Friday, September 7, 2018

आशा : Aasha (Sanskrit Sonnet) : Dr. Harekrishna Meher

Aasha (Sanskrit Sonnet)
By: Dr. Harekrishna Meher
= = = = = = = 
आशा 
(वसन्ततिलक-नाम्ना चतुर्दशाक्षर-वृत्तेन रचिता
चतुर्दश-पङ्क्तिका कविता,  आङ्ग्ल-सॉनेट्-स्वरूपा)
* डॉ. हरेकृष्ण-मेहेरः
= = = = = = = 

आशां विना सफलो  भुवि जीवनार्थः 
मान्यास्ति  शून्य-हृदये  स्फुरित-प्रकाशा   
यां प्राप्य तुष्यति जनः  सततं कृतार्थः
सा जीवनी मधुनिधान-सुधा-निकाशा   

आशा हि तोयममृतं  मरुभूमि-मध्या  
सा भाति भाग्यवशतः सुफलं दधाना
सन्ध्याऽपि सा मधुमयी कदापि वन्ध्या 
धत्ते स्वरूपमनिशं  जगतीह नाना

काम्यं वै दुरधिरोहणमत्र धीरैः
पूर्णा न सा यदि तदा  धृत-दुःख-दंशा
सत्कार्य-साधन-विधौ  प्रिय-कर्म-वीरैः
सोपानमस्ति महसां  चिरमुज्ज्वलं सा

तृष्णा-तरङ्ग-भरिता  भव-मोहजाले    
पुष्णाति किं शुभफलं  विषमे विशाले
* * * 
(From * Pushpanjali-Vichitra * Kavya of Harekrishna Meher) 
= = = = = 

Related Links :  
‘पुष्पाञ्जलि-विचित्रा’ (संस्कृत-गीतिकाव्यम्) 
http://hkmeher.blogspot.com/2016/01/pushpanjali-vichitra-sanskrit-kavya.html
* * * 
Contributions to Sanskrit Literature : 
http://hkmeher.blogspot.com/2013/04/drharekrishna-mehers-contributions-to.html
= = = = = 

No comments: