Saturday, May 23, 2009
Purushottama-Gītikā (Sanskrit Song) / H.K.Meher
Purushottama-Gītikā (Song for Lord Jagannātha)
Sanskrit Lyrics and Tuning by : Dr. Harekrishna Meher
( Extracted from Sanskrit Kāvya ‘Mātrigītikāñjalih’)
= = = = = = = = = = = = = = = = = = = = =
पुरुषोत्तम-गीतिका
गीत-रचना तथा स्वर-संयोजना : डॉ. हरेकृष्ण-मेहेरः
(‘मातृगीतिकाञ्जलिः’ - काव्यतः)
= = = = = = = = = = = = = = = = = = = = =
प्रणमामि तम्,
प्रणमामि तं भुवि वन्दितम् ;
जन-हृदय-मन्दिर-नन्दितम् ।
जगन्नाथं परात्मानं
सर्व-तनुषु स्पन्दितम् ।
प्रणमामि तम् ॥ (ध्रुवम्)
*
पुरुषोत्तमं लीलामयम्,
अविनाशिनं विभुमव्ययम् ।
धृत-दारु-दैवत-विग्रहम्,
प्रणव-रूपं प्रणमाम्यहम् ।
ब्रह्म हंसं स्वप्रकाशं
श्रुतिषु सत्प्रतिपादितम् ।
प्रणमामि तं भुवि वन्दितम् ।
प्रणमामि तम् ॥ (१)
*
बलभद्र-भद्राभ्यां समम्,
नम चित्त ! तं पुरुषोत्तमम् ।
त्रिगुणात्मकं रत्न-त्रयम्,
भूर्भुवःस्वः – परमालयम् ।
दीनबन्धुं दयासिन्धुं
भक्ति-पुष्प-निवेदितम् ।
प्रणमामि तं भुवि वन्दितम् ।
प्रणमामि तम् ॥ (२)
*
वारांनिधि-तट-निकेतनम्,
भज पतितपावन-केतनम् ।
श्रित-नीलगिरिवर-कन्दरम्,
सत्यं शिवं चिर-सुन्दरम् ।
शङ्खनाभि- क्षेत्र-सुभगं
साधु-जनाभिनन्दितम् ।
प्रणमामि तं भुवि वन्दितम् ।
प्रणमामि तम् ॥ (३)
*
शरणार्ति-हरण-परायणम्,
प्रभुमनन्तं नारायणम् ।
वृत-जगज्जननी-सुस्मितम्,
वासुदेवं विनतोऽस्मि तम् ।
आदिकन्दं श्रीमुकुन्दं
विबुध-वृन्दामोदितम् ।
प्रणमामि तं भुवि वन्दितम् ।
प्रणमामि तम् ॥ (४)
*
तुलसी-लसित-सीतावरम्,
चैतन्य-नुत-मुरलीधरम् ।
भैरवं भजे गजाननम्,
खग-वाहनं ससुदर्शनम् ।
इन्दिरेशं दिव्य-वेशं
बुद्ध-रूपमनिन्दितम् ।
प्रणमामि तं भुवि वन्दितम् ।
प्रणमामि तम् ॥ (५)
*
रथ-महोत्सवे जगत्पते !
त्वयि मन्दिराद् बहिरागते ।
जन-लोचनं गोविन्द ! ते,
शुभ-दर्शन-रसं विन्दते ।
नन्दिघोष- स्यन्दन-गतं
शङ्ख-घण्टा-नादितम् ।
प्रणमामि तं भुवि वन्दितम् ।
प्रणमामि तम् ॥ (६)
*
त्वयि धर्म-सकलं लीयते,
त्वयि कर्म-सकलं क्षीयते ।
चरणं तव कलुष-वारणम्,
शरणं हरे ! मम तारणम् ।
भवतु नामा- मृतं शिवदं
स्वान्त-तन्त्री-स्यन्दितम् ।
प्रणमामि तं भुवि वन्दितम् ।
प्रणमामि तम् ॥ (७)
= = = = = = = = = = = = = = = = = = =
(इयं गीतिका रूपक-तालस्य अथवा दीपचन्दी-तालस्य मध्य-लयेन परिवेषणीया ।)
* * * * *
Subscribe to:
Post Comments (Atom)

0 comments:
Post a Comment