीक्षक-जनानां मानसं हरति, आन्तरिकं प्रमोदं सरसतां च वितरति । अस्मिन् प्रसङ्गे विदुषां मन्तव्यानि उल्लेखनीयानि । पुरी-स्थितस्य श्री-गन्नाथ-संस्कृत- विश्वविद्यालयस्य पूर्वतन-कुलपतेः प्रथित-यशसः ज्ञानपीठ-पुरस्कार-विजेतुः आचार्य-डॉ.सत्यव्रत-शास्त्रि-महाभागस्य मन्तव्यमत्र प्रणिधेयम् :
     “भवत्-प्रणीतं मातृगीतिकाञ्जलि-ग्रन्थमवापं परं तद्वाचनेन परितोषम् सरलः सरसश्च भवतां वाङ्-निष्यन्दः अतीव ललिता पद-शय्याऽर्थगौरव-संवलिता सर्वथा साधुवादार्हा भवन्त एतद्-ग्रन्थ-रत्न-प्रणयनेन भवतां सर्वविधं मङ्गलमनुध्यायन् विरमाम्यहं सुर-सरस्वती-समाराधनैकव्रतः (शास्त्री सत्यव्रतः)
   
  उत्तरप्रदेश-मैनपुरी-स्थितस्य लब्धकीर्त्तेः प्रणवइत्याख्यस्य कविवरस्य आचार्य-इच्छारामद्विवेदि-महाभागस्य मन्तव्यमेवम् : 
    “लब्धो मया तत्रभवतां मातृगीतिकाञ्जलिः भाव-सौगन्ध्य-निर्भरोऽयमञ्जलि-र्नूनमेव संस्कृत-वाङ्मय-श्रियं पुष्णातीति मे मोदावहम् राग-बद्धताऽस्याञ्जलेः परागमिवानुरागं वर्द्धयिष्यति विदुषामिति मे मतिः आगामिनि काले तत्रभवतामयं पद्य-प्रकल्पो बहुषु गीतिकाव्येषु स्वीयां वैशिष्ट्य-विच्छित्तिं प्रमाणयिष्यतीति मे द्रढ़ीयान् विश्वासः

 भुवनेश्वर-स्थितस्य  कविप्रवरस्य एस्. सुन्दरराज-महोदयस्य  मन्तव्यमित्थम् : 
     “मातृगीतिकाञ्जलि-नाम्न्याः भवदीय-गीति-कविता-पुस्तिकायाः प्रति-र्मया लब्धा, प्रीत्या प्रतिगृहीता संस्कृत-गीतिकवितायाः उत्सभूतः खलु उत्कल-प्रदेशः, यत्र महाकवि-जयदेवस्य गीतगोविन्दं यदेव संस्कृत-वाङ्मये प्रथमं गीतिकाव्यमिति वक्तुं शक्यते, तत् प्रणीतम्, भगवते श्रीजगन्नाथ-देवाय सादरं समर्पितं * भवतां संस्कृत-रचना सरला, सरसा, सालङ्कारा सुवर्णमय-मूर्त्तिश्च राराजते व्याकरणानुगुणमपि रचितमिति भवतां काव्यस्य उत्कर्षः गीतिकाव्यानि यानि आधुनिक-काले कविभिः संस्कृते विरच्यन्ते, तानि प्रायशः व्याकरण-त्रुटि-पूर्णानि एतद्-दोषमुक्तं भवतां काव्यं विशिष्य प्रशंसां, भवन्तोऽपि विशिष्य अभिनन्दनमर्हन्ति

   दिल्लीतः प्रकाशितायाः अर्वाचीन-संस्कृतम्-पत्रिकायाः मुख्य-सम्पादकस्य प्रसिद्ध-कविवर्यस्य आचार्य- डॉ. रमाकान्त-शुक्ल-महोदयस्य  मन्तव्यमपि दर्शनीयम् :
    डॉ. हरेकृष्ण-मेहेरः  मातृगीतिकाञ्जलिरिति आधुनिक-संस्कृतगीतिकाव्य-सङ्ग्रहे मात्रिक-छन्दोभिः अन्त्यानुप्रास-निर्वाह-पुरस्सरं पञ्च-विंशति-मितानि गीतानि प्रस्तौति, यानि गातुं तेन ताल-लययोरपि निर्देशो गीतान्ते कोष्ठकेषु दत्तः एतेषु गीतेषु प्रथमं गीतं वाणी-वन्दनात्मकमस्ति द्वितीयं भारतमातुर्वन्दन-परमास्ते द्वितीयस्य गीतस्य शीर्षकं मातृगीतिका वर्त्तते अस्मिन् गीते मातृ-शब्दस्य प्रयोगो विहितः कविना, यथा – ‘एक-मातुः सुताः सर्वे भ्रातृसाम्यं सत्कृतम्, विजयतां नो वन्दनीयं सुन्दरं धामामृतम्, भव्यभुवनं भारतम् । मन्ये, ग्रन्थस्य नामकरणे द्वितीया गीतिकैव हेतुः पुनश्च गीतिका मात्रा-च्छन्दोभिः प्रणीताइयमपि व्यञ्जना भवति   गीतिकासु भारत-गौरवं, नारी-महिमा, त्र्यम्बक-यजनं, गायत्री-गानं कलाकार-प्ररोचना इत्येते भावाः साक्षात्कर्त्तुं शक्यन्ते
                                              (अर्वाचीनसंस्कृतम् २४/, अक्टोब२००२).

