Sunday, February 21, 2016

Kumara-Sambhava Kavya- Odia Version: Harekrishna Meher

कुमारसम्भव
मूळ संस्कृत महाकाव्य : महाकवि कालिदास
ओड़िआ पद्यानुवाद : डॉ. हरेकृष्ण-मेहेर
= = = = = = = = = = = = = = = = = = = = = = = = 

Kumāra-Sambhava 
Original Sanskrit Mahākāvya by : Poet Kālidāsa  
*
Oriya Version by : Dr. Harekrishna Meher
(Extracted from Complete Version of the Epic)
= = = = = = = = = =

(Canto-5th : Penance of Pārvatī ):  (पञ्चम-सर्ग : पार्वतीङ्क तपस्या) 
Link : 
* http://hkmeher.blogspot.com/2011/01/kumara-sambhava-canto-v-oriya-version.html  
= = = = 
Canto-V contains 3 Parts : 
= = = = = = = = = = 

Kumāra-Sambhava  (Canto-VII) (सप्तम सर्ग : शिव-पार्वती-परिणय)
(Canto-7th : Wedding Ceremony of Śiva-Pārvatī):  

= = = = = = = = = = 

* PUBLISHED in 'BARTKA' (Odia Literary Quarterly), Dasahara Special Issues, 
   Jajpur, Odisha) 
   Oriya Metrical Translations of Sanskrit Kavya 'Kumara-Sambhava' : 

= = = = = = = 

* KUMARA-SAMBHAVA (V Sarga) of Kalidasa, 2001 
* http://hkmeher.blogspot.com/2011/01/kumara-sambhava-canto-v-oriya-version.html  
* KUMARA-SAMBHAVA (VII Sarga) of Kalidasa, 2004
* KUMARA-SAMBHAVA (I Sarga) of Kalidasa, 2005 
* KUMARA-SAMBHAVA (II Sarga) of Kalidasa, 2006 
* KUMARA-SAMBHAVA (VIII Sarga) of Kalidasa, 2009. 

= = = = = = = = 

Saturday, February 20, 2016

मौन-व्यञ्जना ('Mauna-Vyanjanaa' - Sanskrit Poem)/Harekrishna Meher

'Mauna-Vyanjana' 
Sanskrit Poem By: Dr. Harekrishna Meher 
मौन-व्यञ्जना  
(संस्कृत-कविता) 
रचयिता : डॉ. हरेकृष्ण-मेहेरः 
= = = = = = = = = = = = = = = 
कदाचित् स्वल्प-कथनेनापि
प्रकाशतामभ्येति बह्वभिप्रायः,
यथा व्यञ्जना-रञ्जिता अभिधा
कदाचिद् वचनोच्चारणं विनापि
आन्तरिकाशयः प्रकाशतां याति बहुधा   

कदाचिद् वाचालतयापि
समुच्चारितै-र्बहुवचनैः
नाभिव्यज्यते मर्म-भावना सुविशदम् । 
तूष्णींभावोऽपि कदाचित्
अभिव्यनक्ति मुखरताम्
कदाचिद् मुख-रताऽपि मुखरता
नीरवतां भजते
आभ्यन्तराभिप्रायं प्रकाशयितुम्

निर्वचना भाव-भङ्गी
सृजति कदा तरङ्गं
नान्दनिकं कदा वा कारुणिकम्,
कदा विश्व-व्यापकं
कदा पारमाणविकम्,
भवतु वा क्षणिकम्
अथवा लाक्षणिकम्

प्रेम-नर्मादि-व्यापारेषु
अधरयो-र्नीरवता भवति चेत्,
नयनयोरन्तः स्फुरन्ति
सूक्ष्म-सुकुमार-वचनानि
दुःख-शोकादिष्वपि
तथैव परिलक्ष्यते 
निर्वचनाभिव्यक्तिः ॥ 

मन्दिर-पार्वत्यगुहा-प्राचीरादिषु 
नाना-कारुकला-कलितानां 
खोदितानां मूर्त्तिराजीनां 
निर्वचन-परिप्रकाशाः 
कुर्वन्ति कथालापमान्तरिकं  
दर्शक-हृदयैः सार्धम्  ।। 

निसर्गस्य विविध-विभावाः 
तरु-लता-तरङ्गिणी-सरित्पत्यादयः 
भावुकानुभविनां हृदयैः समं 
योजयन्ति निर्वचन-सम्पर्कम्  ।। 

नीरवं वचो हृदयङ्गमं कर्त्तुं
सामर्थ्यमान्तरिकमपेक्ष्यते
संस्कार-सम्पन्नम्
अन्यथा सर्वाभिव्यक्तिः
सुप्रकाशितापि भजते वैफल्यम्

नीरवताया अपि भाषाऽस्ति,
कोऽपि शिक्षयति वा शास्ति
ब्रवीति नीरवता
कदा हृदयस्य गोपनीय-कथाम्
अन्तःस्थलस्य सुप्त-व्यथाम्
यया भाव्यते सहृदयस्य भाववत्ता
* * *

(Published in “Lokabhāshā-Sushrih”, Febrary-March 2006, 
 Lokabhasha Prachar Samiti,  Puri.)
 = = = = = = = =


Sanskrit Poem 'Asram Ajasram' (Tears Immense)/Harekrishna Meher

Asram Ajasram 
Sanskrit Poem By: Dr. Harekrishna Meher 
*
अस्रमजस्रम्  (संस्कृत-कविता) 
रचयिता : डॉ. हरेकृष्ण-मेहेरः 
= = = = = = = = = = = = = = = = 
यत्र यत्र न्यायोपरि दृश्यते
अन्यायस्य सामयिकोऽपि ग्रासः, 
अधर्मस्य धर्मोपरि निक्षिप्तः सन्त्रासः,
असत्यस्य सत्योपरि प्रहारात्मकःप्रासः,   
अकारणमन्तर्देशो जायते
शङ्कित-भावोच्छ्वासः,
तत्र तत्र सहृदयानां नयन-द्वयम्
विमुञ्चति  धीराश्रु-रयम्,
दुर्भावनान्दोलितं जायते हृदयम्,
अज्ञाताशङ्कया सभयं सविस्मयम् 
वहति करुण-धारा निरर्गलम्,
भवति चित्तं धैर्य-च्युतं भीति-विह्वलम्  

यत्र यत्र न्यायस्य विजयो दृश्यते,
श्रूयतेसमनुभूयते पठ्यते ज्ञायते, 
तत्र तत्र भवति नूनम् 
सत्यस्य स्वरूपं गहनम्
उन्मोचितम्प्रकाशितम्,  
विशदीकृतम्प्रतिष्ठितम् 

तत् तद् दृष्ट्वा श्रुत्वा
समनुभूय पठित्वा ज्ञात्वावा
सहृदय-जनानां नयन-युगलम्
आन्तर-भाव-तरलम् 
युगपत्  सञ्जायते लोतक-परिषिक्तम्
अनिर्वचनीय-रसाप्लुतम् 

हृद्देशो जायते समङ्कितात्म-विश्वासः
प्रसन्नतायाःसन्निवासः 
मानसं जायते समुच्छलम्
परमानन्द-सबलम्  

किं भवति तत् सत्यस्य रहस्यम् ?
किं तन् न्यायस्य सामञ्जस्यम् ?
किं तद् धर्मस्य सारस्यम् ?
किं वा सचेतसां सांमनस्यम् ?

एतल्लोतक-तल्लोतकयोर्मध्ये
परस्पर-भाव-वैविध्ये
केनावबुध्यते पार्थक्यम् ,
रसग्राहिणां समास्वादनैक्यम् ?

* * * 

Sanskrit Poem 'Abalaa Mahabalaa' अबला महाबला/ Dr. Harekrishna Meher

'Abalaa Mahabalaa' (Sanskrit Poem) 
By: Dr. Harekrishna Meher
*
अबला महाबला (संस्कृत-कविता) 
रचयिता : डॉ. हरेकृष्ण-मेहेरः 
= = = = = = = = = = = = = = = = 
समाकर्षति सर्वतो धृत-माया
या विमोहयति यति-जन-चित्तम्,
अपहरति सा कुलिश-काया
अबलाख्याऽपि सबलानां बलं सवित्तम्

असामाजिक-व्यभिचारेषु
अमानविक-गर्हित-व्यापारेषु
प्रदर्श्य बलात् प्रलोभनम्,
नारी खलु नारीं नियोजयितुं गहनम्
नात्मानं मन्यते कुण्ठिताम्,
जानाति स्वां मर्यादां विलुण्ठिताम्

चिन्तयति नात्मानं पर-व्यथा-प्रमोदिनीं
स्वपदाश्रय-विटपच्छेदिनीं
कुलङ्कषां निम्नगां
पराङ्क-भेदिनीं दुर्भगां
काल-सर्पिणीमात्म-घातिनीम्
ईर्ष्या-दर्पिणीं  दृश्य-बहुलां 
तथाकथितां जननीं महाशङ्कु-सङ्कुलां 
कन्या-भ्रूण-हननीं  स्वजाति-निपातिनीम्

विस्मरति स्वामप्रतीपाम्
सुप्रकाशित-कुल-प्रदीपाम्,
विस्मरति स्वां प्रिय-कन्याम्
स्नेहमयीं भगिनीम्,
सन्तान-वत्सलां जननीं सुधन्याम्,
जायां पत्युः सौभागिनीम्,
सुलक्षणां गृहलक्ष्मीमादर्श-स्थानीयाम्
सहानुभूतिशीलां महिलां पूजनीयाम्
ममतायाः प्रतिमां प्रियतमाम्
शक्ति-रूपिणीं देवीमनुपमाम्  । 
महाबले ! जागृहि त्वं सद्‌गुण-सम्पन्ना 
रम्या रमा स्वात्मबलं प्रपन्ना ॥
* * *  

Wednesday, February 10, 2016

'Rajaniti-Prasunam' (राजनीति-प्रसूनम्) Sanskrit Poem/Dr. Harekrishna Meher

राजनीति-प्रसूनम् (संस्कृत-कविता) 
रचयिता : डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = = = = =
राजनीति-प्रसूनं राजते सजल-स्थलम्
कदा बहु-दलं  कदा नव-दलम्
स्वीय-प्रलोभन-सौरभेण
मधुकर-निकर-प्रारम्भेण
सम्मदयति जन-मानसम्,
मतदानं स्वपक्षं कर्त्तुं निरलसम्

कदा सप्तपर्णोत्कट-गन्धेन
कृत-नेत्र-प्रतिबन्धेन
छिद्यते अन्यदल-ग्रन्थिः,
भिद्यते प्रतिपक्ष-पन्थी,
खिद्यते जनता तपस्विनी,
विद्यते प्रवञ्चन-वाक् तेजस्विनी,
स्विद्यते देश-मातृकायाः
सर्वंसहमपि सर्वाङ्गं निर्भीकायाः

अभूतपूर्वं तन्नूनम्
सर्वफलप्रसू राजनय-प्रसूनम्,
नयनानयन-विमोहनम्
शयन-परिहृत-सहनम्,
वैचित्र्य-विमण्डितम्
कदा संयुक्तं कदा विखण्डितम्

* * * 

भारतीय-युद्ध-वीराः(Bharatiya-Yuddha-Viraah : Sanskrit Poem)/ Dr.HKMeher

Bharatiya-Yuddha-Viraah 
Sanskrit Poem by : Dr. Harekrishna Meher 
*
भारतीय-युद्ध-वीराः (संस्कृत-कविता) 
रचयिता : डा. हरेकृष्ण-मेहेरः 
= = = = = = = = = = = = = = =

हे भारतीय-संग्राम-वीर-वर्गाः !
स्वीय-प्राणोत्सर्गैः समलङ्कृत-स्वर्गाः !
कृते समेषां भवतां
भारत-राष्ट्रं समवतां
भारतीया भ्रातृ-भगिनी-समुदायाः
समुच्चारित-करुण-विदायाः
प्रशंसन्ति, विलपन्ति, आलपन्ति,
गर्वमनुभवन्ति, जल्पन्ति
स्मृति-विनम्र-मस्तकाः
कृतज्ञाः स्वदेश-हित-चिन्तकाः

वैरि-सन्तप्ताया मातृभूम्याः सुरक्षार्थं
परित्यक्त-वैयक्तिक-सुख-सार्थं
अन्तक-भीतिं चिन्तयन्तः
अमृतत्वं ये प्राप्तवन्तः
जन्मदाया वसुधाया वर-सन्तानाः
शौर्य-सूर्य-रश्मि-राशिं दधानाः
भारत-मातुः  सविजय-गानम्
भवन्तो नमस्याः सुचिर-वन्द्याः ससम्मानम्

विष-कुम्भाः पयोमुखाः प्रतिवेशिनः
वर्वराचरणा  अविश्वासिनः
अन्येषामनिष्टं चिन्तयन्तः पश्चात्पदाः
निवृत्ताः भीति-त्रस्ता निरस्त-मदाः

सत्कर्त्तव्याचरणार्थं कृत-शपथाः
निर्भयं समाश्रित-मृत्यु-पथाः
मातृसेवायां भवन्त आहुतीकृतासवः
त्यक्त-रक्ता  देश-भक्त-प्रवराः सद्बन्धवः

हे जन्मभूमि-मान-धन-बोधाः
दुष्टाराति-निपातनाः
धृतायुधा अपराजेय-योधाः
सिंह-संहति-संपन्नाः !
निवेद्यन्ते भवत्कृते समेषामस्माकम्
सजलाः श्रद्धाञ्जलयः सनमोवाकम्
* * *