* सांसारिकम् *
(मौलिक-संस्कृत-कविता)
रचयिता :
डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = =
आपात-रम्य-सुखराशि-रसे
निमग्नः
पापादि-दारुण-महोदर-मध्य-लग्नः
।
व्यापाद्य
मानविकताचरितां स्वकान्तिं
तापान्
विषह्य विविधान् किमुपैति शान्तिम् ॥ (१)
*
कामादि-सक्त-हृदयं
मदयन् सगर्वं
वामाध्वना
भुवि जनो हरतीह सर्वम् ।
सामान्य-मानव-तनुं
गणयन् प्रकामं
नामात्मनः
कलुषितं कुरुतेऽभिरामम् ॥ (२)
*
स्वान्तं
यदा विचलितं सभयं सशङ्कं
ध्वान्तं न
याति परिहृत्य यदा हृदङ्कम् ।
नान्तं च
याति कलुषं वृत-रक्तपातं
शान्तं कथं
भवति वा परिवेशजातम् ॥ (३)
*
प्रालेय-शैलगतमुज्ज्वल-शीतलत्वं
काले
कला-सुकलितं ग्रहणीय-तत्त्वम् ।
भालेऽस्ति
यत्तु लिखितं न कदापनेयं
ताले च
नृत्य-मधुरे सरसं हि गेयम् ॥ (४)
*
किं जीवनं
सविजयं धृत-नैक-शस्त्रं
किं सीवनं
प्रियकरं प्रतिजीर्णवस्त्रम् ।
किं जीवनं
सुखमयं निरतोपभोगं
किं जीवनं
हृत-दयं वृत-विप्रयोगम् ॥ (५)
*
विश्वास एव
भुवि चेत् स्वजनेषु छिन्नः
निःश्वास एव
तनुषु प्रतिभाति खिन्नः ।
विश्वात्मना
कथमहो मिलनं भवेद् वा
निःस्वार्थभाव-भरिता
यदि नास्ति सेवा ॥ (६)
*
वेशा भवन्तु
विविधाः किमु तत्र चित्रं
देशात्मबोध-रचना
तनुतां पवित्रम् ।
लेशा अपीह
सुकृताचरणेषु नित्यं
क्लेशापनोदन-कृते
प्रभवन्ति सत्यम् ॥ (७)
= = =
(वसन्ततिलका-छन्दसा विरचिता मौलिकी कविता)
= = =
(This Poem is Included in Svasti-Kavitanjalih
Kavya)
FaceBook Link :
= =
Svasti-Kavitanjalih (Sanskrit Gitikavya): Dr. Harekrishna
Meher :
https://hkmeher.blogspot.com/2022/07/svasti-kavitanjalih-sanskrit-gitikavya.html
* *
Contributions of Dr.Harekrishna Meher to Sanskrit Literature :
https://hkmeher.blogspot.com/2013/04/drharekrishna-mehers-contributions-to.html
*
Biodata: Dr. Harekrishna
Meher :
http://hkmeher.blogspot.com/2012/06/brief-biodata-english-dr-harekrishna.html
= = =