Car Festival of Lord Jagannatha:
Mahaprabhu-Sri-Jagannathasya Ratha-Yatra:
Sanskrit
Article by Dr. Harekrishna Meher
* * *
महाप्रभु-श्रीजगन्नाथस्य रथयात्रा
* डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = =
* डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = =
‘महाम्भोधेस्तीरे कनक-रुचिरे नील-शिखरे
वसन् प्रासादान्तः सहज-बलभद्रेण बलिना ।
सुभद्रा-मध्यस्थः सकल-सुर-सेवावसरदो
जगन्नाथः स्वामी नयन-पथगामी भवतु मे ॥’ (श्रीजगन्नाथाष्टकम्,३)
भारतवर्षे ओड़िशा-राज्यस्य विश्वविश्रुते परम-पावने पुरुषोत्तम-क्षेत्रे
पुरी-नगर्यां श्रीमन्दिरे दारुब्रह्म-विग्रह-रूपेण महाप्रभुः श्रीजगन्नाथः, अग्रजेन
श्रीबलभद्रेण, कनिष्ठ-भगिन्या देव्या सुभद्रया च साकं सुदर्शन-चक्र-समेतं रत्नसिंहासन-समासीनः
भक्तजनैः समाराधितो विराजते । एते चत्वारः दारुविग्रहाः चतुर्धा-मूर्त्तयः इति कथिताः
। ब्रह्मपुराण-स्कन्दपुराणादिषु श्रीजगन्नाथ-माहात्म्यं सविस्तरं प्रतिपादितमस्ति ।
इतिहास-कथादिभिः ज्ञायते यत् पुराकाले विष्णुभक्तेन अवन्ती-नरपतिना इन्द्रद्युम्नेन
दक्षिण-महोदधि-तटे पुर्यां श्रीजगन्नाथ-मन्दिरं विनिर्मितम् । तस्य धर्मपत्नी आसीत्
महाराज्ञी गुण्डिचा । तया निर्मितं मन्दिरं तस्याः नाम्ना एव गुण्डिचा-मन्दिरम् इति
विख्यातम् । परम्परायां राज्ञी गुण्डिचा श्रीजगन्नाथादीनां ‘मातृष्वसा’ इति निगद्यते
। तद् मन्दिरं श्रीजगन्नाथस्य जन्मस्थलमिति प्रथितमस्ति । रथारूढ़ाः दारुदेवाः
विविधां मानवीयां लीलां विधाय श्रीमन्दिरात् मातृष्वसुः मन्दिरं गच्छन्ति, तत्र आत्मीयभाव-सत्कृताः
प्रसन्नाः सन्तः स्वमन्दिरं प्रत्यावर्त्तन्ते ।
प्रतिवर्षम् आषाढ़-शुक्लपक्षस्य
द्वितीया-तिथौ श्रीजगन्नाथस्य जगत्प्रसिद्धः नव-दिवस-व्यापी रथयात्रा-महोत्सवः महासमारोह-पूर्वकं
भक्तवृन्दैः समनुष्ठीयते । रथयात्रा ‘घोषयात्रा’ इति, ‘गुण्डिचा-यात्रा’ इति नाम्नाऽपि
प्रसिद्धिं गताऽस्ति । रथयात्रारम्भे सर्वादौ महाप्रभोः अग्रजस्य बलभद्रस्य ‘तालध्वज’-नामा
सुसज्जितो रथः पुरी-नगर्याः श्रीमन्दिर-सम्मुख-स्थिते ‘बड़दाण्डे’ अर्थात् बृहद्-मार्गे
भक्तगणैः सुप्रस्तुतैः बृहद्-रज्जुभिः समाकृष्य अग्रे चाल्यते गुण्डिचा-मन्दिरं प्रति
