Sunday, July 26, 2009

मुमुक्षा - Sanskrit Poem ‘Mumukshā’ / H.K.Meher

Sanskrit Poem ‘Mumukshā’ (Desire for Freedom)  
By : Dr. Harekrishna Meher   
= = = = = = = = = = = = = = = = = = = =

मुमुक्षा (संस्कृत-कविता)
रचयिता : डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = = = = = = = = = = =

संसार-धाम्नि सुख-दुःखाभिभूताः
कदा प्रीताः कदा भीताः
कर्मफल-भोग-निमित्तं मुहुर्मुहुः
मर्त्त्यानुभूतिं लभन्ते जीवात्मानः ।
अदृष्ट-कर्म-बन्धनैः
अनिच्छयापि सर्वे समाच्छन्नाः

विषमे संसार-प्रपञ्चे
वैचित्र्यमय-रङ्ग-मञ्चे
कथञ्चिद्‍ धृत-प्राणाः
सहन्ते सुगन्ध-दुर्गन्ध-जातम्
सर्वं बन्धन-कष्ट-कण्टकम्,
तथापि चलति जीवन-यात्रा ॥

आबद्धाः केचिन् मोह-बन्धनेन
केचित् स्नेह-बन्धनेन
केचित् पुनः प्रेम-बन्धनेन
कदाचिद्‍ हेम-बन्धनेन,
केचिद् भोग-बन्धनेन
केचिद् वा रोग-बन्धनेन ॥

केचित् क्षमता-जालाबद्धाः
केचिन्ममता-मालाबद्धाः,
केचिद् भक्ति-बन्धन-युक्ताः
केचित् पुनः शक्ति-बन्धनासक्ताः ।
भाव-बन्धनात् सौख्यमय-परिवाराः
प्रतीयन्ते विषोढ़-विषय-क्लेश-भाराः ॥


अन्धीक्रियते माया-बन्धनेन सर्वं जगत्,
तथापि पार्थिव-सुखं तेनानुभूयते
मृग-तृष्णिकावत् ।
बन्धन-शृङ्‍खला सर्वथा विद्यते,
निर्बधना इव स्थातुमपि शक्यते ।
परन्तु बन्धनं नूनं चिरन्तनं
न केवलं स्वात्मनि
परत्रापि लक्ष्यते अहन्यहनि ॥

व्याध-कृत-बन्धना मृगा इव
महाकाल-जाल-बन्धनात् सन्ततं
कथं वा मुच्यन्ते प्राणिनः,
पिञ्जर-मुक्ता यथा विहङ्गमाः ।
भवन्तु नितरां भवानुरागिणः
अथवा विरसा विरागिणः,
भोक्तुं स्वाधीनताया मधु-स्वादम्
कृत-प्रयत्नाः सर्वे प्रसारित-हस्त-पादम् ॥

समस्ताः संसारिणः
धन-जन-जाया-माया-बन्ध-ग्रस्ताः
रागाशंसि-संसार-कारागारे
ऊर्मिले फेनिले नील-पारावारे
सन्तरण-तत्परा निरन्तरम्;
प्रतिक्षणं प्रतीक्ष्यते मुमुक्षा ।
सर्वं बन्धनं न दुःखदम्,
अभिशापोऽपि कदाचित्
फलति शुभाशीर्वाद-रूपेण ॥

अस्तोदिते सूर्ये वस्तुतः समस्ताः
स्वाधीना अपि पराधीनाः

अनुदिनं विद्यन्ते दीनाः
मोह-मदान्धा बधन-त्रस्ताः ।
जञ्जाल-चक्रव्यूह-मध्यात्
सक्रियं मुक्तेरन्वेषामवश्यं कुर्यात् ॥


= = =

(This Poem taken from Sanskrit Kāvya ‘Mauna-Vyañjanā’
has been published in “Lokabhāshā-Sushrīh”, Dec-2005-Jan.2006 Issue, page-5, 
of Lokabhāshā Prachār Samiti, Saradhābāli, Puri.)

* * * 

2 comments:

prerna said...

nice samajh nahi aya par acha tha jo bhi tha

sushma said...

Fresh and breezy language.