= = = = = = = = = = = = = =
सुवक्ता मौलिक-लेखकः सफलानुवादकश्च ।
ओड़िशा-राज्यस्य नूआपड़ा-जिल्लान्तर्गते सिनापालि-ग्रामे १९५६- ईसवीय-वर्षे
कवि-परम्परा-वाहिनि वंशे स लब्ध-जन्मा ।
तस्य पिता दिवंगतः कविः नारायण-भरसा-मेहेर:, माता श्रीमती सुमती देवी ।
पितामहः दिवंगतः कविः मनोहर-मेहेरः ओड़िआ-साहित्ये पश्चिम-ओड़िशायाः 'गणकवि'-रूपेण चर्चितः ।
कवेः शिक्षा :
- - - - - - - - - -
सिनापालि-उच्च-विद्यालये अध्ययन-पूर्वकम् ओड़िशायाः माध्यमिक-शिक्षापरिषदः
माट्रिकुलेशन् (१९७१, प्रथम श्रेणी);
गङ्गाधर-मेहेर-महाविद्यालये अध्ययन-पूर्वकम् सम्बलपुर-विश्वविद्यालयतः
प्राक्-विश्वविद्यालय(पी.यू.)- (१९७२) तथा बी.ए. प्रथम वर्ष कला (१९७३, प्रथम श्रेणी) ।
कटक-स्थिते रेवेन्शा-महाविद्यालये अध्ययन-पूर्वकम् उत्कल-विश्वविद्यालयात्
स्नातक-संस्कृत-सम्माने (ऑनर्स) प्रथम-श्रेणीषु प्रथमः (१९७५) ।
बनारस-हिन्दु-विश्वविद्यालयात् उपाधित्रयम् * *
एम्.ए. संस्कृते स्वर्णपदक-प्राप्त: (१९७७), पीएच्.डी. संस्कृतम् (१९८१),
डिप्लोमा-इन्-जर्मन् (१९७९) ।
बी.ए. संस्कृत-ऑनर्स-परीक्षायां सर्वोच्च-स्थानाधिकार-प्राप्ति-हेतोः रेवेन्शा-महाविद्यालयात्
जगन्नाथमिश्र-स्मारकी-पुरस्कार-प्राप्तः ।
एम्.ए.-संस्कृत-परीक्षायां सर्वोच्च-स्थान-प्राप्ति-हेतोः
बनारस-हिन्दु-विश्वविद्यालय-स्वर्णपदकम्,
श्रीकृष्णानन्द-पाण्डेय-सहारनपुर-स्वर्णपदकम्,
काशीराज-पदकं च प्राप्य पुरस्कारेण सम्मानितः ।
सारस्वत-सेवा :
- - - - - - - - - -
हरेकृष्ण-मेहेरः १९८१-वर्षे ओड़िशा-शिक्षा-सेवायां संस्कृताध्यापक-रूपेण नियुक्तः ।
बरगड़स्थ-पञ्चायत-महाविद्यालये, बालेश्वरस्थ-फकीरमोहन-महाविद्यालये,
भवानीपाटनास्थ-सर्वकारीय-महाविद्यालये च अध्यापनां कृतवान् ।
सम्बलपुर-स्थिते गङ्गाधर-मेहेर-स्वयंशासित-महाविद्यालये
स्नातकोत्तर-संस्कृत-विभागस्य वरिष्ठ-प्रवाचक-रूपेण विभागाध्यक्ष-रूपेण च
कार्यं सम्पाद्य २०१४-वर्षस्य मई-मासे सेवा-निवृत्तः ।
ओड़िआ-हिन्दी-आङ्ग्ल-संस्कृत-कोशली-भाषासु स कृतविद्यो लेखकः ।
तस्य अनुवादेषु ओड़िआ-प्रकृतिकवि-गङ्गाधरमेहेर-कृतस्य तपस्विनी-महाकाव्यस्य
संस्कृत-हिन्दी-आङ्ग्ल-पद्यानुवादाः,
भर्त्तृहरिशतकत्रय-कुमारसम्भव-ऋतुसंहार-मेघदूत-रघुवंश-नैषध(नवमसर्ग)-गीतगोविन्द-
श्रीमद्भगवद्गीतादीनां संस्कृत-ग्रन्थानाम् ओड़िआ-छन्दोबद्ध-पद्यानुवादाः,
कालिदासीय-मेघदूत-काव्यस्य कोशली-गीत-रूपान्तरं च तस्य रचना-नैपुण्यं प्रकाशयन्ति ।
राष्ट्रीय-अन्ताराष्ट्रीय-स्तरीय-पत्रपत्रिकासु तस्य शोधलेख-निबन्ध-कवितादयः प्रकाशिताः सन्ति ।
तेन विश्वसंस्कृतसम्मेलन-राज्यस्तरीय-सम्मेलनेषु शोधलेख-परिवेषण-समेतं कवि-सम्मेलनेषु
मौलिक- कविता-पठनं सक्रिय-योगदानं च कृतम् ।
आकाशवाणी-दूरदर्शनेषु तस्य लेख-परिचर्चा-कवितादयः प्रसारिताः ।
संस्कृतस्य आधुनिकीकरण-सरलीकरण-दिशासु एतस्य कवेः सारस्वतावदानमुल्लेखनीयम् ।
आधुनिक-संस्कृत-साहित्ये स्वीय-काव्यगुणैः सर्जनशील-शोधलेखैश्च
स स्वतन्त्र-स्थानमधिकरोति । पदलालित्य-समेतं सङ्गीतमयत्वम् अस्य गीतिकवेः
काव्य-रचनायाः विशेषत्वम् ।
मातृगीतिकाञ्जलिः, पुष्पाञ्जलि-विचित्रा, स्वस्तिकविताञ्जलिः, सारस्वतायनम्, सौन्दर्य-सन्दर्शनम्,
सावित्रीनाटकम्, जीवनालेख्यम्, मौनव्यञ्जना, अस्रमजस्रम्, हासितास्या वयस्या,
उत्कलीय-सत्कला, स्तवार्चन-स्तवकम्, सूक्ति-कस्तूरिका, मेहेरीय-छन्दोमाला चेत्यादीनि
तस्य संस्कृत-काव्यानि प्रबन्ध-ग्रन्थाश्च ।
अयं कविः गङ्गाधर-सम्मानः, गङ्गाधर-सारस्वत-सम्मानः,
जयकृष्णमिश्र-काव्य-सम्मानः, विद्यारत्न-प्रतिभा-सम्मान:,
अशोकचन्दन-स्मारक-सम्मान:, आचार्य-प्रफुल्लचन्द्र-राय-स्मारक-सम्मानः,
हरिप्रियामुण्ड-स्मारकी-गङ्गाधर-मेहेर-सम्मानः, ‘कोशली मेघदूत’-पुस्तकार्थं
सम्बलपुर-विश्वविद्यालय-प्रदत्तः डा.नीलमाधव-पाणिग्राही-सम्मानः,
वाचस्पति-गणेश्वर-रथ-वेदान्तालङ्कार-सम्मानः, विश्व-संस्कृत-दिवस-सम्मानः,
मानपत्र-समेतं संवर्धितः । तस्य अनेकानि पुस्तकानि प्रकाशितानि सन्ति ।
Related Links :
http://hkmeher.blogspot.in/2012/06/brief-biodata-english-dr-harekrishna.html
* Biodata: English-Hindi-Sanskrit-Odia :
https://hkmeher.blogspot.com/2022/08/biodata-english-hindi-odia-sanskrit.html
http://tapasvini-kavya.blogspot.com/2011/12/biodata-english-hindi-sanskrit-oriya-dr.html
---
Interview with Dr.Harekrishna Meher: Sanskrit Saptahiki, All India Radio, New Delhi: 12 June 2021:
http://hkmeher.blogspot.com/2021/08/interview-with-dr-harekrishna-meher-by.html
* YouTube Link : https://youtu.be/n0XPok3m-rM
Interview with Dr.Harekrishna Meher: 'Saagar' Magazine (January 2022): Scanned Odia Pages : Link : http://m.facebook.com/story.php?story_fbid=8005831109443028&id=100000486559190
* Hindi Version : हिन्दी रूपांतर : https://m.facebook.com/story.php?story_fbid=pfbid0uTawnVH5PhJ89aoG8yErqcWYgjpJhptiX5ccBX6QzcUvANoLT72B6ZZzU3zqQQSol&id=100000486559190
* Blog Link : http://hkmeher.blogspot.com/2022/08/interview-with-dr-harekrishna-meher.html
- - -
* http://hkmeher.blogspot.com/2013/04/drharekrishna-mehers-contributions-to.html
* BIODATA ODIA : NEW:
Dr. HAREKRISHNA MEHER
Retired Sr. Reader and Head,
Post-Graduate Department of Sanskrit,
Gangadhar Meher Autonomous College,
SAMBALPUR - 768004, Orissa (India)
Mobile : +91-94373-62962
e-mail : meher.hk@gmail.com
website : http://hkmeher.blogspot.com
= = = = = = = = =