Saturday, July 16, 2011

Tumaku Mu Dekhe {तुमकु मुँ देखेँ) भक्तिगीत- Oriya Script Image

Tumaku Mu Dekhe (I behold You)

[Oriya Devotional Song]

Lyrics & Tuning by : Dr. Harekrishna Meher


* * *



तुमकु मुँ देखेँ (ओड़िआ भक्ति-गीत)

गीति एवं स्वर-रचना : डॉ. हरेकृष्ण मेहेर


= = = =



* * * * *





* * * * *











Thursday, July 14, 2011

Sanskrit Tapasvini Kavya (तपस्विनी-महाकाव्यम् : एकमालोकनम्): Article by Dr.Harekrishna Meher

Original Oriya Mahakavya ‘TAPASVINI’
By : Poet Gangadhara Meher (1862-1924).
*
Complete Tri-Lingual Translations
into Hindi, English and Sanskrit languages
By : Dr. Harekrishna Meher  
= = = = = = 
‘Kavi-Gāńgādhara-Mehera-Praņītam Tapasvinī-Mahākāvyam 
Sanskrit Article by : Dr. Harekrishna Meher

(Tapasvinī-Mahākāvya of Poet Gāńgādhara-Meher : A Literary View)
[All the Sanskrit Quotations of Tapasvinī presented in this article have been taken 
from Complete Sanskrit Version of Dr. Harekrishna Meher]
= = = = = = = = = = = = = = = = = = = 


Hindi Article : Ref : 
*
English Article : Ref : 
http://hkmeher.blogspot.com/2007/08/tapasvini-of-gangadhara-meher-critical.html
= = = = = = = = = = = = = = = = = = = 

कवि-गङ्गाधरमेहेर- प्रणीतं तपस्विनी-महाकाव्यम् : एकमालोकनम्
* डॉ. हरेकृष्ण-मेहेरः    
= = = = = = = = = = = = 

॥ १ ॥ उपक्रमः :
भारतीय-साहित्यकारेषु विभात्येकः समुज्ज्वल-ज्योतिष्कः समस्तं विश्वं मधुमयममृतमयं च दर्शयन् स्वभावकविः गङ्गाधर-मेहेरः । ख्रीष्टाब्दे ९-अगष्ट-१८६२ दिनाङ्के पावन्यां श्रावणपूर्णिमायां रक्षाबन्धनवासरे ओड़िशायाः तत्कालीन-सम्बलपुर-जिल्लान्तर्गते बरपालि-ग्रामे पितुः श्रीमतश्चैतन्य-मेहेरस्य मातुः श्रीमत्याः सेवती-देव्याश्च उत्सङ्गं मण्डयन् मूर्धन्य-सारस्वत-स्रष्टायमाविर्भूतः । अनेन ओड़िआ-कविना इहलीला-संवरणं कृतं ४-अप्रेल-१९२४ दिनाङ्के चैत्रमासस्य अमावस्यायाम् । तत्प्रणीतानां कृतीनां सङ्कलनरूपा ‘गङ्गाधर-ग्रन्थावली’ ओड़िआ-वाङ्मय-गगने विराजते बहुदीप्तिमती । तस्य काव्येषु तपस्विनी, प्रणयवल्लरी, कीचक-वध, इन्दुमती, अयोध्यादृश्य, उत्कळ-लक्ष्मी, भारतीभावना, अर्घ्यथाळी, पद्मिनी, कृषक-सङ्गीत इत्यादीनि उल्लेखमर्हन्ति । तस्य ग्रन्थावली बहुबारं प्रकाशिता सती जन-समाजे समादृता चकास्ति ।

कवे-र्गङ्गाधरस्य रचनावलीं जीवनस्य बहुविध-विभावांश्चाधिकृत्य अनेकानि शोधकार्याणि सम्पन्नतां गतानि । कविना स्वीये सङ्घर्षमये जीवने मौलिक-प्रतिभायाः सुपरिचितिः प्रदत्ता । तस्य रचनासु मुख्यतो भारतीय-संस्कृतेरादर्शः सम्यक् प्रतिपादितः । रामायणीयै-र्महाभारतीयैश्च भावैस्तस्य रचनाः प्रभाविताः सन्दृश्यन्ते । परन्तु कवेः स्वतन्त्रता मौलिकता वा अनन्यरूपेण सहृदय-जनानां मनो हरति । काव्यातिरिक्तानि कविना प्रणीतानि देशात्मबोधकानि भक्ति-रसात्मकानि व्यङ्ग्यरूपाणि च बहूनि गीतानि, यानि ओड़िशायाः पुर-पल्लीष्वपि समादर-भाजनानि विद्यन्ते ।

तपस्विनी-महाकाव्यं गङ्गाधर-मेहेरस्य रचनावलीषु सर्वश्रेष्ठं विविच्यते सुधी-पाठकैः । श्रीरामचन्द्रस्य वीरगाथां वर्णयतः संस्कृतादिकाव्यस्य वाल्मीकिरामायणस्य कथावस्तु समधिकृत्य तपस्विनी स्वकीयं वैशिष्ट्यं प्रख्यापयति । वाल्मीकि-मुन्याश्रमे श्रीराम-रमण्याः महादेव्याः सीतायाः निर्वासनोत्तरं जीवनयापनं काव्यस्यास्य मुख्यो विषयः । मौलिकोद्भावनां विषयवस्तु-संयोजनां वर्णना-शैलीं शब्दच्छटां साङ्गीतिक-माधुर्यं सरसत्वं च दधानं काव्यमिदं कवे-र्गङ्गाधरस्य सर्जनशीलतायाः प्रद्योतकम् । कविना १९१४ ख्रीष्टाब्दे तपस्विनी-काव्यं प्रणीतम् । १९१५ ख्रीष्टाब्दे तस्य प्रथम-संस्करणं पुस्तकं प्रकाशितम् । अद्यावधि बहूनि संस्करणानि लभ्यन्ते ।

तपस्विनी-महाकाव्यस्य जनप्रियत्व-वर्द्धनाय मया अस्य सम्पूर्णरूपेण त्रिभाषानुवादाः कृताः सन्ति आङ्ग्ल-हिन्दी-संस्कृतभाषासु । प्रस्तुते लेखे उद्धृताः तपस्विनी-संस्कृत-पङ्क्तयो मदीयानुवादांशाः वर्त्तन्ते । १९९७ ख्रीष्टाब्दे कृतोऽस्ति मया संस्कृतानुवादः । तपस्विनी-काव्यस्य एष्वनुवादेषु त्रिषु मया रुच्यनुसारं मुक्तच्छन्दोधारया सार्धं कृतोऽस्ति व्यवहितैरव्यवहितैश्च मित्राक्षरैरुपधा-मिलनस्य व्यवहारः । अनुवादेषु रचना-शैली समुस्थापन-परिपाटी च परस्पर-सादृश्य-सम्पन्ना । एषु सर्वेषु अनुवादेषु अधिकांशतया मदीय-निजस्व-मौलिक-शब्दावली-माध्यमेन काव्यस्य मूल-तत्त्वभाव-समस्तं यथार्थं रक्षितुं कृतोऽस्ति प्रयासः । सहृदयाः पाठका एव विषयेऽस्मिन् सुविचारकाः समीक्षकाश्च । ।

॥ २ ॥ तपस्विनी-नामकरणस्य यथार्थता :
एकादश-सर्ग-संवलिते करुणरस-प्रधाने तपस्विनी-काव्येऽस्मिन् वाल्मीकिरामायणोत्तर-काण्डस्य कालिदास-प्रणीत-रघुवंश-चतुर्दशसर्गस्य भवभूति-कृतस्य उत्तररामचरित-नाटकस्य च प्रासङ्गिकः प्रभावः संलक्ष्यते । कवि-गङ्गाधरेण प्रयुक्तः ‘तपस्विनी’-शब्दो विशेषतः कालिदासीय-रघुवंशमहाकाव्यस्य चतुर्दशसर्गस्थ-श्लोकपङ्क्तितः समाहृतः । रघुवंशे प्रसङ्गानुसारं मिथ्यापवाद-व्यथितेन श्रीरामचन्द्रेण परित्यक्तापि सीता स्वीय-पतिपरायणतां व्यञ्जयन्ती लक्ष्मण-माध्यमेन स्वामिने सन्देशं निवेदयति । कवि-कालिदासस्य लेखन्यां पद्यमिदम्,
'साहं तपः सूर्य-निविष्ट-दृष्टि-
रूद्‌र्ध्वं प्रसूतेश्चरितुं यतिष्ये ।
भूयो यथा मे जननान्तरेऽपि
त्वमेव भर्त्ता न च विप्रयोगः ॥'
(रघु. १४/६६) ।

पुनः सीता निवेदयति यत् समग्रं काननाञ्चलमपि महीपतेः प्रजापालकस्य श्रीरामचन्द्रस्य विस्तृत-राज्य-परिसरान्तर्गतम्; अतः कानन-प्रदेशे निवासिनी निर्वासितापि सीता सामान्य-तपस्विवत्, न तु राज्ञीवत्, परिपालनीया इति राजकृपां याचते रघुवंशे । कवि-कालिदासस्य वर्णनायाम्, 

'नृपस्य वर्णाश्रम-पालनं यत्
स एव धर्मो मनुना प्रणीतः ।
निर्वासिताप्येवमतस्त्वयाहं
तपस्वि-सामान्यमवेक्षणीया ॥’
(रघु. १४/६७) ।

प्रसङ्गक्रमेण कविः कालिदासः स्वामिना निर्वासितायाः सीतायाः पादप-वल्कल-परिहितायाः कठोर-तपश्चर्यां वर्णयति । गर्भवती सीता स्वीय-पति-कृते उत्तराधिकारि-सन्तान-जननार्थं कलेवरं धारयति । अत्र कविः कथयति,
‘वन्येन सा वल्कलिनी शरीरं
पत्युः प्रजा-सन्ततये बभार ।’
(रघु. १४/८२) ।

कवि-गङ्गाधरेण ‘तपस्वि’-शब्दस्य स्त्रीलिङ्गे ‘तपस्विनी’ इति शब्दः व्यवहृतोऽस्ति सीतायाः कृते । तपस्विन्याः सीतायाः महनीयतां प्रतिपादयन् कविः स्पष्टं विशदयति यत् निर्वासनं स्वकीयं भाग्यदोषं विचार्य श्रीरामचन्द्रस्य प्राणप्रिया जानकी पतिभक्तिं कीदृशं दृढ़तरां समुन्नततरां च विहितवती, पुनः कानन-वसतिं पतिहित-साधिनीं तपस्यां मत्वा कीदृशं तपस्विनी-जीवनं यापितवती, एतद्-विषयाणां वर्णनं काव्यस्य प्रधानमुद्देश्यम् । तपस्विनीकाव्यस्य मुखबन्धे कविना आशा पोषितास्ति यत् पाठकाः स्वस्व-हृद्गतं सीतायाः समुज्ज्वल-निर्मल-पवित्र-चरित्र-चित्रितं स्मृति-पटं सकृत् समुद्घाट्य नारी-हृदयस्य समुन्नतिं विधास्यन्ति ।

तपस्विनी’-काव्यं सीतायाः निर्वासनोत्तरां करुण-गाथामवलम्ब्य विरचितमपि ओड़िआ-साहित्ये सम्पूर्ण-रामायणस्य लघुस्वरूपं वहति, यतः तापसी-सहचरी-सम्मुखे सीता स्वीय-वाल्य-कालादारभ्य निर्वासन-पर्यन्तं सकलां रामायणीं कथां श्रावयति । परवर्त्तिनी घटनावली काव्यस्य मुख्यं वर्ण्य-वस्तु । रामचरितस्याधारेण रामायण-नामकरणवत् प्रधानतः सीता-चरितमाधारीकृत्य प्रणीतमिदं तपस्विनी-महाकाव्यं ‘सीतायनम्’ इति वक्तुं पार्यते ।

॥ ३ ॥ विषय-वस्तु-विवेचना :
एकादश-सर्ग-संवलिते तपस्विनी-महाकाव्ये सर्गानुक्रमिका विषयाः समासतः प्रस्तूयन्ते । प्रथमे सर्गे निर्विघ्न-सफल-रचनार्थं भारतीय-काव्यपरम्परा-सम्मतं मङ्गलाचरणं विदधाति कविः सर्वादौ वरेण्य-भारतीदेव्याः समर्चना-रूपम्, यत्र भक्तिपूर्णा सारस्वती जिज्ञासा कवेर्मौलिकत्वं प्रतिपादयति । तदनन्तरं प्रसङ्गानुसारं प्रदत्तोऽस्ति विषय-निर्देशः । सीतायाः निर्वासनोत्तरं जीवनयापनमधिकृत्य काव्यं प्रणेतुकामः कविः पृच्छति,
(ओड़िआ-मूल-पद्यम् :
बालमीकि आश्रमकु धाइँअछि मन,
करिबाकु निर्बासिता सीताङ्क दर्शन ।
केमन्ते से कले जीर्ण हृदय सीबन,
काहा सङ्गे केमन्ते बा य़ापिले जीबन ?
कृपामयि ! कृपा बहि शक्ति दान कर,
पबित्र हेउ मो मन देखि, लेखि कर ॥)


मदीये संस्कृतानुवादे तदिदम् :
वाल्मीकि-मुन्याश्रमं प्रति मनः
त्वरते धावन-रतमात्मनः
दर्शनमवाप्तुं सीतायाः
सत्या निर्वासितायाः ॥


कीदृशं सा स्वयम्
असीव्यन् निजं जीर्ण-हृदयम् ?
जीवनं व्यतीतवती
कीदृशं केन साकं वा सती ?

अयि दयामयि ! त्वया
शक्ति-र्मे प्रदीयतां कृपया ।
पवित्रतामेतु मनो दर्शनं कृत्वा,
करस्तु लिखित्वा ॥
(प्रथम-सर्गः)

तदनन्तरं भागीरथी-तीरे वाल्मीकि-मुन्याश्रम-सविधे समारभते सीता-निर्वासनस्य दुःख-भरिता घटना । सजीवा प्रकृतिः प्रकाशयति जानकीं प्रति समवेदनामान्तरिकीम् । द्वितीय-सर्गे, शान्ति-राज्ञी-शासिते आश्रम-राज्ये निवसन्ती श्रीरामप्राणा असहाया वैदेही महामुनि-वाल्मीकेः पितृ-स्नेहं वृद्ध-तापस्याः अनुकम्पाभिधाया वात्सल्यं च लभते । तृतीय-सर्गे, सीता-निर्वासनानन्तरं रामचन्द्रस्य पश्चात्तापान्विताः स्वीय-राज्यशासने अनासक्तभावा: वर्णिताः ।

चतुर्थसर्गस्य उषावर्णना सर्वाधिक-जनप्रिया । कमनीया सौम्या शान्ता प्रकृतिः सीतायाः साम्राज्ञीत्वं विधाय राजकीय-सम्मानैस्तां विभूषयति । अत्र सूर्योदय-शंसिनीं देवीमुषां प्रति सीताया भक्तिः, स्रोतस्विनीं मातृरूपां तमसां प्रति पुत्री-स्नेहः, वनलक्ष्मीं प्रति सखी-प्रीत्यादि-भावाश्च मधुर-मार्मिक-रूपेण गर्भिताः । पञ्चमे सर्गे, वसन्त-समयस्य मनोज्ञचित्रेण साकं सीतां प्रति अनुकम्पायाः सदुपदेशः प्राप्यते । षष्ठे सर्गे, तापसी-सखीसम्मुखे सीता निज-वाल्यावस्थातो वनवासं यावत् समस्तां विगतां कथां वर्णयति । सप्तमे सगे स क्रम एव चलति निर्वासन-घटना-पर्यन्तम् । अष्टमे सर्गे ग्रीष्मर्तु-वर्णन-समेतं मनोरमं प्रकृतिचित्रणं सहृदय-पाठकानामन्तःकरणं मोदयति । चित्रकूटः, महानदी, गोदावरी, अयोध्या च समस्ताः सजीव-स्वरूपाः सीतायाः मानस-नेत्र-पुरतः समुपस्थिताः स्वस्व-दैन्यं समवेदनां च प्रकटयन्ति । नवमे सर्गे वर्षा-वर्णनायां प्रकृतिः सीतायाः पुत्रजन्म-शुभावसरे सानन्दोल्लासं महोत्सवं पालयति । दशमे सर्गे कुश-लवयोः सीता-सुतयोः वाल्यक्रीड़ा-शिक्षा-सङ्गीतगान-वीणावादनादिकं सुवर्णितम् ।


एकादश-सर्गे वाल्मीकि-मानसे श्रीराम-शासन-विषयिणी भावना, रामस्य उत्तराधिकारि-रूपेण यामल-कुमारयो-र्योग्यता, अश्वमेध-यागस्य शुभावसरे योगदानार्थं रामेण वाल्मीकिं प्रति निमन्त्रण-पत्र-प्रेषणमित्यादयो विषयाः दृग्गोचराः भवन्ति । महाराजं रामचन्द्रं प्रति सीतया लिखितं पत्रं सर्गस्यास्य वैशिष्ट्यमावहति । यज्ञ-वृत्तान्तं श्रुत्वा सीता राज्ञी-मर्यादामधिकृत्य मनसि चिन्तिता सञ्जायते । भारतीय-समाजे परम्परानुसारं यज्ञस्थले यजमानेन सह वामपार्श्वे यजमान-पत्न्याः समुपस्थिति-र्नितान्तमनिवार्या । पत्नी वै भवति पत्युः सहधर्मिणी ।

जानकी लोतकाप्लुत-नयना पत्रं लिखति स्वीय-प्रभुं श्रीरामचन्द्रमुद्दिश्य । मनसि तस्याः सन्दिग्ध-भावना जागर्ति यद् राजा रामचन्द्रः सम्प्रति गृहीत-द्वितीय-दार एव स्याद् यज्ञ-सम्पादन-निमित्तम् । सा द्वितीया पत्नी स्वाचरित-घोर-तपस्यायाः फल-स्वरूपं परिणयं श्रीरामेण कृतवती, अतः सात्यन्तं सौभाग्यवतीति सीताया मतम् । नूतनायाः पत्न्याः पूर्व-तपश्चर्यां शिक्षितुं वाञ्छति सीता । सा प्रच्छन्नानन्द-सागर-मग्ना भवति, यदा कुश-लवयो-र्मुखाभ्यां शृणोति यद् राज्ञा रामचन्द्रेण यज्ञ-वेदिकायां स्थापितास्ति कनक-मूर्त्तिरूपा जानकी एव सहधर्मिणी पत्नी । ततो हस्त-लिखितं पत्रं गोपयित्वा साध्वी सीता क्षमामान्तरिकीं याचते स्वामिनं रामचन्द्रम् । वाल्मीकेः सीतायाश्च सकाशात् पुत्राभ्यां रामायण-गानादि-भावि-कार्यक्रम-सम्बन्धीयाः सदुपदेशाः गृह्यन्ते । निद्रा योगमाया च सीतां निजोत्सङ्गे नेतुं तस्याः कुटीरं प्रविशतः । तदा सीता विलोकयति श्रीरामाभिषेकम् । रत्नसिंहासने विराजितस्य श्रीरामस्य धर्मपत्नी स्वयं साम्राज्ञीरूपा शोभते सीता कुश-लव-लक्ष्मण-भरत-शत्रुघ्न-समेता । ‘जय सीताराम’ इति समुच्चारेण निखिला धरणी भवति परिव्याप्ता । मङ्गलावसरेऽस्मिन् देवता-विद्याधराः सोल्लासं कुर्वन्ति तदुपरि कुसुमवर्षणम् । सम्पूर्णतामेति तपस्विनी-महाकाव्यमनया पङ्क्त्या ।
(ओड़िआ-मूल-रचना :
घरे घरे प्राणे प्राणे नगरे नगरे,
नदी-नाबे सिन्धु-पोते कन्दरे कन्दरे ।
रजनी बासरे उषा प्रदोष समये,
सुखे दुःखे धनी धनहीनर हृदये ।
उच्चारित हेउअछि ‘जय सीताराम’,
चाहिँ मुग्ध हेले सती-ललना-ललाम ॥)


मदीये संस्कृत-रूपान्तरे पद्यमिदम् :
प्रतिगृहं प्रतिप्राणं प्रतिनगरम्,
तरङ्गिणी-तरणीषु,
सरित्पति-पोत-श्रेणीषु
पुनः प्रतिकन्दरम्
दिवसे दोषायाम्
प्रदोषे चोषायाम् ,
सुखेषु दुःखेषु जनानाम्
हृदयेषु धनिनां च निर्धनानाम्,
समुच्चारः परिव्याप्तिमेति
जय सीतारामेति ।
तत् पश्यन्ती मुग्धा संवृत्ता
सीता सती-वंशावतंस-भूता ॥
(एकादशः सर्गः)

तपस्विनी-महाकाव्ये नयन-पथमवतरति सीता-निर्वासन-विषयकं दुःखाद्यं समुपस्थापनम् । ततो विषय-वर्णनायां करुण-रसस्य प्राधान्यम्, तथापि भारतीय-साहित्य-पद्धतिमाधारीकृत्य स्वभावकविना गङ्गाधरेण महाकाव्यस्य सुखान्त-परिवेषणं विहितम् । जीवनस्य मूल्यबोधं प्रति कवे-र्दृष्टिः समुज्ज्वल-गुण-सम्पन्ना प्रतिभाति, काव्य-रसस्य मधुरिमापि चकास्ति ।

॥ ४ ॥ काव्य-रचनाशैली :
गङ्गाधर-प्रणीतं तपस्विनी-काव्यं ओड़िआ-भाषा-साहित्य- परिसरे स्थानमेकमद्वितीयं लभते । भारतीय-संस्कृतौ वर्द्धितायाः सुप्रतिष्ठित-मर्यादायाः पतिव्रतायाः महिलायाः काव्य-रूपायन-समेतं साहित्योत्कर्ष-निमित्तं प्रणिनाय कविः काव्यमिदम् । तत्कालीन-साहित्यरचना-रुच्यनुसारं कविना कतिपयैः पुरातनच्छन्दोभिः सार्धं नूतन-काव्यच्छन्दोभिः काव्यं निरमायि । तपस्विन्यां समुपलभ्यन्ते कविना प्रयुक्तानि ओड़िआ-रागच्छन्दांसि नव-संख्या-मितानि । तानि चतुर्दशाक्षरवृत्त-रामकेरी-बङ्गलाश्री-चोखि-रसकुल्या-कलहंसकेदार-केदारकामोदी-नटवाणी-कल्याणपड़िताल-संज्ञकानि । काव्यस्यास्य रचना-विचारणायां ललित-पदविन्यासः, साङ्गीतिक-मधुरिमा, रस-भावगर्भकता, सारल्यम्, अर्थ-वैशद्यम्, चमत्कारिता चेत्यादीनि तत्त्वानि हरन्ति पाठक-जनानां हृदयम् । साहित्यशास्त्र-प्रतिपादिता अनुप्रासोपमा-रूपकार्थान्तरन्यासोपह्नुति-प्रमुखाः विविधाः शब्दार्थालङ्काराः प्रसङ्गानुकूलाः संयोजिताः संलोक्यन्ते ।

अत्र तपस्विनीकाव्ये समीक्षात्मक-दृष्ट्या न विद्यते शाब्दिक-जटिलता, दुर्बोधता अथवा अर्थगता लघुता । कवेर्भाषा भावानुकूला प्रत्यक्षरूपेण हृदयस्पर्शिनी समनुभूयते । भाव-व्यञ्जकता सुतरां प्राचुर्यमर्हति । प्रसादगुण-सम्पन्ना पदावली साङ्गीतिकतया अपूर्व-सरसतया च पाठक-स्वान्ते हर्षोत्कर्षं जनयति । गङ्गाधरेण प्रसङ्गानुकूलां नाटकीयां छटां प्रकटयता भावुकजन-मानसोल्लासनिमित्तं विहितोऽस्ति सफलः प्रयासः ।

कविः स्वीय-सारस्वत-साधनायाः प्रारम्भकाले ओड़िआ-साहित्यस्य रीतियुगीय-कविवरैः प्रभावितः । अलङ्कार-सम्भाराडम्बरपूर्णं तद्रीतियुगं बहूनां कवीनां आदर्शभूतमासीत् । तेनानुप्राणितः कविः सर्वप्रथममेव ‘रस-रत्नाकर’ इति काव्यं प्रणिनाय । परन्तु पश्चात् तत्कालीनं साहित्यिक-परिवेशमनुध्यायन् स आधुनिक-शैल्या काव्यानि प्रणेतुं प्रवृत्तोऽभवत् । अस्मात् कारणात् तस्य रचनासु पुरातन-नूतन-पद्धत्योः समन्वयो विशदं विलोक्यते । ओड़िशायाः प्रसिद्ध-कवि-समालोचकेन डॉ. मायाधर-मानसिंहेन कवि-गङ्गाधरः ‘क्लासिकल् स्टार्’-रूपेण, पुनः ‘ओड़िआ-साहित्यस्य लघु-कालिदास-रूपेण सप्रशंसं चित्रितः । एतद्व्यतिरिक्तं बहुभिः साहित्य-समीक्षकैः कवे-र्गङ्गाधरस्य रचनानां सुकाव्यगुणाः सादर-सम्मानं प्रख्यापिताः । नानाकाव्यगुणै-र्विभूषितं काव्यमिदं गङ्गाधरीय-प्रतिभाया ऊर्जस्वलं समुत्कृष्टं निदर्शनम् ।

॥ ५ ॥ करुण-रसस्य प्राधान्यम् :
तपस्विनीकाव्यस्य मुख्यो रसः करुणः । ओड़िआ-साहित्ये गङ्गाधरः सीताया अन्तिम-पर्यायगतां दुःखमयीं घटनां वर्णयन् मार्मिक-काव्यरूपायनं कुर्वन् भाति प्रथमः सफलः कविरेव । प्रथम-सर्गे काव्य-रचनायाः उद्देश्यं सुस्पष्टं निवेदितं दृश्यते । वाल्मीकि-मुन्याश्रमे निर्वासितायाः श्रीराम-भार्यायाः सीतायाः जीवन-यापनं कीदृशं संवृत्तमिति कविना जिज्ञासा-रूपा प्रार्थना क्रियते भारती-देवीं प्रति । सीता केन सार्धं कीदृशं निर्वासनोत्तरं जीवनं व्यतीतवती इति वर्ण्य-विषयात् करुण-रसस्य सूचना समुपलभ्यते ।

रूपक-माध्यमेन कविना तपस्विनी-काव्यस्य विषयः सुप्रतिपादितः । दशम-सर्गे गङ्गाधरो रामायणीयां करुणगाथां स्वीय-शब्दैः प्रथयन् कथयति,
[ओड़िआ-मूल-पद्यम् :
रस-रत्नमय काव्य-शिखरी,
बिराजन्ति य़हिँ राम-कॆशरी ।
राबण-बारण- रकत-धार,
बहइ झर्झर निर्झराकार ।
कान्दन्ति, सिंही कन्दरे रहि,
दन्ति-दन्ताघात-बेदना सहि ॥]


पद्यस्यास्य मदीयं संस्कृत-रूपान्तरम् :
रस-रत्न-परिपूर्णः काव्य-पर्वतो वर्त्तते
श्रीरामचन्द्र-मृगेन्द्रो यत्र विराजते ।
दशकन्धर-सिन्धुरस्य रुधिर-धारा
प्रवहति झर्झरं निर्झरिणी ।
क्रन्दति तद्-गिरि-कन्दरागारा
विषह्य दन्ताबल-दन्ताघात-क्लेशं केशरिणी ॥
(दशम-सर्गः)

वस्तुतो भारतीय-परम्परायां विविच्यते स्वीक्रियते च वाल्मीकि- मुनि-प्रणीतं रामायणमादिकाव्य-रूपेण । वाल्मीकिः शोकं करुणभावमनुभवन् कवि-र्बभूव इति प्रसिद्धिरस्ति । कानने भ्रमतः वाल्मीकेः पुरतः कामभावासक्त-क्रौञ्चविहङ्ग-मिथुन-मध्यतः निर्दयेन व्याधेन निहतोऽभवत् क्रौञ्चः । स्वामिनः क्रौञ्चस्य आसन्न-मरणं विज्ञाय क्रौञ्ची नितरां दुःखाभिभूता क्रन्दनरता संवृत्ता । एतादृशीं घटनां विलोक्य वाल्मीके-र्मनसि प्रतिक्रिया सञ्जाता । शोकाभिभूत-हृदयस्य वाल्मीके-र्मुखाद् विनिःसृता छन्दोमयी वाणी विभाति सुतरामेवंरूपा,
‘मा निषाद ! प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
यत् क्रौञ्च-मिथुनादेकमवधीः काममोहितम् ॥’ (वा. रामायणम्, १/२/१५)

