'SRIRAMA-SMARANAM' (Sanskrit Poem)
By Dr. Harekrishna Meher
========
* श्रीराम-स्मरणम् *
रचयिता : डा. हरेकृष्ण-मेहेर:
========
मध्ये शुभं भारत-पुण्यभूम्या
लसत्ययोध्या नगरी सुरम्या ।
सार्धं पवित्रा सरयू-तटिन्या
देदीप्यते राम-रसै: सुधन्या ।। (१)
*
अभूतपूर्वं भुवि राम-मन्दिरं
सुनिर्मितं भावुक-नेत्र-सुन्दरम् ।
देशे समोदे प्रतिभाति भव्यता
सर्वं च दिव्यं प्रतिभाति नव्यता ।। (२)
*
विराजते यत्र मनोsभिरामः
सौम्यः प्रभु-र्बालतनुः स रामः ।
लोके प्रसन्ने सति भाव-मग्ने
प्राणप्रतिष्ठा विहिता सुलग्ने ।। (३)
*
निर्माणे तु वैषयिकी सुविद्या
यत्र प्रयुक्ताधुनिकाभिनन्द्या ।
विश्वे समग्रेsद्भुतमस्त्यनल्पं
सगौरवं भारत-वास्तुशिल्पम् ।। (४)
*
वन्दे जगत्-पूजित-जानकीशं
यद्-राम-नाम्ना त्वघमेति नाशम् ।
अस्मिन् युगे वै कलिताप-दग्धे
भूयात् सुभद्रं हृदये प्रबोधे ।। (५)
*
अधर्म-विध्वंसन-चापधारी
धर्मस्य पाता दनुजान्तकारी ।
राजा स रामः कुविदां विदारी
त्यागस्य मूर्त्तिः कलुषापहारी ।। (६)
*
सीतापतिं दाशरथिं सलक्ष्मणं
रामं नतोsहं हृदये प्रतिक्षणम् ।
भजामि भक्त्या भरताग्रजं प्रभुं
भक्तप्रियं मारुति-सेवितं विभुम् ।। (७)
=====
Contributions of Harekrishna Meher to Sanskrit Literature :
= = = =