‘Swaagatikaa’
(Welcome Song)
Sanskrit Lyrics and Tuning By :
Dr. Harekrishna Meher
= = = = = = = = = = = =
* स्वागतिका
*
गीति-रचना तथा स्वर-संयोजना : डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = = = =
स्वागतम्, अभिनन्दनम् ।
गुरुजनेभ्यो वन्दनम् ।
गुरुजनेभ्यो वन्दनम्, अतिथि-जनेभ्यो वन्दनम् ।
सादरम् अभिनन्दनम् । स्वागतम्, अभिनन्दनम् ।
सभा-जनानां सुभाजनानां
पदार्पणं वै पावनम् ।
स्वागतम्, अभिनन्दनम् ।
स्वागतम्, अभिनन्दनम् ॥ (ध्रुवम्)
*
सुप्रतिभायां प्रकाशते, सुधी-सभायां विराजते ।
इदानीन्तनं पुण्य-चिन्तनं तत्त्व-मन्थनं
प्रशस्यते ।
शुभोपदेशं नव-सन्देशं
कामयामहे शोभनम् । सार-गर्भमुद्बोधनम् ।
हर्षभरं
दिग्दर्शनम् । स्वागतम् अभिनन्दनम् ॥ (१)
*
विद्या महसां प्रकाशिनी, दुष्कृति-तमसां
विनाशिनी ।
मण्डितासना विज्ञ-मण्डली नव-जिज्ञासा-विकाशिनी ।
कृते समेषां सधन्यवादं
कृतज्ञताया ज्ञापनम् । हार्द-भावना-वर्धनम् ।
सादरम् अभिनन्दनम् । स्निग्ध-सुमधुरं स्पन्दनम् ।
स्वागतम् अभिनन्दनम् । भाव-सुगन्धं चन्दनम् ।
सादरम् अभिनन्दनम् । सभाजनेभ्यो वन्दनम् ।
स्वागतम्, अभिनन्दनम् । स्वागतम्,
अभिनन्दनम् ॥ (२)
= = = = = = =
(इयं गीतिका कहरवा-ताल-मध्यलयेन परिवेषणीया ।)
= = = = = = =
(इयं गीतिका कहरवा-ताल-मध्यलयेन परिवेषणीया ।)
= = = = = = =
(Extracted from Sanskrit Gitikavya ‘Pushpanjali-Vichitra’
of Dr. Harekrishna Meher)
of Dr. Harekrishna Meher)
= = = = = =
'Pushpanjali-Vichitra' Kavya Link :
= = = = = =
(This Welcome Song was presented by girl-students of PG Department
(This Welcome Song was presented by girl-students of PG Department
of Sanskrit, Gangadhar Meher Autonomous
College, Sambalpur, Odisha
in the Departmental Ceremony held on 24-8-2013)
= = = = = = in the Departmental Ceremony held on 24-8-2013)