कालिदासः कविः स्वीय-रघुवंशे वाल्मीकेः क्रौञ्चमरण-जनितेन शोकानुभवेन सह तन्मुख-विनिर्गतस्य श्लोकस्य माहात्म्यं दर्शयन् कथयति,
‘निषाद-बिद्धाण्डज-दर्शनोत्थः
श्लोकत्वमापद्यत यस्य शोकः ।’ (रघु. १४/७०)

काव्यस्य रसात्मकत्व-विवेचना-प्रसङ्गे ध्वनिकारः आनन्दवर्द्धनाचार्योऽपि आदिकवे-र्वाल्मीकेः क्रौञ्च-मरणज-शोकेन सह तज्जनितं श्लोकं निरूपयन् निगदति,
'काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा ।
क्रौञ्च-द्वन्द्व-वियोगोत्थः शोकः श्लोकत्वमागतः ॥’ (ध्वन्यालोकः, १/५)

नैषध-महाकाव्ये भगवतो रामावतारस्य स्तुति-प्रसङ्गे कवि-श्रीहर्षोऽपि महर्षि-वाल्मीकेः शोकजं स्फुटं श्लोकं सूचयन् वर्णयति,
'क्रौञ्च-दुःखमपि वीक्ष्य शुचा यः
श्लोकमेकमसृजत् कविराद्यः ।
स त्वदुत्थ-करुणः खलु काव्यं
श्लोक-सिन्धुमुचितं प्रबबन्ध ॥’
(नैषध. २१/७६)

समस्त-रसानां सुखमयत्व-विवेचना-प्रसङ्गे आलङ्कारिको विश्वनाथ-कविराजो मतं पोषयति यत् करुण-रसस्यापि सुखमयत्वं विद्यते; अन्यथा स्वीयं हृदयं शोकाकुलं कृत्वा न कोऽपि जनः करुणरस-प्रधानान् रामायणादि-ग्रन्थान् पठितुं प्रवृत्तः स्यात् । (साहित्यदर्पणः, ३/४-५) ।

संस्कृत-वाङ्मये भवभूतिः श्रेष्ठः कवि-नाट्यकारः, येन करुणरसः सकल-रसानामुत्सभूतः प्रतिपाद्यते । आवर्त्त-बुद्बुद-तरङ्गादि-बहुनामधारिणः एकस्यैव जलस्य स्फुटमुदाहरणं दर्शयता कविना करुणरसस्य प्राथम्यं प्रतिपादितमस्ति अनेन श्लोकेन,

'एको रसः करुण एव निमित्त-भेदाद्
भिन्नः पृथक् पृथगिवाश्रयते विवर्त्तान् ।
आवर्त्त-बुद्बुद-तरङ्गमयान् विशेषा-
नम्भो यथा सलिलमेव हि तत् समस्तम् ॥’
(उत्तररामचरितम्, ३/४७)

कवि-गङ्गाधरो भवभूति-रचनया विशेषेण प्रभावितः । भवभूतेः सीतावत् गङ्गाधरस्य सीता करुण-रसस्य मूर्त्तिमती । भवभूति-वर्णिता सीता एवंरूपा,
‘करुणस्य मूर्त्तिरथवा शरीरिणी
विरह-व्यथेव वनमेति जानकी ।’ (उत्तररामचरितम्, ३/४)

यद्यपि अन्ये शान्त-वात्सल्यादयो रसाः तपस्विनी-काव्ये प्रसङ्गवशाद् वर्णिताः, तथापि तपस्विनी-काव्यस्य प्रधानो रसः करुण एव । कवि-गङ्गाधरः काव्य-परम्परामनुसृत्य सीतायाः स्वप्नावस्थायामपि श्रीराम-राज्याभिषेकं वर्णयन् काव्यस्य सुखान्तं विदधाति । पुत्रयुगलं प्रति सीतायाः स्नेहः, सीतां प्रति तापस्या अनुकम्पायाः तमसायाः गोदावर्याश्च स्नेहादराः काव्येऽस्मिन् वात्सल्य-रसस्य परिचायकाः ।

कालिदासस्य पदानि प्रायेण लक्षणया व्यञ्जनया च रसभावादीन् विशदयन्ति । भवभूतेः पदानि इव गङ्गाधरस्य पदानि मुख्यतः अभिधा-माध्यमेन भावं प्रकाशयन्ति । गङ्गाधरस्य रचना भावातिरेकात् द्रागेव पाठकजनस्य हृदयं स्पृशति । तुलनात्मक-विचारणायामन्य-रसापेक्षया करुण-रसो वर्त्तते बहुप्रभावशाली । गङ्गाधरस्य पदावली स्वीय-भावप्राचुर्यात् पाठकानां सहृदयानां मनसि गभीरं रेखापातं करोति । विविध-सर्गाणां पठन-समये सहृदयानां नेत्राणि भाव-सिक्तानि लोतकाप्लुतानि सञ्जायन्ते । अनुभवी जन एव भवत्यस्य विषयस्य प्रमाणम् । ओड़िआ-साहित्ये सीतादेव्याश्चारित्रोत्कर्ष-प्रतिपादने कवि-गङ्गाधरो नूनमद्वितीयः सारस्वत-शिल्पी विराजते ।

॥ ६ ॥ सीता-रामयोः दाम्पत्य-प्रणयः :
सीता पद्मिनी नायिका । तपस्विनी-रूपेण सा दिव्य-गुणानां निधानभूता । कविना प्रायः समस्त-सर्गेषु सीतायाः कृते कृतोऽस्ति ‘सती’-शब्दस्य प्रयोगः । तस्या अम्लान-निष्कलङ्क-चरित्रस्य महत्त्वं सुप्रतिपादितम् । पत्यु-र्मनागपि दोषं सा कदापि न पश्यति दर्शयति वा । दृढ़ात्म-प्रत्ययेन तस्याः प्रणयो महान् गरीयांश्च विहितः । सीताया आचरणे निर्वासनेऽपि कर्मणो भाग्यस्य च महत्त्वपूर्णा भूमिका परिलक्ष्यते । गङ्गाधरस्य सीता निर्वासनं स्वकीय-भाग्यदोषं स्वीकृत्य आत्म-समीक्षणं कुरुते । कवे-र्मौलिकं चिन्तनमत्र समुल्लेखनीयम् ।

पञ्चवटी-वने ‘त्राहि लक्ष्मण !’ इति उच्चारं श्रुत्वा श्रीरामान्वेषणाय निर्दोषं लक्ष्मणं प्रति तिरस्करणम्, अशोकवाटिकायां रावण-प्रदर्शिते माया-रामस्य छिन्न-मस्तके सत्यज्ञानं कृत्वाऽपि आत्मनः प्राणधारणम्, पुनश्च अयोध्यानगरी-प्रत्त्यावर्त्तनानन्तरं पतिपद-सेवां हेयां विचार्य भागीरथी-तीरे आश्रम-दर्शनाभिलाष-पोषणम्, सम्मिलितमेतद् दोष-त्रयं जानकी-मतेन योग्य-निर्वासनस्य कारणं वर्त्तते । कालिदासस्य सीतावत् गङ्गाधरस्य सीताऽपि निर्वासनं स्वीय-दुष्कृत-फलं मत्वा, सर्वं दुःखं विषह्य, जन्मान्तरेष्वपि श्रीरामचन्द्रमेव पति-रूपेण कामयते ।

सीतां प्रति सीतापतेः श्रीरामचन्द्रस्य प्रेम उत्सर्गीकृतं नूनमनन्यम् । गृहस्थधर्म-पोषको राजा श्रीरामचन्द्रः केवलं लोकनिन्दा-कारणादेव स्वीय-सदनात् सीतां त्यक्तवान्, न हि स्वमानसात् । कवि-कालिदासोक्तिः प्रसङ्गेऽस्मिन् स्मरणीया,
‘कौलीन-भीतेन गृहान् निरस्ता
न तेन वैदेह-सुता मनस्तः ॥' (रघुवंश. १४/८४)

गङ्गाधरस्य वर्णनायां पत्नी-विरहेण शोकाकुलः श्रीरामो राजसिंहासनं तुच्छं मनुते । प्रजारञ्जन-रूपं राजधर्मं पालयितुं तेन वैयक्तिकं पारिवारिकं सुखमपि समुज्झितम् । तथापि तस्य हृदये प्राणप्रिया पद्मिनी सीता सदैव सौरभ-सम्पना विराजते । श्रीरामस्य मानस-मिलिन्दः सरस-पद्म-मकरन्दास्वादने तन्मयो वर्त्तते । तृतीये सर्गे प्रसङ्गानुसारं पत्नी-विरह-व्याकुलो जानकीजानिः श्रीरामः स्वीयमिन्द्रियगणं प्रबोधयति,
[ओड़िआ-मूल-पद्यम् :
आउ एक कथा कहुछि एकता
बान्धि तुम्भे मन सङ्गे,
चाल हृद-सरे अनन्त बासरे
बिळसिब रस-रङ्गे ।
मो प्राण-सङ्गिनी नब कमळिनी
फुटि रहिअछि तहिँ,
स्मरण-भास्कर चिर तेजस्कर
अस्त तार नाहिँ य़हिँ ॥]
  


मदीय-संस्कृत-रूपान्तरे तदिदम् :
ब्रवीमि विषयमेकमपरम्
यूयं स्वान्तेन सार्धम्
ऐक्य-बद्धाः सर्वे निर्बाधं
व्रजत हृदय-सरोवरम् ।
अशेष-दिवसान्यथ
रस-रङ्गेषु विलसिष्यथ ॥
तत्र वर्त्तते मम जीवन-सङ्गिनी
प्रफुल्ला नवीना राजीविनी,
यस्मिन् सुचिर-ज्योतिष्मान्
स्मरण-विवस्वान्
अविरतं विराजते,
कदापि नास्तं भजते ॥
(तृतीय-सर्गः)


तपस्विनी-महाकाव्ये वर्णितः श्रीरामचन्द्रो महान् आदर्शवादी प्रजावत्सलो राजा, सामाजिकः त्यागी गृहस्थः । आदर्श-पतिः श्रीरामः, आदर्श-पत्नी साध्वी पतिपरायणा सीता च युग-युगं चिरस्मरणीयत्वं पूजास्पदत्वं च लभेते । संस्कृत-नाट्यकारो भवभूतिः श्रीरामचन्द्रस्य जीवनादर्श-स्थापनार्थं स्वीये उत्तररामचरित-नाटके समुद्घोषयति,
'स्नेहं दयां च सौख्यं च यदि वा जानकीमपि ।
आराधनाय लोकस्य मुञ्चतो नास्ति मे व्यथा ॥’ (उ.रा.च. १/१२)

कवि-गङ्गाधरो भवभूति-प्रतिपादितं श्रीरामस्य राजकीयमादर्शं तपस्विनी-काव्ये वर्णयति । प्रथम-सर्गे सीता-विलाप-प्रसङ्गे श्रीरामस्य प्रतिज्ञा-रूपिणीं वाचं समुदीरयन्ती सीता कथयति,
[ओड़िआ-मूल-पद्यम् :
‘प्रकृति-रञ्जने य़ेबे हुए प्रयोजन,
करिपारेँ प्राणसमा सीता बिसर्जन ।’
अष्टावक्र मुनि आगे य़ाहा भाषिथिल,
स्मरुथिब से प्रतिज्ञा न करि शिथिळ ॥]


संस्कृत-भाषान्तरे पद्यमिदम् :
‘प्रजा-रञ्जनस्य चेत्
आवश्यकता भवेत्,
प्रभवामि परित्यक्तुं प्रियतमाम्
सीतामपि मे प्राण-समाम् ।’
अष्टावक्र-मुनेः समक्षमित्थम्
त्वया प्रतिज्ञातं वचनमवितथम् ।
सा प्रतिज्ञा तव स्मरण-धृता
भवेन् निश्चितमशिथिलीकृता ॥
(प्रथम-सर्गः)


स्वामिनः श्रीरामचन्द्रस्य पितृभक्ति-समेतां स्वीय-पतिभक्तिं दृढ़ीकृत्य सती सीता पति-मर्यादया सह 
आत्म-मर्यादामपि सुप्रतिष्ठितां करोति । विलाप-मध्ये पतिं प्रति सीता कथयति,
[ओड़िआ-मूल-पद्यम् :
पितृ-बाक्य पाळनरे तुम्भे अबिमुख,
पति-बाक्य पाळनरे न हेले मो दुःख ।
तेबे सिना तुम्भ पत्नी- पदर भाजन,
मुँ हेबि, ए कथा निश्चे बुझिब मो मन ।
परजा-रञ्जन ब्रते अट तुम्भे ब्रती,
मुँ सहधर्मिणी तुम्भ पदाङ्के मो गति ॥]
(प्रथम-सर्गः)


संस्कृत-रूपान्तरे तत् पद्यमित्थम् :
पितृ-वचन-पालनाय त्वम्
प्रपन्नोऽस्यपराङ्मुखत्वम् ।
भर्त्तृ-वचन-पालनाय सर्वथा
यदि जायते हृदि मे न व्यथा,
तदैवाहं सुविवाहा
भविष्यामि भवदीय-पत्नी-पदार्हा ।
समवगमिष्यति विषयमेतम्
मानसं मे सुनिश्चितम् ॥
व्रती त्वमन्वहम्
प्रजा-रञ्जन-व्रते ।
सहधर्मिणी तवास्म्यहम्,
त्वच्चरणाङ्के गति-र्मे वर्त्तते ॥
(प्रथम-सर्गः)


लङ्का-नगर्यां रावण-वधानन्तरं सीतां प्रति श्रीरामचन्द्रस्य दृष्टिः सन्देहपूर्णा सञ्जाता । तस्मात् कारणात् सतीत्वस्य सत्य-परीक्षण-निमित्तं सीता तत्राग्नि-परीक्षां दातुं प्रवृत्ता । पातिव्रत्य-सद्गुण-मण्डिता जानकी ज्वलने प्रवेशनार्थं यदा समुद्यता भवति, तदा स्वीयं धर्मं सम्बोधयन्ती सा निवेदयति,
[ओड़िआ-मूल-पद्यम् :
हे धर्म ! निज गुणे रह मो अङ्गे,
न डरि अनळरे पश मो सङ्गे ।
जीवने न पारिले मोते मरणे,
सेबिका करिदेब प्रभु-चरणे हे ।
मो तनु दग्ध हेले हेब त खार,
ताहाकु कराइब पादपे सार ।
से तरु-काष्ठ देइ बर्धकी-हस्ते,
कराइ देब प्रभु- पादुका मते हे ॥ ]


मदीय-संस्कृतानुवादे तत् पद्यम् :
वर्त्तस्व हे धर्म !
स्वगुणैः कलेवरे मम ।
निर्भीकः सन् साकं मया सत्वरम्
प्रविश वैश्वानरम् ॥

सम्भवेद् यदि जीवने न हि,
मम मरणानन्तरं तर्हि
सदयं विधास्यसि त्वम्
प्रभोः पद-युगले मम दासीत्वम् ॥

कृशानु-दग्धं मे शरीरकं
नूनं भविष्यति भस्मावशेष-रूपम् ।
प्रस्तुतं कारयिष्यते तदुर्वरकं
त्वया पादपानुरूपम् ।
तस्य पादपस्य काष्ठं प्रदाय
वर्धकि-कराभ्यां निर्माय
त्वया कारयिष्यते सीतेयं युगल-पादुका
प्रभु-श्रीपद-सेवा-समुत्सुका ॥
(सप्तम-सर्गः)


पतिप्राणतया पतिभक्त्या च सीता वन्दनीये समुच्चतमे महिलासने राजतेतरां समधिष्ठिता । सर्वंसहायाः वसुन्धरायाः कन्या सा त्यागस्य सहनशीलतायाश्च अद्वितीया प्रतिमा । तस्याश्चारित्रिक-समुत्कर्षस्य विशिष्टैका दिशा यत् सा निर्भीक-पवित्र-महनीय-मनोवृत्त्या स्वीय-भर्त्तरि श्रीरामचन्द्रे पूर्णतया समर्पिता वर्त्तते । कवि-लेखन्यां प्रासङ्गिकः शृङ्गारो निर्मलो माधुर्यसिक्तः सुरुचिसम्पन्नः प्रेमानन्दमयश्च वर्त्तते । षष्ठ-सर्गे वर्णितं सीतायाः कानन-कुसुमेश्वरी-रूपमेतादृशस्य समुज्ज्वल-प्रणयस्य मञ्जुलतरं निदर्शनम्, यत् सहृदयानां मनसि सात्त्विक-भावोद्रेकं विशदयति ।

मानव-समाजे धर्मसम्मत-दाम्पत्य-सुख-सम्पादनाय नारी-मर्यादा-प्रतिष्ठापनाय च कवि-गङ्गाधरस्य कृति-र्विशिष्टां भूमिकां निभालयति । नारीजातिं प्रति कवेः सारस्वतं सादरं गौरवमयं सम्मानप्रदर्शनं भारतीय-संस्कृते-र्महनीयतां पुष्णाति हार्दिक-भक्तिनिवेदन-समेतम् । मन्वाचार्य-निगदितं "यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः" इति वचनं प्रसङ्गेऽस्मिन् नूनं स्मरणीयम् । सामाजिक-परिवेशे नरं विना नारी, नारीं विना नरः, एतौ परस्पर-सहावस्थानेन सुखदुःखानां समभागमर्हतः । दाम्पत्य-जीवने नूनं पारिवारिक-सामाजिक-संहति-सम्प्रसारण-दिशासु कवेः सारस्वतमवदानं प्रशंसनीयम् ।

॥ ७ ॥ प्रकृति-चित्रणम् :
संस्कृत-वाङ्मये महाकवि-कालिदास इव, आङ्गल-वाङ्मये महाकवि-वार्ड्‌स्‌वार्थ इव, ओड़िआ-साहित्ये गङ्गाधर-मेहेरः ‘प्रकृति-कविः’ इति सुविख्यातः । विशेषतस्तस्य तपस्विन्यां प्रकृति-चित्रणमत्यन्तं मधुरं सहृदयावर्जकम् । निसर्गस्य भीम-कान्त-करुण-सौम्य-समुदार-मूर्त्तिषु सीतां प्रति स्नेह-सहानुभूतयः सरसा मर्मस्पर्शिन्यश्च वर्णिताः । प्रथमसर्गे वाल्मीक्याश्रमे परित्यक्ताया: भूपतितायाः सीतायाः दुर्दशां विलोक्य संवेदनशीला प्रकृतिः भीमरूपं वहति । यथा, कुपित-तालपादपस्य वर्णनायाम्,

[ओड़िआ-मूलपद्यम् : 
करिबाकु नियतिर सहित समर,
तृणराज खड़्‌ग-करे गर्जिला प्रखर ।
बाया-बसा-तूणीरकु झाड़ि बारम्बार,
पत्र-कङ्कपत्र कला कि अबा बाहार ॥]


मदीय-संस्कृत-भाषान्तरितं तदेवम् :
नियते-र्विरुद्धं योद्धुं तत्परः
प्रखरमगर्जत् तृणराजः करवाल-करः ।
मुहुर्मुहुः कम्पयन् बाया-कुलाय-निषङ्गकम्
बहिराकर्षदिव पर्ण-सायकम् ॥
(प्रथम-सर्गः)

द्वितीय-सर्गे महर्षि-वाल्मीकिः श्रीरामचन्द्र-निविष्ट-मानसां सीतां यदा प्रबोधयति, तस्मिन् प्रसङ्गे सागर-सङ्गमोत्सुकायाः स्रोतस्विन्याः स्वाभाविकी प्रीतिः सहृदयवेद्या समनुभूयते ।

[ओड़िआ-मूलपद्यम् :
स्रोतस्वती-गति सहज थाए सागर आशे,
लङ्घे शिळा-शैळ-सङ्कट य़ेबे बिरुद्धे आसे ।
सागर-सङ्गमे बिस्मरे सबु बिगत क्लेश,
उभय जीबने न रहे आउ प्रभेद लेश ।

बिधिबशे उठि मध्यरे य़ेबे ऊर्द्धकु भेदि,
बालि-स्तूप दिए सरित- सिन्धु-हृदय छेदि ।
सरित मरि त न पारे तार जीबन-भार,
हृदय प्रसारि रखइ होइ ह्रद आकार ॥]


मम संस्कृतानुवादे तदिदम् :
स्वत एव गति-र्भवति
स्रोतस्वत्याः पारावारं प्रति ।
लङ्घति सा शिला-शैल-सङ्कट-सकलम्
समागच्छति मार्गे यद् विरुद्धमर्गलम् ।
पूर्व-क्लेश-समस्तं विस्मर्यते
तया तोयनिधे-र्मिलने,
भेद-लेशोऽपि पुन-र्नावशिष्यते
तयोरुभयो-र्जीवने ॥


मध्ये दैववशात् समुत्थाय सपदि
ऊद्‌र्ध्वं भित्त्वा यदि
छिनत्ति बालुका-स्तूपस्तयोः
हृदयं ह्रादिनी-समुद्रयोः,
कल्लोलिनी तु न म्रियते ।
प्रियतमस्य कृते
वहति सा जीवन-भारं स्वयम्
ह्रदाकारं प्रसार्य स्वहृदयम् ॥
(द्वितीय-सर्गः)

कवि-लेखनीतः सायंकालीन-प्रकृतिचित्रणं दर्शनीयं तपस्विनी-तृतीयसर्गस्य प्रारम्भे । प्रसङ्गानुसारं 

रवि-रश्मिं प्रदोषं च काव्यशैल्या वर्णयन् कविः कथयति,

[ओड़िआ-मूलपद्यम् :
भागीरथी-कूळे लक्ष्मण य़ेकाळे
बैदेही बिसर्जि गले,
ब्यापिथिला खरा ससागरा धरा
निर्मळ अम्बर तळे ।
राघब-बधूर निर्य़्यातना सुर-
पुरकु दिशिले लज्जा,
हेब बोलि दिबा- नाथङ्क से किबा
शुभ्र य़बनिका सज्जा ।
जाणि से रहस्य करिबाकु दृश्य
भास्कर बंशर दोष,
अचिरे अबनी- पृष्ठुँ से य़बनी
उठाइ देला प्रदोष ॥]


पङ्क्तेरस्याः संस्कृत-रूपान्तरमित्थम् :
भागीरथ्यास्तीरे यदा
वैदेहीं विहाय सौमित्रि-र्गतः,
परिव्याप्य ससिन्धु-वसुन्धरामासीत् तदा
विमल-व्योम-तले द्योतो विवस्वतः ॥
त्रिदशालयेन यदि दृश्यते सा
श्रीराम-भार्याया निर्यातना पिशुना,
लज्जा भविष्यतीति विचार्य चेतसा
धवला जवनिका सज्जितेव सहस्रांशुना ॥
रहस्यमेतद् विज्ञाय
बहिर्दर्शयितुं मिहिर-वंश-दोषं विशेषेण,
उत्थापिता पृथिवी-पृष्ठादह्नाय
सा जवनिका प्रदोषेण ॥
(तृतीय-सर्गः)


चतुर्थ-सर्गस्य उषा-वर्णनायां काव्य-माधुर्यं सहृदयैः सादरमास्वादनीयम् । एतत्सर्गारम्भे रम्यं मनोज्ञं दृश्यं समवलोक्यते प्रकृतिकवे-र्लेखन्याम् ।

[ओड़िआ-मूलपद्यम् :
मङ्गळे अइला उषा बिकच-राजीब-दृशा
जानकी-दर्शन-तृषा हृदये बहि,
कर-पल्लबे नीहार- मुक्ता धरि उपहार
सतीङ्क बास-बाहार प्राङ्गणे रहि ।
कळकण्ठ-कण्ठे कहिला,
दरशन दिअ सति ! राति पाहिला ॥]


संस्कृतानुवादे प्रस्तुत-पद्यमित्थम् :
मङ्गलं समागता सौम्याङ्गना
उषा व्याकोषारविन्द-लोचना
वैदेही-दर्शनाभिलाषं वहन्ती स्वहृदये ।
पल्लव-कर-द्वये
नीहार-मौक्तिक-प्रकरोपहारं दधाना
सती-निलय-बहिरङ्गणे विद्यमाना
अभाषत कोकिल-कण्ठ-स्वना सूनरी,
‘दर्शनं देहि सति ! प्रभाता विभावरी’ ॥
(चतुर्थ-सर्गः, १)

प्राभातिके नैसर्गिक-परिवेशे परिहित-गैरिक-वसना योगेश्वरीति समुत्प्रेक्ष्यते उषा कवे-र्वर्णनायाम् । 

अत्र प्रकृत्याः सौम्य-कम्य-रूपमत्र दर्शनीयम् ।
[ओड़िआ-मूलपद्यम् :
अरुण कषाय बास कुसुम-कान्ति बिकाश
प्रशान्त रूप बिश्वास दिअन्ति मने,
केउँ य़ोगेश्वरी आसि मधुर भाषे आश्वासि
डाकुछन्ति दुःख-राशि उपशमने ।
देबा पाइँ नब जीबन,
स्वर्गुँ कि ओह्लाइछन्ति मर्त्त्य भुबन ॥]


संस्कृत-रूपान्तरे पद्यमिदम् :
अरुण-काषायाम्बरम्
स्मितं सुमनसां विकस्वरम्,
प्रशान्त-रूपं च स्वान्ते जनयन्ति प्रत्ययम् :
काऽपि योगेश्वरी तत्रागत्य स्वयम्
सुमधुर-वचनैः सान्त्वनां प्रदाय
समाकारयति दुःखराशि-प्रशमनाय ।
नवीन-जीवन-दानार्थं सा ध्रुवम्
विद्यते त्रिदिव-भुवनादवतीर्णा भुवम् ॥
(चतुर्थसर्गः, २)


प्रकृतिः सीता च परस्पर-समदुःखसुख-भागिनी । प्रायः प्रतिसर्गं प्रकृति-वर्णनं रमणीयं रोचकमेव । प्रकृत्याः सर्वे विभावाः कवे-र्लेखन्यां प्राणवन्तः सजीवाः सरसा मानवायिताश्च । चतुर्थ-सर्गस्य पुनरेकमुदाहरणं प्रस्तूयते सीतां प्रति वनलक्ष्म्याः प्रीति-समादर-वर्णनायाम् । आश्रमारामे कवि-कल्पिता वनलक्ष्मीः सखी-रूपिणीं सीतां प्रति भावपूर्णं वचनं निगदति,
[ओड़िआ-मूलपद्यम् :
य़ेतेबेळे पुष्पकरे बाहुड़िगलु पुष्करे
उभा होइ पुष्प-करे मृग-नयने,
ऊद्‌र्ध्वे चाहिँ बिषादरे तोते मयूरी-नादरे
डाकु य़े थिलि सादरे दीर्घ अयने ।
सखी-कथा स्मरि मनरे,
आसिलु कि सखि ! आजि एते दिनरे ॥]


संस्कृत-रूपान्तरे पद्यमिदम् :

समारूढ़-पुष्पक-विमाना
प्रत्यावृत्ता यदा गगनायने त्वम्,
पुष्प-करा तदाऽहं दण्डायमाना,
मृग-नयनाभ्यामूद्‌र्ध्वम्
सविषादं विलोकयन्ती,
आसं मयूरी-स्वनैस्त्वामाहूतवती
सुदीर्घ-मार्गतः सादरम् ।
वचनं सख्याः संस्मृत्य मानसे
सखि ! कृत-पदार्पणा किमद्य विद्यसे
एतावद्-दिवसानन्तरम् ?
(चतुर्थ-सर्गः, २९)

अष्टम-सर्गे कवेः कल्पना-चातुरी पाठकं सप्रणयं समाकर्षति । सीता-विरहिताया राजलक्ष्म्याः पत्रं पठति स्वयमयोध्या सीतायाः सम्मुखे एवंप्रकारेण ।

[ओड़िआ-मूलपद्यम् :
सखि ! मुँ निशा, तुहि थिलु कौमुदी,
गलु मो नेत्र-फुल्ल- कुमुद मुदि ।
तो बिना नाहिँ आउ मो सुख लेश,
धरिछि भूषा-हीना य़ोषार बेश ॥]


संस्कृत-भाषान्तरे पद्यमिदम्,
सखि ! अस्मि तमस्वती स्वयम्,
त्वमासी-र्ज्योत्स्ना ।
प्रयातवती त्वं सुदूरं
निमील्य मे विकस्वरं
नयन-कैरव-द्वयम् ।
नास्ति पुनर्मे सुख-लवोऽपि त्वां विना ।
धृतोऽस्ति मया वेशो योषितायाः
विभूषण-विरहितायाः ॥
(अष्टम-सर्गः)


पञ्चम-सर्गे वसन्त-वर्णनायाम्, अष्टम-सर्गे निदाघ-वर्णनायां च प्रकृत्याः समुज्ज्वलं चित्रमुपलभ्यते । चित्रकूट:, गोदावरी, महानदी, अयोध्या-नगरी च सीताया: मानस-नेत्र-पुरतः सजीवरूपेण व्यक्तिरूपा अवतरन्ति । दशम-सर्गे सीतायाः पुत्र-प्रसव-समये प्रकृतिः सहायतां करोति । कुमारयुगलस्य जन्मोत्सवे सम्मिलिताः भवन्ति प्रकृत्याः नैके विभावाः । अत्र प्रकृतिः समुल्लसिताकारा दृक्-पथमायाति । एतद्-व्यतिरिक्तमनेकं मनोरमं चित्रणं प्रस्तुतमस्ति तपस्विन्याम् । उपर्युक्ताः समुद्धृताः पङ्क्तयः केवलं दिग्‌दर्शन-मात्रम् ।

एकस्मिन् पक्षे मानवीय-सौन्दर्य-चित्रणार्थं कविना प्रकृते-र्नानाविभावाः समाहृताः, अपर-पक्षे प्रकृतेः सजीवतां कमनीयतां च चित्रयितुं विविधाः मानवीय-विभावाः संयोजिता उपलभ्यन्ते । अतः प्रकृतिः संदृश्यते मानवायिता । तस्याः प्रकृते-र्बाह्यसौन्दर्य-समेतमन्तःसौन्दर्यं रङ्गाजीव-गङ्गाधरस्य सुमधुरया लेखन्या सम्यग्‌रूपेण वर्णितम् । वस्तुतो गङ्गाधरस्य कृते प्रकृतिकविरित्याख्या सुप्रतिपन्ना यथार्था च समनुभूयते ।


॥ ८ ॥ जीवन-दर्शनं भावसौन्दर्यं च :
प्रतिभाशाली विभाति कवि-गङ्गाधरः कर्मयोगी भाग्यवादी च । स आशावादी द्योतते, न जातुचित् नैराश्यवादी । कर्मयोगिनः कवेः जीवन-दर्शनमपि प्रसङ्गानुसारं तपस्विनी-काव्ये प्रतिफलितं दृश्यते । तमसा-तरङ्गिणी-मुखेन कविः कथयति,

[ओड़िआ-मूलपद्यम् :
बने बने भ्रमि भ्रमि गण्ड-कुहुके न भ्रमि
बहु बाधा अतिक्रमि स्वच्छ जीबने,
अन्धार दुःख न गणि आलोक सुख न मणि
चालिछि दूर सरणी नत बदने ।
जनम करुछि सफळ,
तोय-दाने तोषि तीरबासी सकळ ॥]


संस्कृत-रूपान्तरे पद्यमिदम् :
भ्रामं भ्रामं वने वने
गण्ड-कुहकेषु न भ्रमन्त्यहं
विलङ्घ्य विविध-बाधा-निवहं
सुविमले मम जीवने ।
ध्वान्तं न दुःखं गणयन्ती
प्रकाशं न सुखं भावयन्ती
दूरमार्गमग्रे सरामि नम्रानना निरलसम् ।
विदधामि सार्थकतां जन्मनः
सन्तोषयन्ती नीर-दानैरात्मनः
सकल-कूल-सन्निवासिनां मानसम् ॥
(चतुर्थसर्गः,११) 

आस्तिकता, सदाचरणम्, मानविक-मूल्यबोधः, उन्नत-चिन्तनं चेत्यादिका विषयाः कवेस्तपस्विन्यां सुगर्भिताः सन्ति । सरलता, नम्रता, शुचिता, परोपकारिता, अन्यं प्रति सहानुभूतिः संवेदना चेत्यादिकाः गुणाः कवि-लेखन्यां मानव-जीवनस्य विभूषणरूपाः । अन्तराया अनेके कालवशात् समायान्तु नाम, परन्तु स्थितप्रज्ञस्य कवेर्मानसं निरन्तरमेव प्रतिभाति दृढ़ं सुस्थिरमविचलितम् । ऋजु-जीवनयापन-समेता उच्च-विचारधारा कवेर्गङ्गाधरस्य साहित्यिक मभीष्टं व्यावहारिकं च ।


वर्त्तन्ते मानव-जीवने बहवो दोषदर्शिनः खलाश्च, येषां दुश्चेष्टावशात् सामाजिक-प्रदूषणं जायते । तेषां प्रभावं प्रतिहत्य स्वकीय-सद्गुणानां विकासो विधेयः । तपस्विनी-काव्यस्य नवम-सर्गे सीतां प्रति केतक्या उक्तौ कविर्विषयमेतमुपस्थापयति । केतकी कथयति,
[ओड़िआ-मूलपद्यम् :
कि करिव लोक-लोचन-दूषण,
निज गुण य़ेबे स्वर्गीय भूषण ?
कण्टा देखि अळि न कले शरधा,
मुँ निकि छाड़िबि सौरभ-स्परधा ?]

मदीय-संस्कृतानुवादे पद्यमिदम् :
दूषणं जन-नयनजं किं करिष्यति
यदा स्वीय-गुणः स्वर्गीयं विभूषणं भाति ?
न भवेद् यदि मधुकरस्य श्रद्धा
मयि कण्टकं पश्यतः,
किमु सौरभस्य स्पर्द्धा
मया परिहरिष्यते ततः ?
(नवम-सर्गः)

कन्यां प्रति जनन्याः संवेदना हृदयस्य गभीरतां परिचाययति सामाजिकजीवने । काव्येऽत्र मातृरूपायाः स्नेहशीलायाः सरितस्तमसाया आन्तरानुभूतिं वर्णयति कविः सुता-रूपायाः सीतायाः मुखमाध्यमेन ।
[ओड़िआ-मूलपद्यम् :
सीता बोइले, ‘पनीर- मधुर ए स्चच्छ नीर
नीर नुहे जननीर क्षीर प्रत्यक्षे,
गिरि-स्तनुँ विनिःसृत होइ आसुछि अमृत-
धारा परि सीता मृत-कळपा लक्ष्ये ।
ओहो तु त मो मा ए देशे,
मो दुःखे विदीर्ण-वक्षा तमसा-वेशे ॥’ ]


पद्यमिदं मम संस्कृत-रूपान्तरे :
जानक्या व्यक्तमकारि,
‘अनाविलमिदं वारि
नारिकेल-नीर-सम्मितम्
माधुर्य-प्रपूरितम् ।
न खलु तन्नीरम्,
भाति जनन्याः प्रत्यक्षमेव क्षीरम् ।
पर्वत-वक्षोज-विनिःसृतमेतत्
प्रवहति पीयूष-निष्यन्दवत्
कृते मृतकल्पायाः
कन्यकायाः सीतायाः ।
देशेऽस्मिन्नहो ! त्वमेव माता मे सदाशया
तमसामूर्त्ति-र्मद्वेदना-विदीर्ण-हृदया ॥’
(चतुर्थसर्गः)


कविः पुन-र्नैसर्गिक-दृष्टान्त-माध्यमेन दुःखिन्याः सीताया मुखेन पुत्रीं प्रति मातुः स्नेहमनाविलं प्रकाशयति पारिवारिक-सामाजिक-परिसरेषु ।

[ओड़िआ-मूलपद्यम् :
माता बुझे सुता-वेदना ।
माता-नेत्रे दग्धमुखी चन्द्र-वदना ॥


संस्कृत-भाषान्तरे पद्यमिदम् :
अवगम्यते सम्यग् जनन्या
निज-कन्याया वेदना ।
विभाति दग्ध-वदना कन्या
जननी-नयनयोश्चन्द्रानना ॥
(चतुर्थ-सर्गः)


तपस्विनी-काव्यस्य द्वितीय-सर्गे प्रसङ्गानुसारं सीतायाः क्रन्दनं निशम्य वाल्मीकि-तपोवनस्थाः तापस-कन्याः सीता-समीपमागत्य तां धैर्यप्रदान-पूर्वकं धारयन्ति, ताताय वाल्मीकि-मुनये घटनां निवेदयति तापसी वाला । अत्र कवि-गङ्गाधरः सीतां प्रति समवेदनां हार्दां सहानुभूतिं च प्रकाशयितुं प्रथमतः कन्याजनमेव नियोजयति, न तु बालकान्, न वा स्वयं वाल्मीकिम् । कोमल-हृदयायाः महिलायाः कृते महिलाजनस्य सहायता कवेरभीष्टा । रामायणे प्रसङ्गतस्तापस-बालकाः नियोजिताः । महर्षि-वाल्मीकि-र्वर्णयति,
‘सीतां तु रुदतीं दृष्ट्वा ते तत्र मुनि-दारकाः ।
प्राद्रवन् यत्र भगवानास्ते वाल्मीकिरुग्रधीः ॥’ (वाल्मीकि-रामायणम्, ७/४९/१)

रघुवंश-काव्ये कालिदासस्य वर्णनानुसारं स्वयं वाल्मीकिरेव मध्येवनं भ्रमन् रादनरतायाः सीतायाः शब्दानुसारी तत्-समीपं गच्छति । कविः कालिदासः कथयति,
‘तामभ्यगच्छद् रुदितानुसारी
कविः कुशेध्माहरणाय यातः ॥’
(रघु. १४/७०)

तपस्विनी-काव्ये गङ्गाधरः तापसी-कन्यामुखेन सीताया उपस्थिति-विषयं वाल्मीकि-समीपे ज्ञापयति ।
[ओड़िआ-मूलपद्यम् : 
सम्बोधन करि थरकु थर ता प्रिय कान्ते,
पति-गुण पति-बात्सल्य स्मरुअछि एकान्ते ।
लळित दिशुछि ललाटे तार सिन्दूर-बिन्दु,
मुख-कमळकु होइछि य़ेह्ने पूर्णिमा-इन्दु ॥] 


मम संस्कृतानुवादे पद्यमिदम् :
सम्बोधयन्ती बारम्बारम्
प्रियतमं भर्त्तारम्
स्मरति विविक्ते स्वमनसा
वात्सल्यं गुणराशिं स्वामिनः सा ॥
तस्या ललाट-देशे सन्दृश्यते
सिन्दूर-बिन्दुः सुन्दरः ।
वदनारविन्दं प्रति प्रतीयते
यथा राका-कलाकरः ॥
(तृतीय-सर्गः)


कवि-गङ्गाधरः मानविक-सामाजिक-व्यवहारेषु परस्पर-सद्भावना-विकासार्थं नूनं सहृदय-सारस्वत-साधकः, यस्य लेखनीतः स्फुरति वाणी भावगर्भा मधुवर्षिणी हृदयस्पर्शिनी ।

॥ ९ ॥ उपसंहारः :
ओड़िआ-साहित्यस्य समृद्धि-साधनार्थम् ओड़िआ-भाषायाः समुत्कर्ष-प्रतिपादनार्थं च तपस्विनी-महाकाव्यं रचयता कविना गङ्गाधरेण महती प्रसिद्धिः समवाप्ता । तत्कालीने ओड़िआसाहित्ये लब्ध-यशसः व्यासकवि-फकीरमोहन-सेनापतेः कविवर-राधानाथ-रायस्य पल्लीकवि-नन्दकिशोर-बलस्य विदुषामपरेषां च सश्रद्धा प्रेरणा निहितासीत् कवेः साहित्य-साधनायाम् । ओड़िशायाः ‘महानदी’, ‘अङ्ग’, ‘इब’, ‘तेल’ चेत्याख्यानां नदीनां भौगोलिकी सूचनापि प्रदत्तास्ति प्रसङ्गानुसारं तपस्विनी-काव्ये जन्मभूमिं प्रति प्रीत्यनुरागान् दर्शयता कविना । पुनः सरित्-सागरयोश्चिरन्तन-प्रेम-प्रवाह-प्रसङ्गे दृश्यते ओड़िशायाः ‘चिलिका’-ह्रदस्य दृष्टान्तः परोक्षरूपेण सन्निवेशितः ।

कवेर्गङ्गाधरस्य सारस्वत-साधकत्वं समाज-संस्कारकत्वं स्वाभिमानित्वं निर्व्याजत्वं सारल्यं धीरत्वं निर्भीकत्वं च परिशीलयन् प्रसिद्धः समालोचकः मायाधर-मानसिंहः तं कविं ‘साहित्यिक-वीर:’ इति स्फुटं प्रतिपादयति । परिशेषे एतत् वक्तुं पार्यते यत् मानवीय-सूक्ष्मभावानां सुविश्लेषक-रूपेण प्रकृति-विभावानां प्रवीण-सफल-चित्रकार-रूपेण च स्वभावकविः गङ्गाधर-मेहेरः सारस्वत-परिसरे सुपरिचित-नामा महत्त्वपूर्ण-स्थानमर्हति । सिद्धहस्तेन तेन प्रणीतं रामायणीय-करुणगाथा-संवलितमनवद्यं तपस्विनी-महाकाव्यं भारतवर्षस्य विविध-भाषा-साहित्येष्वपि तुलनात्मक-परिप्रेक्षया समादर-भाजनं भविष्यति, अस्य भाव-कला-पक्षद्वयं च सहृदय-जनान्तःकरणं रसाप्लुतं कर्त्तुं प्रभविष्यतीति दृढ़ो विश्वासः । *
= = = = = = = 

सहायक-ग्रन्थादि-सूची :
(१) गङ्गाधर-ग्रन्थावली (तपस्विनी-काव्य सहित, मूल ओड़िआ)
संपादकः डॉ. हेमन्त कुमार दास.
प्रकाशकः- पुस्तक भण्डार, ब्रह्मपुर, गञ्जाम, ओड़िशा, १९७७.

(२) तपस्विनी (कवि-गङ्गाधरमेहेर-कृत)
हिन्दी अनुवादक : डॉ. हरेकृष्ण मेहेर,
प्रकाशक: सम्बलपुर विश्वविद्यालय, ज्योतिविहार, ओड़िशा, २०००.

(३) TAPASVINI OF GANGADHARA MEHER
(Complete English Version of Oriya Kavya Tapasvini)
By : Dr. Harekrishna Meher.
Publisher: R.N. Bhattacharya, A-127, HB.Town, Sodepur,
Kolkata-700110, First Edition-2009. (ISBN : 81-87661-63-1).

(४) तपस्विनी-महाकाव्यम् (कवि-गङ्गाधरमेहेर-प्रणीतम्)
संस्कृतानुवादक : डॉ. हरेकृष्ण मेहेरः

(५) Gangadhar Meher (Makers of Indian Literature Series),
By: Binod Chandra Naik. Sahitya Akademi, New Delhi, 1996.

(६) History of Oriya Literature (By : Mayadhar Mansinha).
Sahitya Akademi, New Delhi, 1962.

(७) ‘कवि गङ्गाधरङ्क तपस्विनीकाव्य : हिन्दी-इंग्राजी-संस्कृतानुवादर त्रिबेणी’
(लेख): डॉ. हरेकृष्ण मेहेर,
‘बर्त्तिका’ (त्रैमासिक मुखपत्र) विषुव विशेषाङ्क-१९९९, पृष्ठा १७८-२०९.
सारस्वत साहित्य सांस्कृतिक परिषद, दशरथपुर, य़ाजपुर, ओड़िशा.

(८) कालिदास ग्रन्थावली (रघुवंशम्), संपादकः - सीताराम चतुर्वेदी,
भारत प्रकाशन मन्दिर, अलीगढ़, संवत् २०१९.

(९) श्रीमद्-वाल्मीकीय-रामायणम्,
गीताप्रेस्, गोरखपुर, उत्तरप्रदेश, संवत् २०४९.

(१०) उत्तररामचरितम् (भवभूतिः), संपादकः एस्. एस्. रेग्मी,
चौखम्बा संस्कृत सीरिज् ऑफिस्, वाराणसी, १९७१.

(११) साहित्यदर्पणः (विश्वनाथ-कविराजः)
संपादकः - श्रीशालग्राम-शास्त्री,
मोतीलाल-बनारसीदास, दिल्ली, १९७७.

(१२) ध्वन्यालोकः (आनन्दवर्धनः)
चौखम्बा विद्याभवन, वाराणसी, १९६५.

(१३) नैषधीय-चरितम् (श्रीहर्षः)
निर्णयसागर-प्रेस्, मुम्बई, १९५२.

(१४) ‘भाषान्तर के लोकप्रिय आधुनिक साहित्य का संस्कृत अनुवाद :
एक आकलन’ [लेख]: डॉ. नारायण दाश, ‘दृक्’ (अङ्क १५-१६) २००६, पृष्ठ 146 -158.
(हरेकृष्ण-मेहेर- अनूदित तपस्विनी-काव्यादि प्रसङ्ग, पृष्ठ 149-152).
प्रकाशक: दृग्-भारती, झूसी, इलाहाबाद, उत्तरप्रदेश.

(१५) Extracts from English Tapasvini by Harekrishna Meher.
'MuseIndia' (Literary E-Journal) Issue-21, September-
October 2008. Secunderabad, AP. India.

(१६) Tapasvini of Gangadhar Meher :
A Literary Appreciation on Harekrishna Meher’s Book
By : Dr. Mahendra Kumar Mishra,
‘MuseIndia’ (E-Journal), Issue-34, Nov.- Dec. 2000,
Secunderabad, AP. India.
= = = = = = = = = = = =


Dr. Harekrishna Meher,
Reader and Head, Department of Sanskrit,
Government Autonomous College,
Bhawanipatna - 766001, Orissa, India.

e-mail : meher.hk@gmail.com
web : http://hkmeher.blogspot.com/
= = = = = = = = = = = 

Tuesday, July 12, 2011

Sanskrit Song: Śiśu-Gītikā: ‘शिशु-गीतिका’: Dr.Harekrishna Meher

Śiśu-Gītikā (Sanskrit Song)
Lyrics and Tuning by : Dr. Harekrishna Meher   
(Extracted from ‘Mātŗigītikāñjalih’ Kāvya)
* * * * *   

‘शिशु-गीतिका’    
गीत-रचना तथा स्वर-संयोजना : डॉ. हरेकृष्ण-मेहेरः     
(‘मातृगीतिकाञ्जलिः’- काव्यात् गृहीता)
= = = = = = = =


पश्य भास्वरं
रूपमैश्वरं
सुकुमारे शिशु-वदने
सुविशद-सुन्दर-रदने ॥
(ध्रुवम्)
*
स्वर्गानन्दं भुवि सत्यम्,
दाम्पत्य-फलं तदपत्यम् ।
प्रेमलता-
प्रफ़ुल्लता
समुच्छला तनु-नदने ।
पश्य भास्वरं
रूपमैश्वरं
सुकुमारे शिशु-वदने ॥ (१)
*
अव्यक्ताक्षर-रमणीयम्,
हसितं मधुरं स्मरणीयम् ।
कोमलता
निर्मलता
विलसति दशनच्छदने ।
पश्य भास्वरं
रूपमैश्वरं
सुकुमारे शिशु-वदने ॥ (२)
*
सरस्वती मधु झङ्कारम्,
तनुते सुललितमविकारम् ।
सुदिव्यता
पवित्रता
नन्दति मन्दं गदने ।
पश्य भास्वरं
रूपमैश्वरं
सुकुमारे शिशु-वदने ॥ (३)
*
अलक्ष्य-लब्धं त्वनधीतम्,
रुदिते मुदिते सङ्गीतम् ।
निश्छलता
चञ्चलता
लघु-रूपायित-मदने ।
पश्य भास्वरं
रूपमैश्वरं
सुकुमारे शिशु-वदने ॥ (४)
*
प्रति-प्रतीकं निर्व्याजम्,
रम्यत्वं विभु-रचनाजम् ।
अबोधता
विदग्धता
वसति सुधामय-सदने ।
पश्य भास्वरं
रूपमैश्वरं
सुकुमारे शिशु-वदने ॥ (५)
= = = = = =

(इति शिशु-गीतिका)
[इयं गीतिका प्रायः कहरवा-ताल-मध्यलयेन परिवेषणीया] 
= = = = = = =

English Translation by the Author Dr. Harekrishna Meher
*
Śiśu -Gitika (Song for Child)
= = = = = = = = = = = =

Behold the effulgent form of divinity
in the soft figure of a child,
which is endowed with pure,
white and beautiful teeth. (0)

Verily in the mortal world,
the child forms heavenly bliss,
the fruit of conjugal figures.
In the lucid river
of child’s body, overflows
the cheerfulness of love-creeper. (1)

With indistinct utterance
of words, splendid is the sweet smile
of the child and so an object
of ever-remembrance.
In the lovely lips, there shine
delicacy and lucidity. (2)

Sarasvati, the Goddess of Speech,
spreads her nectareous jingllng,
graceful and faultless.
Auspicious divinity and purity
lightly and delightfully dance
in the utterance of the child. (3)

Music, unread and unknowingly attained,
flows fluently in the cries
and gaieties of the child.
Guilelessness and swiftness really abide
in the child who is rendered
into a miniature form of Cupid. (4)

In every limb of the child,
reigns the guileless comeliness
sprung from the creation
of the omnipresent Supreme Self.
In the ambrosial abode of child’s figure,
abide innocence as well as sagacity.
Behold the effulgent divine form
in the delicate figure of the child. (5)

= = = = = = = = = =

(Extracted from ‘Mātŗigītikāñjalih’ Kāvya of Dr. Harekrishna Meher)
* * * * * 
= = = = = = = 

Sunday, July 10, 2011

Sanskrit Song 'Bhārata-Bhāratī-Gītikā' (भारत-भारती-गीतिका)/Dr.Harekrishna Meher

'Song for the Indian Language Sanskrit'
* 'Bhārata-Bhāratī-Gītikā'
Lyrics and Tuning by : Dr. Harekrishna Meher
[From my Original Sanskrit Gītikāvya ‘Mātrigītikāñjalih’ ]
= = = = = = = = = = = = = = = = = = = =
भारत-भारती-गीतिका
गीत-रचना तथा स्वर-रचना : डॉ. हरेकृष्ण-मेहेरः 
(‘मातृगीतिकाञ्जलि:’ - गीतिकाव्यात् समानीता )
= = = = = = = = = = = = 

विजयतां नो मातृभूमी भारतम्,
जयतु भारत-भारती नो
वेदभाषा संस्कृतम्,
लोकभाषा संस्कृतम् ॥ (ध्रुवम्)
*
साङ्गमखिलं वाङ्‌मयं यत्
सर्व-विद्या-शास्त्र-रुचिरम्,
अव्यया सा दिव्य-सम्पत्
सुप्रतिभया भाति सुचिरम् ।
भूतलेऽस्मिन् सभ्यतायाः सारभूतं निःसृतम्,
जयतु भारत-भरती नो वारयन्ती दुष्कृतम् ।
लोकभाषा संस्कृतम् ॥ (१)
*
भाति वाल्मीकीय-रचना
व्यास-सेव्या पावनी सा,
देव-संस्कृति-गौरव-धना
कालिदासोद्‌भावनी सा ।
मानविकता- भव्य-काव्यं भावुकैः समुदाहृतम्,
जयतु भारत-भारती नो विदधती गीतामृतम् ।
लोकभाषा संस्कृतम् ॥ (२)
*
काल-जयिनी कला-रत्‍ना
वर्ण-माल्या सुकल्याणी,
नित्य-नूत्‍ना निःसपत्‍ना 
सर्वदा गीर्वाण-वाणी । 
यशो यस्या विमल-विशदं विश्व-भुवने स्वीकृतम्
जयतु भारत-भारती नो विबुध-मनसां निर्वृतम् । 
लोकभाषा संस्कृतम् ॥ (३) 

शुद्ध-पद्धति- सिद्ध-वेषा 
सुधा-मधुरा पुण्य-धारा
सा हि भाषा-जनन्येषा 
सरस-धन्या सुसम्भारा । 
सपाश्‍चात्त्यै-र्विपश्‍चिद्‌भि- र्मुक्त-कण्ठै-र्व्याहृतम्
जयतु भारत-भारती नो महाजनैः समादृतम् । 
लोकभाषा संस्कृतम् ॥ (४) 

आर्य-धाम्ना समाम्नाता 
सहृदयानां मोदिनीयम्
मुख्य-भाषा सुविख्याता 
शान्ति-समता- बोधिनीयम् । 
देश-संहति- विधौ मैत्री-व्रतं यया सदा धृतम्
जयतु भारत-भारती नो भ्रातृ-भावैः संस्मृतम् । 
लोकभाषा संस्कृतम् ॥ (५) 
= = = = = = = = = = = 
(इति भारत-भारती-गीतिका) 
*
[गीतिकेयं प्रायः दीपचन्दी-तालस्य अथवा रूपक-तालस्य
अथवा कहरवा-तालस्य मध्य-लयेन परिवेषणीया ।] 
* * * * * 

English Translation : 
http://hkmeher.blogspot.in/2012/12/bharata-bharati-gitika-drharekrishna.html
= = = = = = = 
Complete ‘Matrigitikanjalih’ Kavya :
= = = = = = = 


Monday, July 4, 2011

Tadeva Gaganam Saiva Dharā (तदेव गगनं सैव धरा) of Srinivas Rath: Article By Dr. Harekrishna Meher

(Observation of Modern Life-Style reflected in ‘Tadeva Gaganam Saiva Dharā’ Kavya of Poet Shrinivas Rath)

* Sanskrit Research Article By : Dr. Harekrishna Meher 

तदेव गगनं सैव धरा’-काव्ये आधुनिक-जीवन-विमर्शः

  * डॉ. हरेकृष्ण-मेहेरः   

= = = = = = = 

॥ १ ॥
साहित्यं जीवनस्य दर्पण-स्वरूपम् । जीवनालेख्यस्य सरसोपस्थापनं साहित्यस्य सार्थकत्व-प्रतिपादनाय विशिष्टां भूमिकां निर्वहति । अतः साहित्य-जीवनयोरभिन्न-सम्बन्धः सर्वत्र स्वीक्रियते । यत्र साहित्ये जीवनस्य वास्तविकी अवस्था क्वापि न दृश्यते, तत्र भावबोधस्य कश्चिदभावः परिलक्ष्यते । केवलं जीवनस्य शुष्क-चित्रण-द्वारा साहित्यस्य महत्ता न प्रकाश्यते । काव्य-गुणादिभिः सार्धं वास्तव-घटनायाः परिवेषणं तु पाठकजनानां हृदयं स्पृशति । स्वभावोक्तिः सहृदय-हृदय-संवेद्या भवति । वस्तु-स्वभाव-वर्णनं कल्पना-विलास-चित्रणं चेति द्वयमेव साहित्यस्य कलेवर-भूतम् । यत्र उभयोरेतयोः सम्मिश्रणमुपलभ्यते, तत्र साहित्यस्य विशेषत्वमवधेयम् । परन्तु केचित् कवयो विद्यन्ते, येषां लेखन्यां केवलं वस्तु-स्वभाव-वर्णना मार्मिकी मनोहारिणी च भवति । नानुभूयते तत्रावश्यकता कल्पना-विलासस्य । साम्प्रतिके जनजीवने यादृशी विशिष्ट-घटनावली नितरां घटते, समाजस्य उत्कर्षमपकर्षं च विदधाति, तस्याः काव्यानुगुणं चित्रणं कवेः प्रतिभाया अन्वर्थतां द्योतयति । एतादृशी सुप्रतिभा राजते आधुनिक-संस्कृत-साहित्ये लब्ध-कीर्त्तिः आचार्यः श्रीनिवास-रथः ।

“तदेव गगनं सैव धरा” इत्याख्यं प्रसिद्धं गीतिकाव्यं कवि-श्रीरथस्य एका अनवद्या कृतिः । एकचत्वारिंशत्-संख्याक-गीतिकानां सङ्कलनभूते [१] काव्येऽस्मिन् आधुनिक-जन-जीवनस्य परिदृश्यमानाः विविधाः भाव-दशाः सुवर्णिताः । काव्यस्य प्रथमायां गीतिकायाम्, यस्या नाम्ना काव्यग्रन्थस्य शीर्षकं विहितम्, प्राणिजीवनस्य शोचनीया दशा विशेषरूपेण प्रतिपादिता । प्रतीयते यत् कवेरियमाद्य-गीतिरेव समग्र-काव्यस्य सारतत्त्वं प्रकाशयितुं सामर्थ्यं वहति । परम्पराधारेण समुद्भावितै-र्नवीनच्छन्दोभिः प्रणीतासु अस्य काव्यस्य गीतिकासु कवेर्वास्तववादि चिन्तनं प्रद्योतते । विविध-काव्यालङ्कारै-र्विभूषिता सारस्वती कृतिरियं ललित-मधुर-सरस-मञ्जुल-पदावलीं वहन्ती हृदयहारिणी विराजते । कविः स्वीय-कालानुरूपं काव्यवर्णनं कर्त्तुं द़ढ-सङ्कल्पो वर्त्तते । अतः कविः स्वयमेव कथयति निज-गीतिकायाम् :-
“ किं कविना
समयेन विना
यदि सैव यथास्थिति-बोधकरी
रचिता निहतार्थपदा कविता ॥ ”
(किं मधुना) [२]

