‘Ayaahi Devi’ : Invocation to Goddess Durga
Sanskrit Poem by : Dr. Harekrishna Meher
= = = = = = = = = =
आयाहि देवि !
रचयिता : डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = = = =
आयाहि
देवि ! जगतां परिपात्रि ! सौख्यदा
दुर्गे
! महेश्वरि ! मृगेश्वर-पृष्ठ-मण्डना ।
वन्दे
सुरम्य-चरणाम्बुजमम्बिके ! सदा
त्वं
शङ्करी भगवती हर सर्व-सङ्कटम् ॥ (१)
*
दुर्नीति-दैत्य-कबलै-र्वसुधा
मलीमसा
कात्यायनि
! प्रमथिता व्यथितास्ति नीरसा ।
तामुद्धर
त्वमिह वै शरण-प्रदायिनी
त्रायस्व
देवि ! सुतरां तुहिनाद्रि-नन्दिनी ॥ (२)
*
आतङ्क-दुःख-विपदां हननी शुभङ्करी
त्वं सर्व-जीव-जगतां जननी सुधा-झरी
।
पाह्येव धर्ममखिलं शमनी दुरात्मनां
मातर्गृहाण सुमनोरचितां समर्चनाम्
॥ (३)
*
दुर्धर्ष-दानव-कुलं प्रबलं मदोद्धतं
ध्वस्तं कुरुष्व सकलं कलि-पङ्कमस्त्रिणी
।
रुद्रे ! त्वदीय-करुणा-सुरभि-र्महीयतां
विश्वोदरे त्वमसि नो दुरितापहारिणी
॥ (४)
*
शान्तिं प्रदेहि मुदितं हृदये
सुपूजिता
सद्भावना च भुवने लसतु प्रभान्विता
।
त्वां शक्ति-रूपिणि ! भुवां प्रिय-भक्त-वत्सलां
दिव्यां च नौमि महतां सुनुतां
सुमङ्गलाम् ॥ (५)
= = = = = =
(Published as Avaahani in
‘Bartikaa’, Odia Literary Quarterly,
Dasahara Special
Issue, October-December 2014, Jajpur, Odisha)
= = = = = =
Related Links :
Related Links :
Stavarchana-Stavakam (स्तवार्चन-स्तवकम्)
:
* *
*
Contributions of Dr. Harekrishna Meher to Sanskrit
Literature:
Link
:
*
Translated Kavyas by : Dr.Harekrishna Meher :
Link :
= = = =
=
Devotional Songs and Poems of Dr. Harekrishna Meher :
Link : https://hkmeher.blogspot.com/2023/01/devotional-sanskrit-songs-drharekrishna.html
= = = =
No comments:
Post a Comment