। एवं पश्चात् चाल्यते देवी-सुभद्रायाः ‘दर्पदलन’-नामा अथवा ‘देव-दलन’-नामा रथः । सुभद्रायाः
रथे दण्डस्वरूपः सुदर्शन-विग्रहः स्थापितो विद्यते । परिशेषे चलति श्रीजगन्नाथस्य
‘नन्दिघोष’-नामा रथः । अत्र प्रस्थानावसरेऽपि अग्रजं प्रति अग्र-गमन-रूपः सम्मानः,
मध्यवर्त्तिनीं कनिष्ठां भगिनीं प्रति स्नेहभावोऽपि व्यज्यते, स्वयं जगन्नाथस्तु अनुगामी
एव । स्वकुटुम्बेऽपि लघु-गुरुजनानां प्रति यथोचित-स्नेहादरभावः भारतीय-संस्कृत्याः
मूल्यबोध-सम्पन्नं तत्त्वम् ।
श्रीबलभद्र-सुभद्रा-जगन्नाथाः
दारुविग्रहाः स्वस्व-रथे समारूढ़ाः श्रीमन्दिरात् मातृष्वसुः मन्दिरं गच्छन्ति, रथेभ्यः
अवरुह्य तत्र आड़प-मण्डपे सिंहासनोपरि समासीनाः भवन्ति । तत्र नानाविध-सुस्वादु-भोजनादिभिः
विशेषतः ‘पोड़-पिठा’-नामकैः सुमधुर-पिष्टकैः परितृप्ताः सस्नेहं सत्कृताः आप्यायिताः
भूत्वा नवमे दिवसे आषाढ़-शुक्ल-दशमी-तिथौ स्वमन्दिरं प्रत्यावर्त्तन्ते । ओड़िआ-भाषायाम्
इयं ‘बाहुड़ा-यात्रा’ इति कथ्यते । बाहुड़ा-शब्दस्य अर्थः प्रत्यावर्त्तनम् । तदा श्रीमन्दिरे
समुपगताः दारुविग्रहाः स्वर्णवेश-विभूषिताः भवन्ति । बह्वाभरण-सम्पन्नः अयं स्वर्णवेशः
दर्शकानां भक्तजनानां महानन्द-प्रदायकः । एकादश्यां ते रत्नसिंहासनस्थाः विश्रामं शयनं
च कुर्वन्ति । सा तिथिः ‘हरि-शयनी एकादशी’ इति शास्त्रेषु सुविदिता । दारुदेवाः चतुर्मास-शयनात्
परं कार्त्तिक-शुक्लपक्षस्य एकादशी-तिथौ उत्थिताः भवन्ति । सा तिथिः ‘प्रबोधिनी एकादशी’
अथवा ‘देवोत्थान-एकादशी’ इति कथ्यते ।
रथयात्रावसरे
पुरी-गजपति-महाराजेन स्वहस्त-धृतया स्वर्ण-सम्मार्जन्या चन्दनादि-सुगन्धजल-सेचनैः सह
रथोपरि सम्मार्जनं विधीयते । ततः दारुविग्रहाः रथ-सिंहासनोपरि समधिरूढ़ाः राजन्ते
। रथस्थं वामनं दृष्ट्वा पुनर्जन्म न विद्यते इति शास्त्रवचनं लोके सुप्रसिद्धम् ।
रथयात्रायाः पञ्चदश-दिनेभ्यः प्राक् ज्येष्ठपूर्णिमा-तिथौ अनुष्ठिते स्नानयात्रावसरे
अष्टोत्तरशत-घट-जलैः स्नाताः सन्तः ज्वरग्रस्ताः भवन्ति दारुविग्रहाः । मन्दिर-वैद्यैः
आयुर्वेदिक-चिकित्सा-पद्धत्या औषधादि-सेवनात् परं ते स्वस्थाः भवन्ति । आषाढ़-शुक्लपक्षस्य
प्रतिपदायां दारुदेवानां नवयौवन-दर्शनं कुर्वन्ति भक्त-समुदायाः । ततः अन्यदिवसे द्वितीया-तिथौ
अनुष्ठीयते रथयात्रा । परंब्रह्म-स्वरूपस्य महाप्रभोः मानवायिताः लीलाः वस्तुतः बहु-वैचित्र्यमावहन्ति
। पतितपावनः इति परिचितः लक्ष्मीदेवी-कान्तः विष्णुरूपः भक्तवत्सलः श्रीजगन्नाथः अग्रजानुजाभ्यां
साकं सर्वसाधारण-जनानां दर्शन-निमित्तं प्रतिवत्सरं स्वयमेव मन्दिराद् बहिरागत्य मुक्त-व्योमतले
रथारूढ़ो विराजते । मन्दिर-परिचालकैः सेवकैः भक्तवृन्दैश्च सर्वं कार्यं यथारीति सम्पाद्यते
। रथयात्रा-दर्शनाय देश-विदेशेभ्यो लक्ष-लक्ष-जनाः पुरीनगर्यां सम्मिलिताः भवन्ति ।
धार्मिक-दृष्ट्या महाप्रभोः सन्दर्शनं तन्नाम-चिन्तन-सङ्कीर्त्तनं नितरां पावनं पापघ्नं
भवतीति इति लोकविश्वासः ।
पौराणिक-कथानुसारं
श्रीजगन्नाथः आसीत् मूलतः शबरराज-विश्वावसु-समाराधितः ‘नीलमाधव’-नाम्ना सुपरिचितः महाप्रभुः
। परवर्त्ति-काले अवन्ति-महाराजेन इन्द्रद्युम्नेन प्रतिष्ठापितः स ‘जगन्नाथः’ इति
आख्यायितः । अद्य यावत् स ‘जगन्नाथ’-नाम्ना देश-विदेशेषु सर्वत्र सम्पूज्यते । साधु-भक्त-कवि-लेखकादीनां
चित्रणे श्रीजगन्नाथः विविध-रूपान्वितः । वैष्णव-श्रीचैतन्यस्य कृते स राधावल्लभ-कृष्णरूप:,
गोस्वामि-तुलसीदासस्य कृते स सीतापति-श्रीरामरूप:, भक्त-गणपति-भट्टस्य कृते स
गजानन-रूपः । एवं विविध-देवानां समाहार-स्वरूपः स जगतां नाथः जगन्नाथः । । यवनभक्त-सालवेगस्य
स प्रिय-पूज्यः । कवि-जयदेव-कृत-गीतगोविन्द-काव्यस्य गान-श्रवणं भगवतः अत्यन्तं प्रियम्
। स उपनिषत्-प्रतिपादितः अपाणि-पादः परम-पुरुषः इति वर्ण्यते । स लीलामयः भक्तानां
भाव-दोरक-बद्धः भावग्राही, आर्त्तत्राणः, दीनबन्धुः, दयासिन्धुः, दुःखहर्त्ता सुखदाता,
प्रेम-भक्तिप्रियो भगवान् । लोकेषु परस्पर-सौहार्दस्य जातीय-संहतेः विश्वबन्धुतायाः
समन्वय-भावस्य च प्रतीकभूतः नयन-हृदयोल्लासकः पुण्यप्रदः रथयात्रा-महोत्सवः । महाप्रभोः
श्रीजगन्नाथस्य दर्शनेन आत्मानं धन्यं मन्यन्ते भक्तजनाः । सर्वोपरि विलसति विश्वास-तत्त्वम्
। विश्वासे लभ्यते हरिः, तर्के बहुदूरं तिष्ठति इति उक्तिः जनेषु लब्धप्रसरा । स विचित्रकर्मा
श्रीजगन्नाथ-देवो विजयते ।
‘मैत्रीं प्रशान्तिं सुखदां चिरन्तनम्,
तनोतु विश्वे तव नाम-चिन्तनम् ।
आत्मीयता-रूप-रसो महीयताम्,
प्रभो जगन्नाथ ! कृपा विधीयताम् ॥’ (श्रीजगन्नाथ-प्रार्थना)
= = =
= =
Related Link :
Biodata: English :
Biodata: English :
No comments:
Post a Comment