आधुनिक-जीवनस्य विपर्यस्ता दशा एव अस्य गीतिकाव्यस्य अन्तःस्वरः । गगन-धरणीत्यादिकाः नैसर्गिक-विभावाः न परिवर्त्तन्ते ; परन्तु परिवर्त्तते जीवनस्य गतिः प्रतिवासरम् । समय-क्रमेण जनानां परिवर्त्तितः स्वभावः विपरिवर्त्तमानः परस्पर-सम्बन्धश्चेति पक्षद्वयं कविना स्पष्टं प्रदर्शितम् । स्थितिः सामाजिकी सांस्कृतिकी राजनीतिकी आध्यात्मिकी दार्शनिकी अन्यरूपा वा भवतु, प्रायः सर्वत्र वैक्लव्यं संदृश्यते । कवेः श्रीरथस्य गीतिषु जीवनस्य एवंभूता तिमिरिता दिशा आचार-विपर्यासादि-वर्णन-माध्यमेन सम्प्रकटिता । परन्तु जन-जीवने नैराश्यवादः कवे-र्नापेक्षितः । सुसंस्कार-सदाचार-द्वारेण जीवनस्य समुज्ज्वल-दिशायाः सूचना कविना प्रदत्तास्ति । कविः स्वयं भारतीय-संस्कृत्याः सुपरिपोषकः । राष्ट्रस्य सुरक्षा-समुन्नति-निमित्तं भारतीयता-रूपमेक-सूत्रमेव प्रणिधेयम् । आधुनिक-जीवनस्य विविधा दिशाः कविना समुपन्यस्ताः । प्रस्तुते निबन्धे कतिपय-मुख्य-विषयाणां विश्लेषणार्थं कृतोऽस्ति प्रयासः ।

॥ २ ॥
साम्प्रतिके समाजे आधुनिकतायाः स्वरूपं विकृत-रूपेण अवबुध्यते । जीवनस्य विषादमयत्वं व्याकुलत्वं पीड़ितत्वमशान्तत्वं च सूचयन् कविः सामाजिक-स्थित्याः वैकल्यं दर्शयति । मनुष्यः सदाचार-मार्गेण एव स्वमर्यादानुरूपं कर्त्तव्यं विधाय स्वस्य देशस्य च समृद्धिं साधयति । परन्तु आधुनिको मानवः सर्वं सन्मार्गं विहाय दुष्कर्म-करणे प्रवृत्तोऽस्ति । “आचारः परमो धर्मः ” [3], “धर्मो रक्षति रक्षितः ” [4] इत्यादिकं धर्मशास्त्र-वचनजातं सम्प्रति व्याकुलतां गतम् । हर्ष-विषादमये जीवने मनुष्य-कृता या विभीषिका जन-समाजं प्रति अनिष्ट-साधिका, तस्याः संवर्द्धनाय आधुनिक-मानवस्य प्रचेष्टा सुदूरगामिनी दृश्यते, अतः शोचनीया । धर्माचारस्य यत् चिरन्तनं महत्त्वं विद्यते, तत् कविना स्मृतिपथे समवतारितम् । “ रामादिवद् वर्त्तितव्यम्, न रावणादिवत् ” [५] इति उक्त्या कवे-र्लेखनी प्रभाविता । स्वार्थ-परायणतया लोकचरित्रं कलुषितं सञ्जातम् । मानवं प्रति मानवस्य निष्ठुरता वर्द्धते । नैतिकता विनाशं याति । शिक्षायाः महत्त्वमवक्षीयते । मादकतायाः स्थितिर्विषमा । दुराचरणै-र्जीवनस्य दौर्बल्यं प्रकटितम् । मूल्यबोधस्य क्षयः समनुभूयते । पाप-पुण्ययो-र्विचारः कर्मफलस्य अवश्यम्भावि-परिणामश्च साम्प्रतिक-स्थितौ न रुचिकरत्वं जनयतः । भौतिक-सुखास्वादनं जीवनस्य ध्येयं मन्यते । पारमार्थिक-तत्त्वं विस्मृतिगर्भे विलीयते । शान्तिरान्तरिकी विपन्ना । एतादृशीं दशां सूचयन् कविर्निगदति :-
“ जीवनेऽधुनातने
न शान्तिरस्ति कानने,
न मानिनी-प्रसादने
न चापि योग-साधने ॥ ”
(जीवनेऽधुनातने) [६]

निबिड़-जन-सम्मर्दानां विकराल-कोलाहलैः सर्वाणि इन्द्रियाणि रूप-रसगन्धादि-साधनं न जानन्ति । सर्वत्र मानव-जीवनमशान्ति-वह्निना दह्यमानमेव लक्ष्यते । नगरे वा वने वा सर्वत्र वन्य-रोदनस्य वेदना । शून्यतायाः दैन्यं सहसा उद्गत्य कुरुते करालमट्टहासम् । मानवस्य व्याकुलत्वमाभ्यन्तरं दर्शयन् कविः कथयति :-
“ उटजं भवतु भवतु वा भवनम्
ज्वलदनलाकुलितं नु जीवनम् ॥ ” (उटजं भवतु) [७]

॥ ३ ॥
  सा प्रथमा संस्कृतिर्विश्ववारा ” [8] इति श्रुति-वचनात् भारतीय-संस्कृतिः सर्वजन-समादृता । भारतमेवाद्वितीयं राष्टम् यत् स्वकीय-सदाचरणकारणात् विश्वस्य सर्वाग्रगण्यत्वमर्हति , महनीयत्वं च भजते । आचार्य-मनु-मतेन,
“ एतद्-देश-प्रसूतस्य सकाशादग्रजन्मनः ।
स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्व-मानवाः ॥ ”
[9]

सन्मार्ग-प्रदर्शने, मानविकतायाः सुप्रतिष्ठापने, विश्वबन्धुतायाः संवर्धने, महिलां प्रति सम्मान-प्रदाने, सकलेषु संस्कार-क्षेत्रेषु च भारतवर्षस्य स्थानं सर्वोपरि विराजते । परन्तु आधुनिके युगे संस्कारस्य भ्रष्टत्वात् मानव-जीवनं समाकुलितमनुभूयते । श्रीरथ-कवेः गीतिकासु ‘चेतना विलीयते’, ‘यातनायतनम्’, ‘वचन-वैशसम्’, ‘मलिनतामयते’, ‘पुरुषार्थ-संहिता’, ‘पाहि मुकुन्द हरे’, ‘किं मधुना’ इत्याद्यासु मानवस्य संस्कारच्युतिः स्पष्टं वर्णितास्ति । स्वार्थान्ध-मानवस्य अनैतिक-कार्यम्, पर-पीड़नम्, अनुशासनहीनत्वं कलङ्कितत्वं चेत्यादिकाः विषयाः मानव-सभ्यतायाः वैकल्यं वैफल्यं च दर्शयन्ति । संस्कृत्याः भ्रष्टत्वात् सत्यं नष्टप्रायम् । पक्षपात-विचारणा, पर-दोषदर्शनम्, सुप्रतिभां प्रति उपयुक्त-सम्मानाभावश्च मानवीय-सद्गुणावलीं दूरमपसारयन्ति । आत्मविश्वासः क्षीयते । परस्परमविश्वासो वर्धते । दरिद्रत्व-रोग-भय-ग्रस्ता मानवता असहाया निर्वचना तिष्ठति । भेद-भावना-विदलितस्य भारत-देशस्य ऐक्यव्रतं भग्नमिव इति सम्प्रकाश्य व्यथितः कविः परमेश्वरं रक्षाकारिणं प्रार्थयते ।

साम्प्रतिके युगे धर्मनाम्ना भ्रष्टाचारता प्रतिपाद्यते । धर्मधारणायां विकृतिः समुत्पन्ना । पुरुषार्थ-संहिता भूलुण्ठिता । विश्वबन्धुतायाः परिभाषा कलुषिता । मानसिकी भावना नैराश्य-कुहरं प्रविष्टा मलिना जायते । वेद-वचनानां महत्ता, महात्मनो बुद्धस्य करुणा-वाणी, नीति-सङ्गता प्रवृत्तिश्चेत्यादिकं सर्वं परिहास-वचनमिव संवृत्तम् । सात्त्विकता विनष्टा; तमोगुण-सम्भारेण वसुन्धरा विदलिता सती बहु-व्यथिता विलपति । साधारणं जीवनं वेदना-प्राचुर्येण व्यतिव्यस्तम् । आचार-विवर्जितस्य मानव-जीवनस्य विचलितत्वं वर्णयन् कविः कथयति :-
“ वाताहता वेपते भीता जीवन-दीपशिखा ।
स्वयं निर्मिता स्वयं खण्डिता सदाचार-परिखा ॥ ”
(यातनायतनम्) [१०]

कविना परिलक्ष्यते यत् महात्मनां चेतनामृतं तदनुयायिभिरेव दूष्यते । कुलदेवताराधनं त्यक्त्वा परोत्पीड़नं सेव्यते । पापाचरण-मन्त्रणा प्रवर्धते । नैतिकता स्वार्थसुविधानुगता चलति । वसने केवलं शुचिता विद्यते, न तु मानसे वचने कर्मणि वा । जीवनस्य असन्तुलित-गतित्वात् दुःस्थितिः प्रावल्यं भजते । आत्म-समीक्षणं कर्त्तुं न कस्यचित् प्रवृत्तिः । पर-दोषालोचने जना निमग्नाः । परेषामनिष्ट-विधानं कर्त्तुं सर्वे तत्पराः सन्ति । अतो रमणीयतायाः कथा न केनापि भाव्यते । एतादृशीं जीवन-दशां पश्यन् कवि-र्वर्णयति :-
“ सकला सौन्दर्य-कथा
करिणीवत् पङ्कगता ।
सा मधुरा स्वर-लहरी
विलीयते क्रन्दने ॥ ”
(आधुनिके जीवने) [११]

॥ ४ ॥
श्रीरथस्य गीतिकासु नारी-जीवनस्य शोचनीया दशाऽपि लब्ध-स्थाना वर्त्तते । भारतीय-परम्परायां मानव-जीवने परिणयो भवत्येकं माङ्गलिकं सामाजिक-बन्धनं प्रेममयं चिरमानन्दमयं च । द्वयोरात्मनोः नारी-पुरुषयोः पवित्र-मिलनमिदं सामाजिक-धर्मपालनाय सृष्टिप्रक्रिया-संरक्षणे जीवन-व्रतं भवति । परन्तु आधुनिके युगे जनजीवने आचारभ्रष्टत्वात् नारीणां दशा नितरां दुर्विषहा । यौतुक-व्याधि-माध्यमेन विवाहस्य पवित्रता दूरं गता । माता पिता बन्धुजनाश्च चिन्तासजल-नयनैः कन्यां प्रेषयन्ति श्वशुर-सदने । परं तत्र लोभानले सा दुहिता दह्यते, यमराज-निकेतनं च प्रेष्यते । नववधू-हत्या चलति नित्यक्रियावत् संसारे वस्तुवादिनो मानवस्य वित्त-लुब्ध-चित्तस्य । वीभत्सां निष्ठुरां घटनां वर्णयन् कविः वास्तवतां प्रस्तौति :-
“श्वशुर-सदन-लोभानल-दग्धा
जीवितेश-निलयं निवेशिता ।
किमिति सपदि नव- वधू-विशंसनं
दैनन्दिनी प्रथा ॥ ”
(विपत्रिता) [१२]

वैदिक-युगे या नारी महीयसी महिला, अद्य युगे सा यौतुक-वेदिकायामाहुति-र्विचार्यते । नारी-मर्यादा नितरां सङ्कट-परिवेष्टिता । “यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः” [13] इति धर्मशास्त्रीयं मनु-वचनमाधुनिकता-ग्रस्तस्य मानवस्य व्यस्ते जीवने निरर्थकं सञ्जातम् । वैवाहिक-वातावरणं परस्पर-विश्वासहीनत्वात् वैमनस्यं वर्धयति, जन-समाजं च दूषयति । नारी-पुरुषयोश्चक्र-द्वय-रूपयोः समाज-रथ-चालने सम-भूमिका वर्त्तते । परन्तु नारी-निर्यातना-धर्षण-हत्याद्याः अकथ्य-घटनाः साम्प्रतिकं मानव-जीवनं कलङ्कितं कुर्वन्ति । रुदती विधवा चितानलं प्रति बलादेव नीयते । अवमानिता सीता चीत्करोतीति कविना नारीजीवनस्य असहायत्वं व्याकुलत्वं च वर्णितम् ।

॥ ५ ॥
राष्ट्रस्य शासन-क्षेत्रे विशृङ्खलता-वशाज्जन-जीवनमपि विशृङ्खलं भवति । ‘यथा राजा तथा प्रजा’ इति यत् ज्ञायते तत् सत्यमेव । सुशासनात् प्रजा-जीवनं सुख-शान्तिमयं राजते । दुःशासनात् तु जीवने चारित्रिक-स्खलन-कालुष्य-दुराचरणादिकं समायाति । प्रस्तुते गीतिकाव्ये कविना श्रीरथेन आधुनिकी राजनीतिकी स्थितिः कलुषिता इति वर्ण्यते । न कोऽपि आन्तरिकतया सेवा-व्रते नियोजितः परिलक्ष्यते । स्वार्थ-साधकैः नेतृजनैः परस्पर-भेद-भावनाया बीजं रोप्यते जन-समाजे । न्यस्त-स्वार्थे कार्ये ते तत्पराः भवन्ति, परन्तु विषाद-ग्रस्तस्य देशस्य चिन्तामपि न कोऽपि कुरुते । युवक-वर्गस्य निस्सीमं नैराश्यं समस्तामुच्चादर्श-भावनां कदर्थयति ।

सेवा-नाम्ना शासक-वृन्दैः सुतरां विधीयते जन-शोषणं स्वपक्ष-तोषण-पोषणं च । राजनीति-श्मशानेषु के कथं कुत्र वा क्रन्दनं कुर्वन्ति, न कोऽपि जानातीति कविः प्रकटयति दुःखाशयम् । लोकतन्त्रानुरोधः परेषां कृते भवति, किन्तु स्वकीये गृहे दास-प्रथा समाश्रियते । यत्र शान्तिः संदृश्यते, तत्र विध्वंस-बीजं समायोज्यते । जन-संसदि सर्वत्र विशृङ्खलता दृष्टि-पथमारोहति । राजनीत्याः कालुष्य-पूर्णता सर्वं सदाचारं बहिष्करोति । अतः कविः समुल्लिखति :-
“ जन-संसदि संवाद-हीनता-
विभीषिका विहसति नवोदिता,
अधीति-बोधाचरण-संहिता
राजनीति-विषदंश-मूर्च्छिता ॥ ”
(पाहि मुकुन्द हरे) [१४]

रूपक-माध्यमेन कविः राजनीति-वशात् जन-जीवनस्य विपर्यस्ततां चित्रयति निम्नोक्त-रूपेण :-
“ राजनीति-संयोजन-नियमित-सारिका-शुक-पञ्जरे,
गोमायु-संहति-सिंह-गर्जन-जर्जरित-दिक्‌कुञ्जरे ।
चीयते वचनीयता
तिमिर-धन-कमनीयता ।
अनृत-वागभिनन्दनं
विषधरावृत-चन्दनम् ॥ ”
(उटजं भवतु) [१५]

राजनीतिः सुनीतिं परित्यज्य दुर्नीतिं भजते । रक्षकाणां भक्षकत्वं प्रख्यापयन् कविः राष्ट्रस्य दुःशासनं प्रति अङ्गुलिं निर्दिशति । राजनीति-संयोजनेन निर्मिते शुक-सारी-पिञ्जरे शृगाल-यूथं सिंह-गर्जनं कुरुते । प्रतिदिशं दिग्गज-मानसं प्रकम्पते । अपयशः प्रसरति । प्रजाकोषस्थ-वित्त-हरणं प्रबलं चलति । मिथ्या-वचनानि सादरमभिनन्दनमर्हन्ति राजनीति-परिसरे इति कविः दैन्यावस्थां निरूपयति आधुनिक-जनजीवनस्य ।

॥ ६ ॥
वैज्ञानिक-स्थिति-दृष्ट्याऽपि कविना जीवनस्य विपर्यस्त-भावः सम्प्रदर्शितः । आधुनिक-युगे दूरदर्शन-सङ्गणक-यन्त्रादीनां महती उपादेयता समनुभूयते । तथापि मनुष्य-कृत-विभीषिकया लोक-जीवनं व्याकुलतामापन्नम् । शिशोः करे बन्धुक-क्रीडनकं धार्यते । पदे पदे मारणास्त्र-प्रयोगात् आतङ्कवादः सर्वेषां हृदयं भाययति । पारमाणविक-विस्फोटकादिभिः देश-देश-मध्ये केवलमस्त्र-प्रतियोगिता संदृश्यते । युद्ध-विभीषिकया निरीह-जनानां प्राणहानि-द्वारा अशान्तिः परिव्याप्ता । बाहुबल-धनबल-प्रहरण-बलादिभिः एकं राष्ट्रमपरस्य आनुगत्यं कामयते । यान्त्रिक-सभ्यता केवलं भौतिक-सुख-भोगं प्रयच्छति, परन्तु परस्पर-सौहार्दं दूरीकरोति । यान्त्रिक-तत्त्वैः मानव-जीवनं सङ्कट-परिग्रस्तं सञ्जायते ।


क्रूर-कर्मकारिणां रक्त-पिपासूनां विवेकहीन-कार्य-वशात् मानव-जातिं प्रति विपत्-पतनं सम्यगनुभूयते । दानविकमाचरणं बहुशः परिव्याप्तम् । स्वीये गृहेऽपि जनाः असुरक्षिताः । नगर-श्रीः विजन-मार्गे विलापं वितनोति । वैज्ञानिक-पद्धत्या समुद्भावितैः मारणात्मकैः बहु-प्रहरणैः मानव-जीवनं नितरां विपत्ति-सङ्कुलं सञ्जातम् । आधुनिक-यन्त्र-युगस्य भयाकुलत्वं सूचयन् कविः जीवनस्य वैवश्यं नैराश्यं च प्रकाशयति । आततायिनामाक्रमणं सर्वं जीवनं भीतत्रस्तं कुरुते । मृत्यु-शङ्काकुलं जीवनं शोचनीयं संवृत्तम् । विश्व-शान्ति-नाम्ना बहु-मारणास्त्र-निर्माण-भूमिका प्रवर्त्तते । परोपकार-भावनाच्छादिता नृशंसता निश्शङ्कं नॄत्यं कुरुते । जय-पराजयौ रण-भूम्यां मानवत्व-विवर्जिते जीवने अद्य निराश्रितौ । मानवतायाः हननं येन कृतम्, तं वर्वरं वराकी नागासाकी परिचिनोति । पुनरपि असौ सर्पः फूत्कारं करोति । विज्ञान-युगे यदा मानवेन चन्द्रमण्डले पदार्पणं कृतम्, समग्रं विश्वं सविस्मयं हर्ष-विह्वलं जायते, परन्तु वर्ण-भेद-नीतिः चेतनां विदीर्य प्राणि-जीवनं व्यथयति । वैज्ञानिक-युगस्य दारुणत्वं प्रतिपदं समनुभूयते । एवंरूपां दुर्दशां निरीक्ष्य कविः कथयति :-
“ पर-देशापहरणानुरक्तिः
सुदूराश्रिता मारक-शक्तिः ।
कुरुतेऽखिल-वैज्ञानिक-तन्त्रम्
केवल-दुरुपयोग-परतन्त्रम् ।
विनाश-काले सति विपरीता
बुद्धिः प्रभवति नात्म-दर्शने ।
प्रतिदिनमुदयति सविता गगने ॥ ”
(सविता गगने) [१६]

॥ ७ ॥

प्रकृति-मानवयोर्मध्ये आन्तरिक-सम्पर्को निबिड़ो विद्यते । परन्तु आधुनिक-जन-जीवनमेतादृशं जटिलं संवृत्तम्, यत् मानवः यस्मात् कारणात् स्वं जीवनं धारयितुं समर्थः, तं निसर्गमेव विकलयति नितराम् । आधुनिक-मानवः यन्त्र-युग-प्रभावात् प्रकृत्याः सन्तुलने विकृतिं प्रापयति । विविधः प्रकृतिक-विभावाः श्रीरथस्य गीतिकासु स्थानं समवाप्ता । परोपकारिणी प्रकृतिः स्वभावानुसारं तथैव वर्त्तते । अस्ति अनन्तमाकाशं पूर्ववत् , वसुन्धराऽपि पूर्ववत् । परन्तु आधुनिकतायाः परिवेशे मानव-जीवनस्य गतिरन्वहं भिन्न-रूपा परिलक्ष्यते । कवे-र्लेखन्याम् :-
“ जीवन-गतिरनुदिनमपरा
तदेव गगनं सैव धरा ॥ ”
(तदेव गगनं सैव धरा) [१७]
कवेः कृतौ प्रभात-पवनोल्लसिता लीलामयी भ्रमर-विलसिता लता अकल्पितेन उल्का-पातेन विदलिता सती स्वीयं भाग्यं निन्दति । पूर्वदिशा-मुखं व्याकुलतां भजते । सूर्यः सहस्रांशुः सन् ग्रहण-ग्रस्त इव प्रतीयते । पृथिव्यां कलङ्किता छाया संव्याप्ता । “मलिनतामयते” इति गीतिकायां प्रकृत्याः एतादृशी दुरवस्था सावलीलं वर्णिता कविना । जीव-जन्तूनां मारणम्, औषधि-प्रदूषणादिकं च मानव-कृतं दुष्कृतमेव । आधुनिक-जीवनस्य दुर्गतिं परिलक्ष्य कविः काव्य-शैल्या प्रकाशयति :-
“ विपत्रितेयं जीवन-लतिका
केवल-कुटिल-कण्टकाकुलिता ।
दूरे कुसुम-कथा
सूर्ये तपति तमिस्रा प्रभवति
भवति नयनमयथा ॥ ”
  (विपत्रिता) [१८]

आन्तरानुभूतीनां हृद्गत-भावानां मधुर-चित्रणमपि कवे-र्गीतिकासु रमणीयं दृश्यते । उषा-कालादारभ्य विभावरी-पर्यन्तं निरन्तरं यः कालो भ्रमति, तस्य बिम्बानुबिम्बाकलितं चित्रणम्, तथा तेन सार्धं मानव-जीवनस्य आभ्यन्तर-भावानां सुसमन्वयः कवेः सदुक्ति-माधुर्यं वितनोति । कविः कथयति :-
“ चैतन्यानुगतोषसि विजने
मम नयनोपवने,
तुषार-लेखानुदिनं विलिखति
तव मुकुलित-नयने ॥ 


स्थगयति तव सीमान्तारुणिमा
तरलित-तिमिरं गगनमनन्तम् ।
दिशि दिशि नीरवता-तनिमानं
विदलति सहसा विहग-कूजितम् ।
उदयति तव सिन्दूर-बिन्दुरिव
सविता चिति-गगने ॥ ”
  (तव मुकुलित-नयने) [19]


॥ ८ ॥
कवि-श्रीरथेन आधुनिक-जन-जीवनस्य व्याकुलता यद्यपि भूरिशो वर्ण्यते, तथापि आशावादस्य दिग्दर्शनेन स सन्तप्तस्य मानव-जीवनस्य शान्ति-विधान-निमित्तं समाधानं सूचयति । भारतीय-भावा असन्तुलित-जीवनस्य सुधारणार्थं समर्थाः सन्ति । मानविकता भारतीय-संस्कृतेः परमो धर्मः । वसुधैव कुटुम्बकमिति भावो विश्वजनानां परस्परं भ्रातृ-सम्बन्धं द्योतयति । संस्कृत-संस्कृत्योः अभिन्न-सम्पर्कं प्रतिपादयता कविना राष्ट्रस्य ऐक्य-सुप्रतिष्ठायै देववाण्याः आवश्यकता प्रदर्शिता । भारतवर्षे एक-सूत्रेण भारतीयतायाः संस्थापनार्थं भारत-भारतीरूपं संस्कृतमेव प्रधान-साधनम् । मानव-जीवनस्य विषाद-ग्रस्तत्वेऽपि आशा-किरणं प्रकाशयन् कविः समुद्घोषयति :-
“ नैराश्यं न भजतां भारतम्
वितरति धैर्यं विपदि संस्कृतम् ।
यदा यदा नैतिकता नश्यति
रक्षति मानवता-हित-सत्यम् ॥ ”
(नवजीवन-संस्कार-महत्त्वम्) [२०]

सततं हित-साधकस्य संस्कृतस्य विश्वजनीनत्वं बोधयन् कविः प्रथयति :-
“ विश्वमेकं भवतु नीड़ं शान्ति-पदमिति मन्वती
जयति संस्कृत-भारती ।
पूर्व-पश्चिम-दक्षिणोत्तर-दिग्वलय-लीलावती ॥ ”

(जयति संस्कृत-भारती) [२१]

नैतिक-शिक्षायाः प्रवर्त्तनम्, स्वदेशीयाचार-संहितायां जनानामान्तरिकी श्रद्धा, सुसंस्कार-ग्रहणम्, चारित्रिक-समुत्कर्ष-विधानाय मूल्यबोध-भित्तिक-शिक्षा-पद्धतिः, सेवात्मक-कर्म-सम्पादनं चेत्यादिकं सर्वमेव मानवजीवनस्य सार्थकत्व-प्रतिपादन-निमित्तं जगति नितान्तमावश्यकम् । अतः कविः कथयति :-
“ भारतीय-संस्कृति-मञ्जूषा
प्रतिनव-युग-संस्कार-विभूषा ।
नवयुगोचिता मनुज-संहिता
विलसतु रुचिरतरा ॥ ”
(तदेव गगनं सैव धरा) [२२]

उपसंहार-रूपेण एतत् वक्तुं पार्यते यत् मानवतायाः या अस्मिता विद्यते, तस्याः अभ्युदय-साधनार्थं सदाचार-संहिता एव मूल-मन्त्र-दीक्षा । श्रीरथस्य काव्ये तत्त्वमिदं सुप्रतिपन्नम् । वास्तव-घटनानां काव्य-रूपायने पृष्ठभूमिः सामाजिकी एव । गीत्याकारेण अत्र वस्तु-समुपस्थापने काव्य-दोषादीनामवकाशो नास्ति । संस्कृत-गीतिकाव्य-परम्परायां श्रीरथस्य महदिदं सारस्वतमवदानं सचेतसां स्मरणीयमेव ।
* *


पाद-टीका :

[१] ‘तदेव गगनं सैव धरा’ गीतिकाव्यम्,
[रचयिता श्रीनिवास-रथः], राष्ट्रिय-संस्कृत-संस्थानम्, नवदिल्ली, १९९५.

[२] तत्रैव, पृष्ठा - 117.

[३] मनुस्मृति: (१/१०८), पृष्ठा - 32.
[संपादक - पण्डित हरगोविन्द शास्त्री]
चौखम्बा संस्कृत सीरीज आफिस, वाराणसी, 1970.

[४] तत्रैव, (8/15), पृष्ठा - 378.

५] मम्मटाचार्य-विरचितः काव्यप्रकाशः (१/२, वृत्ति), पृष्ठा - ५.
[व्याख्याकार डॉ. सत्यव्रत सिंह], चौखम्बा विद्याभवन, वाराणसी, १९७३.

[६] ‘तदेव गगनं सैव धरा’, पृष्ठा - 113.

[७] तत्रैव, पृष्ठा - 91.

[८] यजुर्वेद-संहिता (7/14), [ सं पण्डित एस्. डी. सातबलेकर]
स्वाध्याय मण्डल, पारड़ी, १९४९.

[९] मनुस्मृतिः. (2 / 20), पृष्ठा - 40.

[१०] ‘तदेव गगनं सैव धरा’, पृष्ठा - 109.

[११] तत्रैव, पृष्ठा - 85.

[१२] तत्रैव, पृष्ठा - 129.

[१३] मनुस्मृतिः (३/५६), पृष्ठा - 113.

[१४] ‘तदेव गगनं सैव धरा’, पृष्ठा - 125.

[१५] तत्रैव, पृष्ठा - 93.

[१६] तत्रैव, पृष्ठा - 133.

[१७] तत्रैव, पृष्ठा - 4.

[१८] तत्रैव, पृष्ठा - 129.

[१९] तत्रैव, पृष्ठा - 155.

[२०] तत्रैव, पृष्ठा - 41.

[२१] तत्रैव, पृष्ठा - 33.

[२२] तत्रैव, पृष्ठा - 7.
* * *

[Published in ‘Drik’ ( Sanskrit Journal) Vol -21, Jan-June 2009, pp. 35 - 43.
of Drig Bharati, 1/32, MIG Avas Vikas Colony,Yojana-3, Jhusi, Allahabad, 

Uttar Pradesh, India. ]

This paper was presented and appreciated in All India Oriental Conference (41st Session) 
held at Sri Jagannatha Sanskrit University, Puri during 14-16 December 2002.
= = = = = = = = =