मूलस्वरानुकूल-संस्कृतगीतानुवादक: -
डॉ. हरेकृष्ण-मेहेर:
*********
(नारी-स्वर-गीतम्)
--------
विस्मारयितुम्, न मां शक्तास्येवम् ।
आम्, विस्मारयितुं न मां शक्तासि त्वम् ।
यदा कदाचित्, मम श्रोतासि गीतम्,
त्वमपि साकम्, करिष्यसे गुञ्जम् ।
विस्मारयितुं न मां शक्तास्येवम् ।। (०)
*
गतं वृत्तं किञ्चिद् हि चिन्तय त्वम्,
ब्रूहि किञ्चित्, किञ्चिद् मां ब्रूहि गिरम् ।
हृद्-रहस्यं वदिष्यामि त्वां वै,
अस्मि तेऽहम्, तद् मानितासि त्वम् ।
विस्मारयितुं न मां शक्तास्येवम् ।। (१)
*
त्वं सम्यग् बोध मौनजातं मे,
यापितं जीवनं स्मृतौ नूनम् ।
लीनाऽहं वै, तवास्मि काङ्क्षायाम्,
कर्त्तासि कियत्, पुनर्लीनां मां त्वम् ।
विस्मारयितुं न मां शक्तास्येवम् ।। (२)
*
हृदभ्यन्तरे मया ते प्रेम कृतम्,
जीवनं चापि स्वं मम ह्यर्पितम् ।
पीडित: को जनोऽस्ति मार्गे ते,
यच्चिन्तितासि, वेदितासीदम् ।
विस्मारयितुं न मां शक्तास्येवम् ।। (३)
====
Translation done in August 2025.
****
Blog Post:
Tum Mujhe Yun Bhula Na Paoge (Female Tone): Sanskrit Version Lyrics :
https://hkmeher.blogspot.com/2026/01/tum-mujhe-yun-female-song-sanskrit.html
------
Related Link :
Tum Mujhe Yun Bhula Na Paoge (Male Tone): Sanskrit Version Lyrics :
https://hkmeher.blogspot.com/2026/01/sanskrit-version-male-tone-sanskrit.html
**
Chalachitra-Gita-Sanskritayanam (Anthology of Sanskrit Version Film Songs):
http://hkmeher.blogspot.com/2017/05/chalachitra-gita-sanskritayanam.html
*****