 बिहारप्रदेशस्य आरातः प्रकाशितायाम् आरण्यकम्इति (सितम्बर-१९९९) शोध-पत्रिकायां समीक्षकवरेण डॉ.सुशील-कुमार-प्रधान-महोदयेन काव्योपरि प्रदत्तं मन्तव्यमित्थम् :
   साहित्यरचना-शोधलेख-प्रसिद्ध-ग्रन्थानुवादादिषु लब्ध-ख्यातिना अर्वाचीन-संस्कृत-गीतिकारेषु अन्यतमेन हरेकृष्ण-मेहेरेण विरचितमिदं गीतिकाव्यं मातृगीतिकाञ्जलिः * *  प्रत्येकस्यां गीतिकायां नूतन-पद-रचना तथा पद-क्रमस्य  कमनीयता  सुतरां मनोहारिणी विद्यते सर्वासु गीतिषु कवेः मौलिकं चिन्तनं परिदृश्यते भावानुकारिणी भाषा सर्वथा व्याकरण-नियम-संयमिता  सन्तुलिता चास्ति प्रतिगीति अन्ते केन ताल-लयेन परिवेषणीया इति कविना सन्निर्दिष्टा तीव्रा-त्रिताल-झप-रूपक-दादराद्याःद्वारा  कवेः गीतस्य शास्त्रीय-ज्ञानं लक्ष्यते   भावे सहजता, भाषायाः प्रवाहः, पदेषु कमनीयता एतस्य गीति-काव्यस्य सहजं वैशिष्ट्यम् एवं विश्व-गीतिकया समष्टिगत-कल्याण-भावनायाः उद्रेकः सहृदय-हृदयाह्लादकरः   जीवन-गीतिकायां जीवनस्य यत् सौन्दर्यं गाम्भीर्यं प्रतिपादितं तद् विलक्षणमेव

 लब्धयशसः ओड़िआ-लेखक-समालोचकस्य डॉ. हेमन्तकुमार-दास-महोदयस्य मन्तव्यम् :
     “मातृगीतिकाञ्जलिः का भाषा-सारल्य, शब्द-गुम्फन की अपूर्व पाटवता, साङ्गीतिक माधुर्य तथा आलङ्कारिकता का सूक्ष्म शिल्प मेरे जैसे एक सामान्य पाठक को भी रस की दोला में दोलायित कर आत्मविस्मृत कर रहा है दार्शनिकता के साथ आध्यात्मिकता का कलात्मक समन्वय  कविताओं को भाव-गम्भीर बनाता  है कविता यदि अनुभूति का आलेख्य है  तो इस काव्य में उसका रसोत्तीर्ण रूप ही देखने को मिलता है आप जात-कवि हैं कवि-कर्म के सहजात कवच-कुण्डल के साथ  आपका जन्म हुआ है देश-विदेशों में इसके मर्म की उपलब्धि करने हेतु रसज्ञ पाठकों का अभाव नहीं होगा   

 आधुनिक-कवि-कथाकारेण डॉ.बनमाली-बिश्वाल-महोदयेन त्तं मातृगीतिकाञ्जलि-गीतिकाव्योपरि मन्तव्यमेवम्
    सुकवि हरेकृष्ण मेहेर आधुनिक संस्कृत गीतिकाव्य परम्परा में अपने लिये एक स्वतन्त्र एवं मर्यादापूर्ण स्थान बनाने में सफल हैं । मातृगीतिकाञ्जलिः की रचना में उनकी शैली दूसरे कवियों की शैली से भिन्न है । इसमें वैकल्य होनेका कोई कारण नहीं  दीखता । परम्परा के आधार में उद्भावित नव्य मौलिक छन्दों के प्रयोगों से विरचित कई सुन्दर गीत इस संग्रह को विमण्डित कर रहे हैं । विभिन्न ताल एवं लययुक्त ये गीत शास्त्रीय लघुसङ्गीत शैली में सर्वथा परिवेषणयोग्य हैं । उल्लेख्य है कि कवि श्रीमेहेर स्वयं एक गीतिकार एवं स्वर-संयोजक भी हैं । मातृगीतिकाञ्जलिः की मधुर पदावली प्रसाद-गुणोपेत वैदर्भी-रीति-सम्पन्न है । जटिलता एवं दुर्बोधता से कोसों दूर इस सुमञ्जुल काव्य का भावानुकूल ललित-पदन्यास-जन्य अपूर्व चमत्कारिता, सांगीतिक माधुरी पाठकों को अनायास आकर्षित, आह्लादित एवं विमुग्ध करने में समर्थ है ।
(मितं च सारं च : हरेकृष्ण-मेहेर की मातृगीतिकाञ्जलिः/ विद्वानों की सारस्वत प्रतिक्रिया) 
   [दृक्-१७, २००७, पृ.१२९-१३१]   

आधुनिक-संस्कृत-साहित्ये प्रख्यात-यशसः कवि-समीक्षकस्य डॉ.हर्षदेव-माधवस्य मन्तव्यमीदृशम् :
    “आधुनिक-संस्कृत-वाङ्मये गीतिकाव्यानां सर्जनं लब्ध-प्रतिष्ठमधुना डॉ. राजेन्द्रमिश्र-श्रीनिवासरथ- हरिदत्तशर्मा- राधावल्लभत्रिपाठी-पुष्पादीक्षित- रमाकान्त-शुक्ल- हर्षदेवमाधव- भास्कराचार्य-त्रिपाठी- इच्छारामद्विवेदी इत्यादिभिः प्रमुखैः संस्कृतकविभिः नवनवोन्मेषयुक्ता गीतयो रच्यन्ते श्रीहरेकृष्णमेहेरोऽपि नवगीति-रचनानिपुणः सङ्गीतज्ञः सुकविः पञ्चविंशति-गीति-रचनालङ्कृतोऽयं मातृगीतिकाञ्जलिः इत्याख्यः काव्य-सङ्ग्रहो केवलं नव-नवीनेषु विषयेषु बद्धानि गीतानि प्रस्तौति, अपितु  वाचकानां मनांसि जयति अत्र भक्ति-श्रद्धा-प्रणय-पूजा-साहित्य-साहित्यकार-स्तुति- विश्व-नारी-जीवनादिषु मधुर-मधुरेषु भावेषु कवेरभिव्यक्तिः स्वभाव-कोमला रसप्रवाह-माधुरीमयी भवति तरला प्रवाहिता कवित्वं स्पन्दते तस्य सरलासु शब्दावलीषु क्वचित् चिन्तनमपि स्फुरति   यथा

सञ्चर धर्मे कर्मणि योगे,
किञ्चनापि मणि-काञ्चन-योगे,
    कुरु नव-नवमुद्भावनम्,
जीवनं सुन्दरं सुन्दरं तनु-तपोवनम् 
कविना गीति-रचनासु सङ्गीत-तत्त्वमपि संरक्षितम्  
    (नखदर्पणः, पृ. ५६-५७)  

सौन्दर्य-विवेचनम्  :
  सौन्दर्य-सन्दर्शनम् इति काव्ये कविना हरेकृष्ण-मेहेरेण सौन्दर्यस्य तत्त्वं स्वरूपं सौन्दर्यानुभूतिः, सौन्दर्यस्य अनुभवी चेत्यादयो विषयाः विशदं प्रतिपादिताः । वस्तुतः मानवस्य रुच्यनुसारमेव सौन्दर्यमनुभूयते । क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः (शिशुपालवधम्, /१७) इति माघ-कवेः उक्तिः सुविदिता । कविना  मेहेरेण   सत्यस्य   शिवस्य     च समावेशः  सुन्दरेण  सह  विहितः ।  कविः निगदति  यत्  अज्ञ-जनस्य  कृते  सौन्दर्यं रुचिकरं न भवति ।
         सत्यं शिवं सुन्दरमत्र लोके   
                     प्रसिद्धमेतत् त्रितयं विभाति   
         जानाति नित्यं खलु तत्त्वदर्शी   
                    नाज्ञाय किञ्चित् स्वदते मनोज्ञम् (सौ. .)
    
व्यक्त्यनुसारं  सौन्दर्यानुभूतिः  स्वतन्त्रा भवति इति कविः मतं पोषयति ।  मम तव अन्यस्य च नयनेषु सौन्दर्यानुभूतिः कविना वर्णितास्ति एवम्,
         मन्नेत्रयो-र्यत् प्रतिभाति सुन्दरं   
               त्वन्नेत्रयोस्तन् भवेत् तथाविधम्
        यदन्य-नेत्रे रुचिरं प्रपश्यत-  
              स्तथैव नैतन् मम ते नेत्रयोः (सौ. .)

       परन्तु किञ्चिद् भुवि वस्तु विद्यते 
                 विचित्रमेवं  रचितं विधात्रा
        यद् वै जनानां जगतां समेषां   
              नेत्राणि पश्यन्ति सदैव सुन्दरम् (सौ. .) 

 सौन्दर्यं बाह्यमाभ्यन्तरं चेति द्वि-प्रकारकं भवतीति कवेर्मतम् । अन्यत्र सौन्दर्यम्इति कवितायां कविः शब्द-स्पर्श-रूप-रस-गन्ध-माध्यमेन सौन्दर्यं प्रतिपादयति ।  यथा, नायिकायाः रूप-वर्णनाप्रसङ्गे कविः व्यतिरेकानुप्रास-प्रभृत्यलङ्कार-योजना-समेतं सपदलालित्यं  माधुर्यसमन्वितं वक्ति,
         
         नेत्र-निर्जित-नीलोत्पलायाः
          द्युति-पलायित-चपलायाः
          कान्तायाः कान्त-कुन्तलायाः
          समलङ्कृत-भूतलायाः
          विलोक्य लपनमतन्द्रो धृतम्लानिः,
          सलज्जं जलद-जाल-मध्ये
          साभिमानमात्मानं गोपायते
          वराको राकाजानिः,
          कलङ्क-लेखाङ्कित-कलेवरः
          कलितामृत-किरणोऽपि कलाकरः (सौन्दर्यम्)   
 
सामाजिक-सांस्कृतिक-विवेचनम् 

    जीवनालेख्यम् इति काव्ये जीवनस्य विविध-तत्त्वानि वर्णितानि । आधुनिकता-नाम्ना कथं विज्ञापन-प्रचारणादिकं प्रदर्शनं चलति, सारासारयोः महत्त्व-विवेचना-सहितं कविः वर्णयति  
 युगमिदं प्रदर्शनस्य,
 आत्म-डिण्डिम-वादनस्य,
 निम्न-मानस्यापि बहुमान-प्रतिपादनस्य,
 दग्धाननस्यापि प्रसाधन-लिप्त-दीप्त-वदनस्य,
 शून्य-गर्भस्यापि बाह्य-पूर्णतापादनस्य
 शुष्क-वस्तुनोऽपि सरसास्वादनस्य,
 निज-दोषाच्छादनस्य जनता-प्रसादनस्य
 आधुनिकता-नाम्ना रिक्त-मानसोन्मादनस्य   
(प्रदर्शनम्), [संस्कृतमञ्जरी,अक्टोबर २००८, पृ.२२] 

अस्य काव्यस्य जीवन-सम्बन्धिनी एका पङ्क्तिः कवेः मुक्तच्छन्दसा प्रणीता इत्थम्,
  जीवनं नाम विहङ्गमः
  अवसाद-शून्याङ्गो नीड़-गृहङ्गमः,
  हृदय-व्योम्नि विहरति
  प्रसारित-पक्षः स्वलक्ष्यं प्रति,
  वितरन् मञ्जुलां गुञ्जित-काकलीं
  मधुर-रीत्या गीत्यावलीं
  समाह्लादित-स्थावर-जङ्गमः
  प्रपञ्चित-पञ्चम-स्वर-सङ्गमः (जीवनदशकम्)          
      [संस्कृतमञ्जरी, जुलाई-२००५, पृ.२२]

   भारतीय-संस्कृतौ समुद्घोषितं सत्यमेव जयते नानृतम्(मुण्डकोपनिषद्, --) । पुराणकाव्यादिषु सत्यासत्ययोः सङ्घर्षे सत्यस्य विजयः सर्वत्र प्रतिपादितो वर्त्तते । कविना हरेकृष्णमेहेरेण सत्योपरि नैकाः कविताः रचिताः । ज्योतिःस्वरूपं वह्निसमं सत्यं दर्शयन् मौनव्यञ्जना-काव्ये कविः कथयति,
     असत्यस्य विजयो मायाच्छन्नः
     सत्यमेव धर्मश्चिरन्तनः
     सर्वोपरि परिणामे
     सत्यमेव जयते द्वन्द्व-ग्रामे संग्रामे,
     जयति ज्योति-र्यथा
     निरस्त-तमःस्तोमम्,
     अधःकृतोऽपि कृशानुरूर्ध्वगामी सर्वथा
     कदापि भजते विलोमम्   (सत्यम्)  
        [लोकभाषासुश्री:, अगस्त-२००५]

   मौन-व्यञ्जना इति कवितायां कविः मौनभावस्य नीरवतायाः निगूढ़त्वं विशेषत्वं च वर्णयति उपमा-यमकानुप्रासादिभिः सार्धम् । यथा,
    कदाचित् स्वल्प-कथनेनापि
     प्रकाशतामभ्येति बह्वभिप्रायः,
     यथा व्यञ्जना-रञ्जिता अभिधा ।
     कदाचिद् वचनोच्चारणं विनापि
     आन्तरिकाशयः प्रकाशतां याति बहुधा ॥  

     कदाचिद् वाचालतयापि
     समुच्चारितै-र्बहुवचनैः
     नाभिव्यज्यते मर्म-भावना सुविशदम् ।
     तूष्णींभावोऽपि कदाचित्
     अभिव्यनक्ति मुखरताम् ।
     कदाचिद् मुख-रताऽपि मुखरता
     नीरवतां भजते
     आभ्यन्तराभिप्रायं प्रकाशयितुम् ॥    (लोकभाषासुश्रीः, फेब्रुआरी-मार्च २००६)

  सम्प्रति प्रचलितानां हाइकु-सिजो-तान्का-नामकानां विदेशीय-च्छन्दसां प्रयोगोऽपि कवि-मेहेरेण कृतोऽस्ति हासितास्या वयस्या  इति काव्ये स्वनाम्ना यथार्थ-शीर्षके । अत्र (---वर्णात्मकेन) हाइकु-नाम्ना छन्दसा रचितायाः कवितायाः एकमुदाहरणम्,  
           वामनी काया,
           विधुं लब्धुमुत्थिता,
           घर्माक्ता भ्रष्टा (वामनी)
  कवि-मेहेरेण (-----वर्णात्मकेन) तान्का-छन्दसा रचिता सामाजिक-समस्या-परका एका पङ्क्तिः प्रस्तूयते,  
             दैन्यदा वन्या
           अधन्या गृहशून्या
           द्रविण-बन्धः,
           कर्मिणां निर्मीयते
           प्रवहत्यर्थधारा   (वन्या) 

  भावना इति कवितायां भारतीय-संस्कृत्याः शाश्वत-मूल्यबोधं दर्शयन् कविः देशभक्तिं सूचयति । उदाहरण-स्वरूपम्, 
                या वैदिकैरार्यवरै-र्महस्वती  
                    मनीषिभिः सत्प्रतिभां वितन्वती
              प्रकीर्त्तिता विश्वजनीन-दर्शना  
                    मान्यैव सा मानवतेति भावना  

              उदात्त-कण्ठै-र्भुवि विश्वबन्धुता  
                     विधीयते या नितरां जनै-र्नुता
              महानुभावा महनीय-चेतना   
                     सनातनी सैव विभाति भावना
                               (भावना)   [संस्कृतमञ्जरी, १०/, २०००]

   जातीय-संहति-प्रतिष्ठार्थं कविः मतं पोषयति यत् भारतस्य निवासिनः केवलं नागरिकाः न भवेयुः, अपितु भारतीय-भाव-सम्पन्नाः सन्तः मातृभूमिं प्रति भक्त्तिपराः स्युः । कवि-र्वदति,
              किं चेष्टकै-र्बहुधनैरुपलैः श्रिया वा
                       नात्मीयता यदि गृहे परिवार-भावा
              किं देश-नागरिकता कुरुते धृतासना
                       नेष्टा यदि स्वहृदि राष्ट्रियतेति भावना ?  (सूक्ति-कस्तूरिका)

   जनेषु परस्परमविश्वासं  पारिवारिक-शान्तिभङ्गं नारी-निर्यातनं दुर्बलानामुपरि दुष्कर्मात्याचारादिकं च वीक्ष्य कविः साम्प्रतिक- समाजस्य प्रदूषितं कलुषितं पर्यावरणं सूचयति । दुःशासनादि-चरित्राणां कुकर्माणि दृश्यन्ते, कृष्णादयः रक्षकाः न लभ्यन्ते इति सखेदं कथयति
     अद्यापि विद्यन्ते मन्थराः
     दाशरथये दर्शयितुं काननस्य पन्थानम्
     कैकेय्यो विवेकिनस्तत्पराः
     हन्त अर्हन्ति बहुमान-स्थानम्

     अद्यापि भ्रमन्ति रावणाः
     बहु-वैदेही-हरण-प्रवणाः
     कुर्वन्ति द्रुतमुपद्रवं जयद्रथाः
     पर-दारापहरणार्थं समारूढ़-रथाः

     बाष्पपूर्णाश्चतुष्पद्यः
     अद्यापि खिद्यन्ते समुपद्रुता द्रौपद्यः
     शरव्या दुःशासनानाम्
     केश-कर्षण-धर्षण-लालसानाम्
     भीष्मास्तु तूष्णीकृत-वर्ष्माणो ह्यनुष्णाः
      अपेक्षन्ते कदा रक्षिष्यन्ति श्रीकृष्णाः   
                       (अन्धानुसन्धानम्)  [संस्कृतमञ्जरी, अप्रेल्-२००७]

   कविः मातृगीतिकाञ्जलिःइति काव्ये नारी लक्ष्मीरूपिणी, देवीस्वरूपा सुगृहिणी, प्रेम-स्नेह-ममतामयी इति नारी-गीतिकायां नारी-गौरवं प्रशंसति । परन्तु अन्यत्र खलनायिका-भूतायाः नार्याः निष्ठुरतां प्रति स्वरमुत्तोल्य आक्षिपति । साम्प्रतिक-समाजे यौतुक-धनलोलुपैः निर्दय-श्वश्रूगणैः निर्मम-निपीड़िताः वधूजनाः करुणपरिणतिं लभन्ते इति कविः नारीणां दुर्दशां वर्णयति । यथा
       नारी एव नारीणां हन्त्री
       कम्पते यया शम्पापातिन्या लोक-हृदय-तन्त्री
       परिणय-वेदिकायां युवत्यः
       यौतुक-ज्वालायामार्जववत्यः
       वलीभवन्ति विवाहिताः
       तयैव सपारुष्यं बहुदूर-वाहिताः ॥(महिला(दृक्, अङ्क-११, २०१२,, पृ. १००)

  पुनश्च साम्प्रतिक-समाजे राजनीतिक-स्थितिं जनतायाः निरीहत्वं च दर्शयन् कविः भ्रष्टाचार-दूरीकरणार्थं जन-जागरणमेव महौषधमिति मतं पोषयति महौषधम्इति कवितायाम् । यथा, 
         घोटाला-घोटकाः सत्वरं
        
धावन्ति प्रशस्त-राजमार्गे,
        
धूली-धूमावृतं कृत्वा चत्वरं
        
प्रखर-खुरोत्क्षेपणैः पश्चाद्भागे 

         दुर्नयो मारात्मक-व्याधीभूय प्रतिक्षेत्रम्
        
शनैःशनैः खादति देश-गात्रम्,
        
चेष्टते  नितरां  राष्ट्रस्य
         पङ्गुत्वं विधातुं  गणतन्त्राङ्गेषु ।
        
 वराकी जनता    जानाति
         मुद्रित-नेत्रा  केवलं  दृष्टिं दधाति ॥

         जन-जागरणमेव महौषधम्
        
कर्त्तुं भ्रष्टाचार-व्याधि-वधम् ।
        
संस्कार-समुच्चार एव महामन्त्रः
         
सुसञ्चालित-जनतन्त्र-यन्त्रः ॥  
                      (महौषधम्) [अर्वाचीनसंस्कृतम्, अप्रेल-२००४]

    पुष्पाञ्जलि-विचित्रा इति काव्ये मेहेर-कवेः नाना-रुचि-सम्पन्नानां पद्यानां गीतीनां च वैचित्र्यं लक्ष्यते । अत्र आदौ भारत्याः भारतीय-संस्कृत्याश्च गौरवं प्रशंसन् कविः प्रस्तौति स्वमौलिकच्छन्दसा प्रणीतं गीतम् । 
    विजयतेतराम् ओंकार-भारती,
     संस्कार-भारती
     शुचि-वर्णम्, अन्तःकरणम्,  
     भुवि भव्या प्रतिभा विभास्वती (ध्रुवम्)

 भारतीयं साहित्य-शिल्प-स्थापत्यादिकं भौगोलिकं सांस्कृतिकं महत्त्वं च प्रख्यापयन् कविः देशात्मबोधकत्वं वर्णयति
   संहति-सूत्रा भारत-पुत्रा मैत्री-भरणे,
   शान्ति-भावना धार्या नियतं पर्यावरणे
        मातृ-पदे,   मङ्गलास्पदे,
   प्रणति-र्नो नितरां भक्तिमती
विजयतेतराम् ओंकार-भारती, संस्कार-भारती     (संस्कृति-गीतिका) [पद्यबन्धा, अङ्क-]

   कविना मेहेरेण  स्वीय-मौलिक-नव्यच्छन्दसा प्रणीतं  पर्यावरण-परकं  हृद्यं पद्यमेकं प्रस्तूयते, 
          शान्ति-मन्त्रो जयतु नितरां  सौम्य-गाने,
          प्रेम-गङ्गा वहतु सुजला ऐक्य-ताने ।
           *
          भातु पर्यावरणममलं दिग्-विताने,
           यातु हिंसा ध्वंसमचिरं सन्निधाने ।
                 अवतु पवनो  मुक्त-गगनं
                 स्वच्छ-परिमल-धौत-सदनं
               दूषणानां  पर्व यातु पराहतम् ।
           प्रीति-मैत्री-बोधना    हार्दिकी  सद्भावना
                 हन्तु सर्वं  वैर-वर्वर-पर्वतम्,
              भातु  सत्यं  सुन्दरं  शिव-सम्मतम् ।
              शाश्वतम्,  प्रकृति-मानव-सङ्गतम् ॥  (पर्यावरण-गीतिका)

  अन्या एका कविता कुहू-कुहू-कूजनम्इति अत्र उल्लेखमर्हति प्रेम-परका पिक-वसन्त-तारुण्य-प्रकाशिका । कविः प्रस्तौति
     कोकिलस्य कुहू-कुहू-कूजनम् ।
    
किं निसर्ग-देव-मन्त्र-पूजनम्  (ध्रुवम्)
     राग-रङ्ग-मङ्गला  शोभते शुभाङ्गना,
    
भाव-वीचि-चञ्चला  काञ्चनी वरानना ।
    
एहि  रे  !   धेहि  रे  !
    
मानिनी-जनस्य मान-भञ्जनम् ।
    
कोकिलस्य कुहू-कुहू-कूजनम् ॥   (कुहू-कुहू-कूजनम्)  (संगीत, जून् २००५)

  पुष्पाञ्जलि-विचित्रा- काव्यात् एका गलज्जलिका (गजल-गीतिः) प्रियमिलनम्इति प्रणय-परका उदाहरणीया । नायिका-मुखेन मिलन-विरह-विषयं कविः रागानुकूलं प्रस्तौति । यथा

   प्रिय-मिलनं यदा भवेन् नूनं मे
   स्वर्भुवनं प्रतीयते न्यूनं मे ()
   शशि-विरहे कुमुद्वती नो फुल्ला,
   स्वं हृदयं प्रियं विना दूनं मे
   पिक-विरुते सुमञ्जुलं सञ्जातम्,
   ह्री-सहितं विमोहितं मौनं मे  (प्रिय-मिलनम्) [संगीत, सितम्बर-२००४]

  कविः ओड़िशायाः  ऐतिह्यं गौरवं च मधुरं व्यनक्ति  उत्कलीय-सत्कला इति काव्ये । तस्य मधुर-ललितं पद्यमेकम्,
                   शिल्प-कल्पना- स्पन्दित-मन्दिर-माला,
                  
