Monday, January 26, 2009

Sanskrit Poem ‘Satyam’ (The Truth)/ Harekrishna Meher

‘Satyam’ 
Sanskrit Poem by : Dr. Harekrishna Meher 
*
सत्यम् (संस्कृत-कविता)
रचयिता : डा. हरेकृष्ण-मेहेरः  

= = = = = = = = = = = = = = = = = = = = 
सत्यं सत्यमिति वक्तुं
नैके कुण्ठिताः,
सत्यं सत्यमिति स्वीकर्त्तुं
नैके कुण्ठिताः,
सत्यं सत्यमिति प्रतिपादयितुं
नैके कुण्ठिता लुण्ठिताः,
सत्यं मिथ्येति कथयितुं
नैके समुत्कण्ठिताः ॥
*
प्रवञ्चनायाः घनावरण-मध्ये
सत्यं ह्यसत्यमिति दर्शयितुं
प्रयत्न-परा अनेके सांसारिकाः,
स्वकीय-स्वार्थ-सिद्धि-निमित्तम्
अथवा स्वात्म-रक्षायै भीत-चित्तम्
अथवा अन्य-हेतु-वशतो हृत-विवेकाः ।
परन्तु को वा समर्थः
सत्यस्य स्वरूपं विज्ञातुं वस्तुतः ॥
*
क्षुरस्य धारा तीक्ष्णा
इति जानन्तोऽपि केचित्
दृढ़ात्म-प्रत्यय-सहकारेण
समीहन्ते प्रयतन्ते सत्यं सत्यमिति
वक्तुं स्वीकर्त्तुं प्रतिपादयितुं च
अत्रस्ताः सर्वत्र प्रदर्शयितुं
देश-काल-पात्र-निर्विशेषेण,
ततः पराजय-व्यथया मिथ्या रोदिति ॥
*
सत्यस्य विजयो भवतीति सुनिश्‍चयः ।
विजय-शब्दादेव सूच्यते
सङ्‍घर्षः संग्रामः सक्रियता द्वन्द्वं वा ।
ससङ्‍घर्षेण सक्रियेणासत्येन
असङ्‍घर्ष-निष्क्रिय-सत्योपरि
विजयो भवतु नाम सामयिकः ।
सत्यासत्ययोः सङ्‍घर्षे सञ्जाते
सङ्‍घर्ष-रतस्य सत्यस्य मिथ्योपरि
विजयो भवति शाश्‍वतिकः ॥
*
असत्यस्य विजयो मायाच्छन्नः,
सत्यमेव धर्मश्‍चिरन्तनः ।
सर्वोपरि परिणामे
सत्यमेव विजयते द्वन्द्वग्रामे संग्रामे,
जयति ज्योति-र्यथा
निरस्त-तमस्तोमम्,
अधःकृतोऽपि कृशानुरूर्ध्वगामी सर्वथा
न कदापि भजते विलोमम् ॥
* *


(This Poem taken from Sanskrit Kāvya ‘Mauna-Vyañjanā’
has been published in “Lokabhāshā-Sushrīh”, August-September 2005 Issue,
of Lokabhāshā Prachār Samiti, Saradhābāli, Puri.)

* * *

No comments: