Drumah (Sanskrit Poem)
By : Dr. Harekrishna Meher
= = = = = =
द्रुमः
(संस्कृत-कविता)
रचयिता
: डॉ. हरेकृष्ण-मेहेरः
=
= = = = = = = = = = =
तमिस्र-गह्वरं भित्त्वा
क्षुद्राङ्कुर: समुत्थितः
किसलय-युगलं प्रसार्य
।
रश्मिपुञ्जं निशाम्य
विस्मितः समुल्लसितः
स बालारुण-किरणैः
स्फूर्त्ति-समुत्साह-सम्पन्नः
॥
बाल-पादपं विलोक्य तं
सश्रद्धमाकारयति बालारुणः
बन्धुत्व-स्थापनार्थम्
।
बालतरुः सादरं स्वीकरोति
आन्तरिकं दिवाकरस्याग्रहम्
॥
क्रमेण शाखाप्रशाखाः
प्रसार्य
पुष्कलः सञ्जातः पुष्पफलसम्भारैः
।
जाति-धर्म-वर्ण-वयो-लिङ्गादि-निर्विशेषेण
सर्वजनमात्मीयं विचार्य
श्रान्तेभ्यो मार्गचारिभ्यश्च
प्रदाय शीतलं छायाश्रयं
स नूनमनुभवति परितृप्तिम्
॥
मधुरं पुष्प-सौरभं वितरन्
प्राणिनामन्तःकरणं मोदयन्,
क्षुधितानां कृते मृदुल-पत्राणि
सरसानि फलानि च प्रदाय
स धन्यं मन्यते स्वात्मानम्
॥
प्रसृमर-शाखा-प्रशाखा-समुदाये
विरचित-नीड़ानां बाह्यागतानां
च
विहङ्गानां बहुविधानां
हृदयानन्दि-काकली-कलस्वनैः
स मुखरिताङ्गः संवृत्तः
॥
वसुन्धरायाः सुगन्धैः
विह्वलतामलभत
तस्य पादपस्य मानसम्
।
नभसः दिव्यभासा प्रशान्त्या
तस्य प्राणाः पुलकिताः
।
वात्या-ग्रीष्म-वर्षादिकं
प्राणिगणानां प्रहारादिकं
च
समस्तं विषह्य तेन कदाचन
न कृतः कोऽप्यभियोगः
॥
प्राणिनां रोग-निवारणार्थं
समुचित-स्वास्थ्य-रक्षणार्थं
निरामय-सौख्यमय-जीवनार्थं
भेषज-प्रस्तुति-निमित्तम्
सर्वाङ्गमामूलचूलमुत्सर्गीकृत्य
स सेवा-परायणः सम्प्रीतः
॥
जनानां निवास-निर्माणादि-प्रसङ्गे
विविध-सांसारिक-व्यापारेषु
नैसर्गिक-पर्यावरण-सन्तुलन-विधौ
स्वात्मानं निःस्वार्थं
विनियोज्य
सञ्जातः परोपकारस्य
अनन्य-प्रतीकः ।
प्रतिदानं कदापि कस्मादपि
नाभिलषति स्वार्थपर-संसारे
॥
निर्वचनो विनम्रः प्रतिमुहूर्त्तं
स्वकर्त्तव्यं ध्यात्वा
निरतं
स्वकर-पत्र-शाखाबाहाभिः
विश्वस्रष्टारं प्रजापतिं
प्रति
हार्दिकमाभारं प्रकाशयति
स्वजीवनं कृतकृत्यं
सार्थकमिति ॥
= = = = = = = = =