अनिन्द्य-रूपा  वन्दित-सुन्दर-भाला ।
                  
निसर्ग-देव्या  रङ्ग-सुविशाल-शाला,
                  
मङ्गल-भङ्ग्या  वाङ्मय-मयूख-जाला ।
                  
मन्दाकिनीव  पुनती नाशित-मन्दा,
                  
संस्कृति-सुरुचा  सञ्चारित-मकरन्दा ।
               
वसुन्धरा सा                    सिन्धु-विलासा 
                        
स्निग्ध-बन्धना महीयताम्  ।
                 
उत्कल-जननी सत्कला-धना महीयताम् ॥  (उत्कलीय-सत्कला, १)

  हरेकृष्ण-मेहेर-कृता स्तवार्चन-स्तवकम्इति कृतिः भक्ति-प्रार्थना-वन्दनारूपाणां पद्यानां समाहार-भूता । अत्र श्रीजगन्नाथ-प्रार्थनाइति कवितायाः श्लोक-युगमित्थम्
शुभं सुभद्रा-बलभद्र-सङ्गतं   
    नमामि नाथं जगतां वरेण्यम् 
ओंकार-रूपं भुवि दारु-दैवतं   
    वेदान्त-वेद्यं महतां शरण्यम् 

मैत्रीं प्रशान्तिं सुखदां चिरन्तनं   
    तनोतु विश्वे तव नाम चिन्तनम् 
आत्मीयता-रूप-रसो महीयतां   
    प्रभो जगन्नाथ ! कृपा विधीयताम्  ॥
(संस्कृत-प्रतिभा, २३/२, २००० - २००१, साहित्य अकादेमी, नवदिल्ली)

 कवेः आयाहि दुर्गेइति कवितायाः ललित-मधुरं भावभरितं श्लोकयुग्ममेवम् : 
 आयाहि  दुर्गेवरदा महायुधा   
     हे दुष्ट-विध्वंसिनिधर्म-धारिणी ।
 गङ्गाधरार्धाङ्गि  ! निधेहि मङ्गलं  
     तवानुकम्पा  हृदयं पुनातु  नः ॥

अस्माकमन्तःकरण-प्रदूषणं  
      भस्मीकुरु त्वं तमसां निरासिनी ।
शर्वाणिसर्वाणि पवित्रय स्वयं 
      विधाय पर्यावरणं सुनिर्मलम् ॥   (बर्त्तिकाशारदीय-विशेषाङ्क, २०१२)

   उपर्युक्तेषु  उदाहरणेषु कवि-हरेकृष्णस्य साङ्गीतिकतायाः, गीतिकवितायाः, मुक्तच्छान्दस-कवितायाश्च मौलिक-परिचयः समुपलभ्यते । एतत् सर्वं दिग्दर्शनमात्रम् । सुधीभिः अन्याः कविताः अनुसन्धेयाः    

कवेः अनुवाद-वैशिष्ट्यम् :  
    
    स्वभावकवि-गङ्गाधर-मेहेर-प्रणीतस्य तपस्विनीइति प्रख्यातस्य ओड़िआ-महाकाव्यस्य हरेकृष्ण-मेहेरेण आङ्गल- हिन्दी-संस्कृत-भाषानूदितानां पुस्तकानां  प्रसारणमान्तर्जातिक-स्तरे समुपलभ्यते । अन्तर्जाल-स्थानेष्वपि सर्वं त्रयं दर्शनीयम् । वाल्मीकि-रामायणीयं सीतावनवास-विषयं समवलम्ब्य कृतमिदं महाकाव्यम् । अस्य सारतत्त्वं साहित्य-दर्पणोक्तं महाकाव्य-लक्षण-निरूपणादिकमाश्रित्य निज-भाषया संस्कृतानुवादकेन कविना एवं प्रस्तुतमस्ति,

 तपस्विनी-महाकाव्यं  स्वभावकविना कृतम्
 गङ्गाधर-मेहेरेण  रङ्गायितं सुवर्णकम्
 जानकी नायिका यत्र  श्रीराम-सहधर्मिणी
 सती-शिरोमणी साध्वी पतिव्रता तपस्विनी
 सर्गा एकादश ख्याताश्छन्दो-रागैरलङ्कृताः
 ग्रन्थाद्यं प्रार्थना-वस्तुनिर्देशात्मक-मङ्गलम्
 निर्वासनोत्तरं वृत्तं  रामपत्न्याः प्रकीर्त्तितम्
 सीतायाश्च तपश्चर्या- विभा कवेरभीप्सिता
 वाणी भावमयी स्निग्धा  प्रधानः करुणो रसः
 दर्शनीयं  निसर्गस्य  चित्रणं चात्र मञ्जुलम्
 मौलिकोद्भावना भाति  कवेरत्र स्वतन्त्रता
 सौरभं भारतीयं   सांस्कृतिकं सुसंभृतम्
 सीता-चरितमाश्रित्य  विशेषेण विनिर्मितम्
 वक्तुं हि शक्यते काव्यं  सीतायनमिति स्मृतम्  
 ओड़िआ-मूलभाषायाः  कृतः संस्कृत-भाषया
 मम काव्यानुवादोऽयं  मोदयतु सतां मनः  
     (प्राक्कथनम्, तपस्विनी, पृ. १०-११

अस्य चतुर्थ-सर्गे वाल्मीकि-मुन्याश्रमे उषा-वर्णना विशेषेण लोकप्रिया । पद्यमेकं मधुर-चोखि-रागेण रचितम् (ओड़िआ-मूलम्),
  मङ्गळे इला उषा     विकच-राजीव-दृशा
      जानकी-दर्शन-तृषा  हृदये बहि 
  कर-पल्लबे नीहार-      मुक्ता धरि उपहार 
      सतीङ्क बास बाहार  प्राङ्गणे रहि
         कळकण्ठ-कण्ठे  कहिला,
      दरशन  दि  सतिराति पाहिला   
                      (तपस्विनी, / 

      कवि-हरेकृष्ण-मेहेरस्य स्वकीय-शैल्या  संस्कृतानुवादे तत्पद्यमेवम्
     मङ्गलं समागता सौम्याङ्गना
     उषा व्याकोषारविन्द-लोचना
     वैदेही-दर्शनाभिलाषं वहन्ती स्व-हृदये,
     पल्लव-कर-द्वये
     नीहार-मौक्तिक-प्रकरोपहारं दधाना
     सती-निलय-बहिरङ्गणे विद्यमाना
     अभाषत कोकिल-कण्ठस्वना सूनरी,
     दर्शनं देहि  सतिप्रभाता विभावरी   
         (तपस्विनी, /, पृ. ९६)

   दशम-सर्गे प्रसङ्ग-क्रमेण महाकाव्यस्य करुण-प्रधानत्वं सूचितमस्ति । ओड़िआ-मूलं पद्यमेवंरूपम्,
           रस-रत्नमय  काव्य-शिखरी,  
           बिराजन्ति य़हिँ  राम-केशरी
           राबण-बारण- रकत-धार,   
           बह झर्झर  निर्झराकार
          कान्दन्ति,   सिंही कन्दरे रहि   
          दन्ति-दन्ताघात- बेदना सहि  (तपस्विनी १०/१८)    
                      
  हरेकृष्ण-मेहेरस्य संस्कृतानुवादे स्वकीय-पद-शैल्या प्रस्तुतं पद्यमिदम्,
   रस-रत्न-परिपूर्णः  काव्य-पर्वतो वर्त्तते,
   श्रीरामचन्द्र-मृगेन्द्रो यत्र विराजते
   दशकन्धर-सिन्धुरस्य रुधिर-धारा,
   प्रवहति झर्झरं निर्झरिणी
   क्रन्दति  तद्-गिरि-कन्दरागारा,
   विषह्य दन्ताबल-दन्ताघात-क्लेशं केशरिणी  
             (तपस्विनी, १०/१८, पृ. २१०) 

     अनुवादेऽपि मूलभाव-सुरक्षा-समेता स्वीय- नूतन-पद-संयोजना कवि-हरेकृष्ण-मेहेरस्य प्रतिभायाः मौलिकतां प्रतिपादयति । मुक्तच्छन्दोधारया सह पदेषु व्यवहितम् अव्यवहितं च उपधा-मिलनं नूनं प्रणिधेयमत्र महाकाव्ये । अस्य निदर्शनं प्रोक्तमुदाहरणम् । प्रबन्ध-विस्तर-भयाद् अधिकवर्णनमत्र न प्रस्तूयते ।

उपसंहारः

      कविः हरेकृष्ण-मेहेरः साम्प्रतिक-संस्कृत-वाङ्मये विशेषतः काव्य-साहित्ये स्वकीय-काव्यगुण-दृष्ट्या स्वतन्त्र-प्रतिष्ठां लभते । कवेः काव्यानां विषये आलोचनाचक्रेषु गवेषणा-ग्रन्थादिषु च चर्चा कृता उपलभ्यते । कवेः कतिपयाः कृतयः पुस्तकरूपेण प्रकाशिताः सन्ति । नैषध-महाकाव्ये दार्शनिक-प्रतिफलन-विषयकः तस्य शोध-ग्रन्थः नूनं प्रशंसार्हः ।  आधुनिके विज्ञानयुगे अन्तर्जालेषु कवेः कृतीनां लेखाः प्रसारिताश्च  विलोक्यन्ते । संस्कृतभाषायाः तस्याः साहित्ये च आधुनिक-प्रयोगप्रसार-विषयेषु कवेः हरेकृष्णस्य विशिष्टमवदानं विद्यते । तस्य काव्य-कृतिषु पारम्परिकता-सहिता आधुनिक-दृष्टिभङ्गी राजते, नूतनत्वं मौलिकत्वं च दीप्यते । प्राणिजीवनस्य विभिन्नाः समस्याः तत्समाधानादिकाः विषयाश्च  निजस्व- माधुर्यपूर्ण- मनोहारि- पदावली-माध्यमेन तस्य काव्येषु समुपन्यस्ताः । भारतीय-प्राच्यसंस्कृतेः गौरवं तेषु सम्यक् प्रतिफलितम् ।               
     कवेः हरेकृष्ण-मेहेरस्य बहुमुखी प्रतिभा नूतन-पुरातन-समन्वयेन सम्प्रसारिता लक्ष्यते । तस्य सुकुमार-भव्य-काव्य-कौशलेन कलामयी लीलावती सुरभारती सुतरां सुप्रसन्ना सुदीप्ता च भ्राजते । आधुनिक-संस्कृत-साहित्य-परिधौ तस्य मेहेर-कवेः काव्य-कविताः सफलार्थाः नितरामुपादेयाः सुधीभिः समादरणीयाश्च विभान्ति । 

* * 
 
सहायक-ग्रन्थादि-सूची :

() मातृगीतिकाञ्जलिः (आधुनिक- संस्कृत-गीतिकाव्यम्), डॉ. हरेकृष्ण-मेहेरः,    
        कलाहाण्डि लेखक कला परिषद्भवानीपाटना, १९९७.

() तपस्विनी (कवि-गङ्गाधरमेहेर-प्रणीतस्य ओड़िआ-महाकाव्यस्य सम्पूर्ण-हिन्दी-पद्यानुवादः)
        अनुवादक : डॉ. हरेकृष्ण-मेहेर,    सम्बलपुर-विश्वविद्यालय, सम्बलपुर, २०००.

() तपस्विनी (कवि-गङ्गाधरमेहेर-प्रणीतस्य ओड़िआ-महाकाव्यस्य सम्पूर्ण-संस्कृतानुवादः)
       अनुवादकडॉ. हरेकृष्ण-मेहेरः,
       परिमल-पब्लिकेशन्स्, २७/२८, शक्तिनगरम्, दिल्ली-७, २०१२.

() मातृगीतिकाञ्जलिः -भारत-भारतीर महनीय  उदात्त गान (समीक्षक: डॉ. नबकिशोर-मिश्रः
      ‘’बर्त्तिकाअप्रेल्-जून् १९९९, पृ. ५०१-५०८. दशरथपुर, याजपुर, ओड़िशा.

() तपस्विनी महाकाव्यम् : हरेकृष्ण-मेहेर   (समीक्षक: डॉ. नबकिशोर-मिश्रः) ‘’बर्त्तिका
      दशहरा-बिशेषाङ्क, अक्टोबर-डिसेम्बर  २०१२, पृ. १४५०-१४५४, याजपुर, ओड़िशा

() आधुनिकता एवं समीक्षा : कुछ अपनी बातें (लेख: डॉ. हरेकृष्ण-मेहेर)
       दृक् अङ्क-११, २०१२,  दृग्-भारती, योजना-, इलाहाबाद. 

() अन्धानुसन्धानम् (हरेकृष्ण-मेहेरः), संस्कृत-मञ्जरी, अप्रैल्-जून् २००७
       दिल्ली संस्कृत अकादेमी,  नवदिल्ली-

() प्रदर्शनम् (डॉ. हरेकृष्ण-मेहेरः) संस्कृत-मञ्जरी, अक्तूबर-दिसम्बर २००८पृ.२२-२४,
      दिल्ली संस्कृत अकादेमी, नवदिल्ली-

() जीवन-दशकम्  (डॉ. हरेकृष्ण-मेहेरः), संस्कृतमञ्जरी, /, जुलाई-सितम्बर २००५
       पृ.२२-२६, दिल्ली संस्कृत अकादेमी.   

(१०) सत्यम्(डॉ. हरेकृष्ण-मेहेरः) लोकभाषासुश्रीः अगस्त-सेप्टेम्बर २००५, पुरी

(११) भावना (हरेकृष्णमेहेरः) संस्कृतमञ्जरी, १०/, भावना-विशेषाङ्कः,२०००,
        दिल्ली संस्कृत अकादेमी, नवदिल्ली-
  
(१२) महौषधम्  (हरेकृष्ण-मेहेरः)
        अर्वाचीन-संस्कृतम्, अप्रेल २००४- जनवरी २००५, देववाणी परिषद्, दिल्ली.

(१३) मौन-व्यञ्जना(डॉ. हरेकृष्ण-मेहेरः) लोकभाषासुश्रीः, फेब्रुआरी-मार्च, २००६, पुरी.

(१४) संस्कृति-गीतिका (डॉ. हरेकृष्ण-मेहेरः)
         पद्यबन्धा अङ्क-, २०१२, वीणापाणि-संस्कृत-पीठम्, भोपालम्.

(१५) वर्षा (कविवर-राधानाथराय-कृतायाः ओड़िआ-कवितायाः संस्कृतानुवादकः डॉ. हरेकृष्ण-मेहेरः)  
        लोकसुश्रीः अक्टोबर-नवेम्बर २००६, लोकभाषा-प्रचारसमितिः, पुरी

(१६) प्रियमिलनम्(डॉ. हरेकृष्ण-मेहेरःसंगीत, सितम्बर- २००४हाथरस, उत्तरप्रदेश

(१७) कुहू-कुहू-कूजनम्( डॉ. हरेकृष्ण-मेहेरः)  संगीत, जून्-२००५, संगीत कार्यालय, हाथरस

(१८) पुष्पाञ्जलि-विचित्रा,  (१९) जीवनालेख्यम्,  (२०) मौन-व्यञ्जना,
(२१) उत्कलीय-सत्कला,  (२२) सूक्ति-कस्तूरिका’,  (२३) स्तवार्चनस्तवकम्
(२४) हासितास्या वयस्या  (हरेकृष्ण-मेहेरः).
          Ref: website of Dr.Harekrishna Meher :  http://www.hkmeher.blogspot.com 

(२५)  दृक्, अङ्क-१७, २००७, इलाहाबाद. 

(२६)  ‘Matrigitikanjalih’ discussed in the article  
           “ARVACHEENA-SANSKRITA-SAHITYA- SARVEKSHANAM (1997-98)” 
          By Dr. Ramakant Shukla in ‘Arvacheena- Sanskritam’,  Vol-24/4,  Oct. 2002,
          pp. 27and 42, Devavani Parishad, Delhi. 

() Musical Notation (Swara-Lipi) of Sanskrit Lyric ‘Nava-Varsha Gitika’ (Subham Bhavatu 
          Navavarsham) from ‘Matrigitikanjalih’ Kavya.(Music composed by: Pandit H. Harendra 
          Joshi, Ratlam, Madhya Pradesh), “SANGEET”, December 1999, pp. 13-20, Hathras, U. P.

(२८)  Article Mātṛgītikāñjaliḥ –  Ᾱdhunika-Gītikāvyam’ By:  Dr. Harsh Dev Madhav 
          in  pp. 56-57  of his Sanskrit Book  “Nakha-Darpaṇaḥ” (Modern Criticism of Contemporary 
         Sanskrit Literature), Publisher:  Vani Akademi, Chandkheda, Gujarat, 2008.

() STATUS OF SANSKRIT STUDIES IN ORISSA’  By Prof. H.K.Satapathy, included in 
         ‘Sanskrit  Studies in India’, Shri Lal Bahadur Shastri Rastriya Sanskrit Vidyapeetha,
         New Delhi-9, 2001.

(३०) Essays on Modern Sanskrit Poetry’  By Dr.Rabindra Kumar Panda,
           Bharatiya Kala Prakashan, Tri Nagar, Delhi-110035, 2009.

(३१) ‘Concept of Gīti and Matrigitikanjalih-Kavya: An Observation’,
            Article By : Prof. Abhiraj Rajendra Mishra,
           ‘Śraddhā (Research Journal) Vol.II, 2011, pp. 51-60,
            Published by: Post-Graduate Department of Sanskrit,
            Gangadhar Meher Autonomous College, Sambalpur, Odisha.  

* * * 

उपाचार्यःसंस्कृत-विभागः,
गङ्गाधर-मेहेर-महाविद्यालयः, सम्बलपुरम् - ७६८००४,
ओड़िशा, भारतम्   
 = = = = = = = 

Published in the Research Journal
‘ŚRADDHĀ (ISSN 2321-273X), Vol.III-IV, 2012 and 2013,
Post-Graduate Department of Sanskrit,
Gangadhar Meher Autonomous College, Sambalpur, Odisha.  
= = = = = = =