Monday, July 27, 2009

'Bhāratam Vibhāratam' (भारतं विभारतम्) Sanskrit Song: Dr. Harekrishna Meher

Bhāratam Vibhāratam (Sanskrit Song )
Lyrics and Tuning By : Dr. Harekrishna Meher 
(Extracted from ‘Pushpāñjali-Vichitrā’ -Kāvya)
= = = = = = = = = =

* भारतं विभारतम्   *
गीति-रचना तथा स्वर-रचना : डा. हरेकृष्ण-मेहेरः
( ‘पुष्पाञ्जलि-विचित्रा ’- काव्यतः) 
= = = = = = = = = = = = = = =
भारतं विभा-रतम्, अविरतं नमाम तम् 
देशमात्म-गौरवं चिर-नवं दधाम तम् ॥ (ध्रुवम्)
*
भारतीय-चेतना, एकता-निकेतना ।
विश्‍व-विदित-दर्शना, हृदय-दिव्य-भावना ।
शोभितं सुगर्भितं सुरभितं महाव्रतम्,
देशमात्म-गौरवं चिर-नवं दधाम तम् ॥ (१)
*
भ्रातृ-भाव-भास्वरा, बन्धुरा वसुन्धरा ।
भारती ऋतम्भरा, सम्पदां परम्परा ।
पावनं तपोवनं स्व-भुवनं समुन्नतम्,
देशमात्म-गौरवं चिर-नवं दधाम तम् ॥ (२)
*
दिग्‌-दिगन्त-नर्त्तिता, यस्य भव्य-मूर्त्तिता ।
सार-तत्त्व-कीर्त्तिता, जन-हिते प्रवर्त्तिता ।
पूजितं सभाजितं रिपुजितं नमाम तम्,
निर्भयं नुमो वयं मधुमयं दधाम तम् ।
देशमात्म-गौरवं चिर-नवं नमाम तम्,
चिर-नवं दधाम तम् ॥ (३)
* * * * *
(इयं गीतिका दादरा-ताल-मध्य-लयेन परिवेषणीया ।)
= = = = = 

Related Link :
‘Pushpanjali-Vichitra’ (Giti-Kavyam):
= = = = = 

No comments: