Wednesday, September 10, 2014

Sanskrit Welcome Song ‘Swaagatika’ स्वागतिका : Dr. Harekrishna Meher

‘Swaagatikaa’  (Welcome Song) 
Sanskrit Lyrics and Tuning By :
Dr. Harekrishna Meher 
= = = = = = = = = = = = 
* स्वागतिका *  
गीति-रचना तथा स्वर-संयोजनाडॉ. हरेकृष्ण-मेहेरः 
= = = = = = = = = = = = = = 
स्वागतम्, अभिनन्दनम् ।  
गुरुजनेभ्यो वन्दनम् । 
गुरुजनेभ्यो वन्दनम्, अतिथि-जनेभ्यो वन्दनम् ।
सादरम्  अभिनन्दनम् । स्वागतम्, अभिनन्दनम् ।
सभा-जनानां      सुभाजनानां   
पदार्पणं  वै  पावनम् ।
स्वागतम्, अभिनन्दनम् ।  
स्वागतम्, अभिनन्दनम् ॥ (ध्रुवम्) 
*
सुप्रतिभायां प्रकाशते,  सुधी-सभायां विराजते ।
इदानीन्तनं  पुण्य-चिन्तनं  तत्त्व-मन्थनं  प्रशस्यते । 
शुभोपदेशं       नव-सन्देशं
कामयामहे  शोभनम् । सार-गर्भमुद्‍बोधनम्  ।
हर्षभरं दिग्‍दर्शनम् ।  स्वागतम् अभिनन्दनम् ॥ (१)
*
विद्या महसां प्रकाशिनी,  दुष्कृति-तमसां विनाशिनी ।
मण्डितासना विज्ञ-मण्डली  नव-जिज्ञासा-विकाशिनी ।
कृते समेषां     सधन्यवादं
कृतज्ञताया ज्ञापनम् । हार्द-भावना-वर्धनम्  । 
सादरम्  अभिनन्दनम् । स्निग्ध-सुमधुरं स्पन्दनम् ।
स्वागतम्  अभिनन्दनम् । भाव-सुगन्धं चन्दनम् ।
सादरम्  अभिनन्दनम् । सभाजनेभ्यो वन्दनम् ।
स्वागतम्,  अभिनन्दनम् । स्वागतम्, अभिनन्दनम् ॥ (२) 
= = = = = = = 
(इयं गीतिका कहरवा-ताल-मध्यलयेन परिवेषणीया ।) 
= = = = = = =  

(Extracted from Sanskrit Gitikavya ‘Pushpanjali-Vichitra’ 
of Dr. Harekrishna Meher) 
= = = = = =
'Pushpanjali-Vichitra' Kavya Link :
= = = = = = 

(This Welcome Song was presented by girl-students of PG Department
of Sanskrit, Gangadhar Meher Autonomous College, Sambalpur, Odisha 
in the Departmental Ceremony held on 24-8-2013) 
= = = = = =