Original Sanskrit Poem
‘Vikalmashaah’
By: Dr. Harekrishna Meher
*
विकल्मषाः
* डॉ. हरेकृष्ण-मेहेरः
=
= = = = = = = = = = =
सर्वे रत्नाकराः
न विकल्मषा वाल्मीकयः,
सर्वे सुधाकराः
न शीतांशवः कलानिधयः ॥
सर्वे शङ्कराः
न हालाहल-पान-नीलकण्ठाः,
सर्वा राधिकाः
न कृष्ण-राग-समागमोत्कण्ठाः ॥
सर्वे वामनाः
न बलि-नियमन-कामनाः,
सर्वे उपमन्यवः
न गुरु-भक्ति-साधवः,
सकला एकलव्याः
न द्रोण-गुरु-शरव्याः ॥
सर्वे पुरुषोत्तमाः
न वृत-रमाः ।
सर्वे कालिदासाः
न काव्य-रस-विलासाः,
सर्वा वनिताः
न पातिव्रत्य-धर्म-ध्वनिताः ॥
सर्वे शासकाः
न लोक-विधान-समुपासकाः,
सर्वे नेतारः
न जन-हित-वेत्तारः ॥
समस्ता मन्दाकिन्यः
न भगीरथ-दिग्दर्शिन्यः ।
सर्वा याज्ञसेन्यः
न पार्थ-सनाथाः,
सर्वाः कविता न कालजयिन्यः
नापि हृदयस्पर्शि-गाथाः ॥
सर्वे देश-निवासिनः
न राष्ट्रियता-सुवासिनः,
सर्वे महेन्द्राः
न देवाधिराजा वज्रिणः,
किन्तु सर्वे विश्वादिकन्द-केन्द्राः
सम-गुण-शोणित-धारिणः ॥
* * *
No comments:
Post a Comment