Original Sanskrit Poem
Śrī-Jagannātha-Prārthanā
By : Dr. Harekrishna Meher
= = = = = = = = = = = = =
श्रीजगन्नाथ-प्रार्थना
रचयिता : डॉ. हरेकृष्ण-मेहेरः
[१]
शुभं सुभद्रा-बलभद्र-सङ्गतं
नमामि नाथं जगतां
वरेण्यम् ।
ओंकार-रूपं भुवि
दारु-दैवतं
वेदान्त-वेद्यं
महतां शरण्यम् ॥
*
[२]
नतोस्मि विष्णुं
हृदि राजमानं
नीलाद्रि-वासं
करुणा-निधानम् ।
वृन्दारकै-र्वन्दित-पाद-पुष्करं
ब्रह्म-स्वरूपं
पुरुषोत्तमं परम् ॥
*
[३]
अपाणि-पादं मनसां
प्रसादं
कृष्णं गुणातीतमजं
सुरेशम् ।
तपोधनैरर्चित-पुण्य-पादं
वन्दे विभुं तं
धृत-विश्व-वेशम् ॥
*
[४]
लक्ष्मीपतिं शङ्ख-गदाब्ज-चक्रिणं
श्रीवासुदेवं दुरितापहारिणम्
।
रथोत्सवे दर्शित-चारु-विग्रहं
भक्त्या तमीशं
शिरसा नमाम्यहम् ॥
*
[५]
प्रदेहि चित्ते
विमलावकाशं
गतान्धकारं वितर
प्रकाशम् ।
कुरुष्व मे कल्मष-राशि-नाशं
हर प्रभो ! संसृति-बन्ध-पाशम्
॥
*
[६]
मैत्रीं प्रशान्तिं
सुखदां चिरन्तनं
तनोतु विश्वे तव
नाम-चिन्तनम् ।
आत्मीयता-रूप-रसो
महीयतां
प्रभो जगन्नाथ
! कृपा विधीयताम् ॥
= = = = = = = = = = = = =
= = = = = = = = = = = = =
(Published in Sanskrit Journal “Samskrita-Pratibha” Vol. 23 / 2,
Oct. 2000 - March 2001, Sahitya Akademi, New Delhi)
= = = = = = = = = = =
= = Revised Poem
= = = = = = =
श्रीजगन्नाथ-प्रार्थना (संस्कृत-कविता)
रचयिता : डॉ. हरेकृष्ण-मेहेरः
= = = = = = =
शुभं सुभद्रा-बलभद्र-सङ्गतं
नमामि नाथं जगतां वरेण्यम् ।
ओंकार-रूपं भुवि दारु-दैवतं
वेदान्त-वेद्यं महतां शरण्यम् ॥ (१)
*
नतोऽस्मि विष्णुं हृदि राजमानं
नतोऽस्मि विष्णुं हृदि राजमानं
नीलाद्रि-वासं करुणा-निधानम् ।
वृन्दारकै-र्वन्दित-पाद-पुष्करं
ब्रह्म-स्वरूपं पुरुषोत्तमं परम् ॥ (२)
*
अपाणि-पादं मनसां प्रसादं
अपाणि-पादं मनसां प्रसादं
कृष्णं गुणातीतमजं सुरेशम् ।
तपोधनैरर्चित-पुण्यपादं
वन्दे विभुं तं धृत-विश्ववेशम् ॥ (३)
*
लीला विचित्रा तव मानवायिता
लीला विचित्रा तव मानवायिता
शारीरिकी भङ्गुरता प्रदर्शिता ।
वार्त्तास्ति मर्त्त्ये परिवर्त्तते तनुः
सत्यं हि मृत्यु-र्नियतं पुनर्जनुः ॥ (४)
*
पुरातनं दारुमयं कलेवरं
*
पुरातनं दारुमयं कलेवरं
त्यक्त्वा प्रभो हे ! समये समागते ।
दधासि देहं नवदारु-सुन्दरं
सांसारिकी रीतिरियं जगत्पते ! ॥ (५)
सांसारिकी रीतिरियं जगत्पते ! ॥ (५)
*
लक्ष्मीपतिं शङ्ख-गदाब्ज-चक्रिणं
लक्ष्मीपतिं शङ्ख-गदाब्ज-चक्रिणं
श्रीवासुदेवं दुरितापहारिणम् ।
रथोत्सवे दर्शित-चारु-विग्रहं
भक्त्या तमीशं शिरसा नमाम्यहम् ॥ (६)
*
प्रदेहि चित्ते विमलावकाशं
प्रदेहि चित्ते विमलावकाशं
गतान्धकारं वितर प्रकाशम् ।
कुरुष्व मे कल्मषराशि-नाशं
हर प्रभो ! संसृति-बन्ध-पाशम् ॥ (७)
*
मैत्रीं प्रशान्तिं सुखदां चिरन्तनं
मैत्रीं प्रशान्तिं सुखदां चिरन्तनं
तनोतु विश्वे तव नाम-चिन्तनम् ।
आत्मीयता-रूप-रसो महीयतां
प्रभो जगन्नाथ ! कृपा
विधीयताम् ॥ (८)
= = = = = = =
(Published as *Aavaahani* Opeming Verses in “BARTIKA”
Odia Literary Quarterly, Special Puja Issue,
October-December 2015, Dasharathpur, Jajpur, Odisha)
= = = = = = October-December 2015, Dasharathpur, Jajpur, Odisha)
Related Links :
Stavarchana-Stavakam (स्तवार्चन-स्तवकम्)
:
* *
*
Contributions of Dr. Harekrishna Meher to Sanskrit
Literature:
Link
:
*
Translated Kavyas by : Dr.Harekrishna Meher :
Link :
= = = =
=
No comments:
Post a Comment