Friday, March 28, 2014

सौन्दर्य-पञ्चकम् : Saundarya-Panchakam (Sanskrit Poem): Dr. Harekrishna Meher

Saundarya-Panchakam’
Sanskrit Poem by : Dr. Harekrishna Meher

- - - - - - - - - - - - - - - - - - - - - - - - - - - - 

सौन्दर्य-पञ्चकम्
  (संस्कृत-कविता) 
रचयिता : डा. हरेकृष्ण-मेहेरः 
('सौन्दर्य-सन्दर्शनम्' -काव्यतः)  
= = = = = = = = = = = = = = = = = 

नेत्र-निर्जित-नीलोत्पलायाः
द्युति-पलायित-चपलायाः
कान्तायाः कान्त-कुन्तलायाः
समलङ्‍कृत-भूतलायाः
विलोक्य लपनमतन्द्रो धृत-म्लानिः.
सलज्जं जलद-जाल-मध्ये
साभिमानमात्मानं गोपायते
वराको राकाजानिः,
कलङ्क-लेखाङ्कित-कलेवरः
कलितामृत-किरणोऽपि कलाकरः ॥ (१ )
*
अहो ! कीदृशी हारिणी
सङ्गीतिका सरागिणी
कमनीय-पद-समन्विता
कल्पना-विभाविता
नियतं मोहयति हृदयम्
प्रविशन्ती सुस्वरं श्रवण-विवरे
सुप्रियं पीयूषमयम्
विगलित-वेद्यान्तरं वितरन्ती
वेदनां सर्वां दूरं निवारयन्ती ॥ (२)
*
प्रवहति समीरणः
करम्बित-विशदाम्बु-कणः
नुदितो मन्द-मन्दं
वितनोति मनोभवने विशेषं
पुलक-विपुलं भावाश्‍लेषं
प्रमदायाः समुदित-मुदित-स्पन्दं
सुकुमार-स्पर्श-समुचितम्,
प्रति-प्रतीकं समुल्लासयन्
क्लान्तिं श्रान्तिं च निरासयन्
सञ्जनयन् किञ्चित् प्रेमाञ्चितम् ॥ (३)
*
अहो ! विचित्रता सुगन्धस्य
जगति वियति वितत-भाव-बन्धस्य
विवृणुते स्वरूपमात्मनः
समाकर्षति सघ्राणं प्राणि-मनः ।
कमलिन्याः सुरभिरभितः
प्रफुल्लायाः समुल्लास-भरितः
निविशते मानसं सानन्दः
मधुरो मधुकरः काम्य-मकरन्दः ।
नन्दति प्रेयसी रसिका
भजते सार्थकतां नासिका ॥ (४)
*
माधुर्यमहो ! भोजनस्य
रसनाया विकृति-निरसनस्य,
स्वादु त्विदं स्वस्मै रोचते
मनोज्ञं यज्जनः समुपासते ।
कान्ताधर-स्वाद-प्रतीकाशः
ब्रह्मानन्द-सहोदर्य-विकाशः
सुधोपमा तृप्ति-र्विधीयते
न केवलं जिह्वया बाह्या,
अपितु प्रीतिः सम्पाद्यते
साग्रहं हृदय-ग्राह्या ॥ (५)
* * *
 


(This poem published in “Kāntāraka”, 2005, Bhawanipatna,
is from Sanskrit Kāvya ‘Saundarya-Sandarshanam'.) 

* * *
English Translation by the Author : 
Link : 
* * * * * 

Related Links : 
Saundarya-Sandarshanam 
http://hkmeher.blogspot.in/2016/04/sanskrit-kavya-saundarya-sandarshanam.html
*
Contribution of Dr. Harekrishna Meher to Sanskrit Literature:  
Translated Works of Dr. Harekrishna Meher : 
http://hkmeher.blogspot.in/2016/08/translated-works-of-dr-harekrishna-meher.html
 = = = = = 

No comments: