Monday, September 12, 2011

Abhimatam (‘Mātŗigītikāñjalih’ Kāvya)- Prof. Srinivas Rath


‘Mātŗigītikāñjalih’
(A Modern Sanskrit Gitikavya of 25 lyrics
composed with original new metres and tuning)

Author : Dr. Harekrishna Meher
Published by : Kalahandi Lekhak Kala Parishad,
Bhawanipatna, Kalahandi, Orissa.
First Edition : 1997 A.D.
= = = = = =


(Extracted from the above Book)

Abhimatam
By : Prof. Shriniwas Rath
Retired Professor & Head,
School of Studies in Sanskrit, Vikram University. Ujjain
& Ex-Director, Kalidasa Academy, Ujjain, Madhya Pradesh (India)
= = = = = = =

अभिमतम्
* आचार्यः श्रीनिवास-रथः
= = = = = = = = = =

वाचि विद्योततेऽनुभूतार्थ-व्यक्तिस्वरूपा व्यवहार-कालावधि-जीवित-स्वभावा मनुज-समाजाश्रिता शक्तिः काचन भाषा नाम । देशकालादि-भेदेनानन्तरूपा यावद्-भुवन-विस्तृता सेयं भाषा जगदिव गाहते नियत-परिवर्त्तनशीलताम् । तत्तद्-देशकाल-भाषाविष्कृत-वस्तुनि सुतरां विजृम्भन्ते विचार-वल्लरी-कुसुमानि । भाषाधीनं भवति साहित्यम् । साहित्यपरम्परया सुदूर-कालभाषाश्रितान्यपि सूक्ति-कुसुमानि प्रतिनव-विकसितानीव राजन्ते चिराय जन-मनोहारीणि । साहित्यामृत-सेकमन्तरा सुमहत्-प्रयत्न-परिरक्षिताऽपि भाषा कालक्रमेण परिवर्त्तिनि संसारे भवति विलुप्त-दर्शना । प्राचीन-भाषासाहित्य-सम्पदः सैषा स्थितिः तत्तत्साहित्येतिहास-ग्रन्थेषु परिचीयत एव सुप्रतीता । तत्र च साहित्यानुशीलन-प्रसङ्गेनैव चिरत्न-भाषासु निरन्तराविच्छिन्न-परम्परा-विद्योतित-स्वरूपा याथातथ्येन कालक्रम-गणनातिक्रान्त-श्रुतिपरम्पराभिरक्षित-कलेवरा वैदिक-लौकिकाद्यपरिमित-साहित्य-निधानभूताद्यापि जागर्ति निरन्तर-साहित्यरचना-वेशेषिताकारा सरसा संस्कृत-भाषा । विविध-भारतीय-भाषा-साहित्योपजीव्यतया न केवलं भारतीयैः प्रत्युत वैदेशिकैरपि मनीषिभिः सस्पृहमधीयते संस्कृत-साहित्यम् ।

सेयं स्थितिः प्रत्यक्षतामनायि बेङ्गलूर-नगरेऽचिर-संवृत्तेन दशम-विश्वसंस्कृत-सम्मेलनेन । तत्र विविध-विद्याविचक्षणा नानादेशागताः परःसहस्राः संस्कृताधीतिशालिनो विद्वांसः साम्प्रतिकत्वेऽपि संस्कृतस्य विश्वजनीनं स्वरूपं सभाजयाञ्चक्रिरे । सम्मेलनमिदमयोजि भारतशासन-प्रतिनिधित्वेन राष्ट्रिय-संस्कृत-संस्थानेनातिथेयत्वेन च तरलबालुकेन्द्राधीश्वरेण श्रीमता शिवमूर्त्तिस्वामिना । तथा च,


सुरेन्द्रभवनोपमे तरलबालुकेन्द्राजिरे
नियोज्य सुरभारती-दशम-विश्व-सम्मेलनम् ।
चिराय शिवमूर्त्तिना सुकृतिना महास्वामिना
सनातन-परम्परानुगत-वैदुषी सत्कृता ॥ (१)

दिगन्तर-समागतै-र्विविध-शास्त्र-पारङ्गतै-
र्बुधैः सुरगिराऽन्वहं बुध-सभासु चर्चारतैः ।
अनायि दिन-सप्तकं क्षणमिवान्य-चिन्तां विना
सुधीभिरिह भारते सुरगवी-समाराधने ॥ (२)

न केवल-परम्पराधिगत-शात्र-चर्चादिभिः
समाप्तिमगमत् सभा विदित-विश्व-विद्यावताम् ।
मुदं व्यतनुताधुनातन-कवित्व-चर्या सतां
प्रसन्न-कविता-झरी-रसभरैः सुधा-सोदरैः ॥ (३)


साम्प्रतिक-संस्कृत-कविता-सत्रेण साकं पूर्णतामभजत विश्व-संस्कृत-सम्मेलनम् ।

आयुष्मता हरेकृष्ण-मेहेरेण समं तदा ।
कवि-संसदि तत्रैव जातः परिचयोऽपि नः ॥ (४)


कवे-र्मनोहरस्यायं पौत्रः सुमति-नन्दनः ।
हरेकृष्ण इति ख्यातः कविनारायणात्मजः ॥ (५)

उत्कलेषु कलाहाण्डि-मण्डले लोक-विश्रुते ।
भवानीपाटना-नाम्नि नगरेऽवस्थितोऽधुना ॥ (६)


राजकीये महाविद्यालये शिष्यजन-प्रियः ।
संस्कृताध्यापनाचार्य-पदवीमाश्रितः सुधीः ॥ (७)

नैषधीये महाकाव्ये कृत-भूरि-परिश्रमः ।
स्वयं सुरगवी-गीति-रचनानुरतः कविः ॥ (८)


अथ संस्कृत-नवगीति-रचना-कविना श्रीहरेकृष्ण-मेहेरेण मातृगीतिकाञ्जलिरिति प्रकाशतामानीयते पञ्चविंशति-गीतिकालङ्कृतः स्वरचित-गीतिका-काव्य-सङ्ग्रहः । सङ्ग्रहेऽस्मिन् कवित्वबोध-बन्धुरा गीतिका विविध-विषय-भासुरा दीप्यन्ते । भारतीय-कवितासु गीतिकाव्य-परम्परा भक्ति-रसायनभूता वितनोति समेषामानन्दम् । प्रस्तावना-पद्येषु
“गीर्वाण-वाणी-नीराजनार्थं
प्रस्तूयते मे गीत्यावलीयम् ।”
इति स्वयं विनिवेद्य कविराशास्ते,

“भवतु गौरव-सौरभ-भास्वरा,
विजयिनी मम देश-परम्परा ।”
इति ।

मातृगीतिकाञ्जलि-पद्येषु परम्परानुगतापि नूतन-पद-रचना-शक्तिः सुतरां प्रीणाति ।
“रवि-सङ्काशः
स्वयम्प्रकाशः
संसरणे त्वमनन्ताकाशः ।”
इति,

अबलं सबलं
शुष्कं सजलं
स्वैरं कुरुते सरलं वक्रम् ।”
इति च सुव्यक्तमुररीकुरुतः सुललित-पदक्रम-कमनीयताम् ।

आयुष्मता हरेकृष्णेन मन्ये कवित्व-बीजरूपः संस्कार-विशेषः कुल-परम्परयार्जितः । यतोऽस्य पितामहः श्रीमनोहर-मेहेर-नामाऽजनि सरस-भणितीनामाकरः कविः कविताश्रित-कीर्त्तिः । तद्वदेवास्य जनयिता श्रीनारायणोऽपि कवि-पदवीमध्यास्तेऽनितर-साधारणीम् । अथच केचनात्र कुल-परम्पराधिगत-संस्कार-रूपेण कवित्व-बीजभूतां शक्तिं न मन्यन्ते । ते तु देवता-प्रसाद-जन्यमदृष्टमेव कवित्व-शक्ति-कारणमिति तदात्मक एव संस्कार इति स्वीकुर्वन्ति । यथा तथा वा भवतु । उभयथाऽपि प्रतिपद्यत एवात्र कवयितरि संस्कारवत्त्वम् । तत्रापि सुरवाणी-शरणोऽयं प्रस्तौति मातृगीतिकाञ्जलिं बहुतराभ्यास-व्युत्पत्ति-लभ्यम् । तथा च,

“कवित्वं जायते शक्तेर्वर्द्धतेऽभ्यास-योगतः ।
अस्य चारुत्व-निष्पत्तौ व्युत्पत्तिस्तु गरीयसी ॥”


इत्युक्त-दिशा वाग्देवता-प्रसादात् कालक्रमेण चारु चारुतरं च सम्पत्स्यते संस्कृत-कवितावनी-कृतपदस्यायुष्मतो हरेकृष्ण-मेहेरस्य काव्यमित्याशास्महे । निबद्धाञ्जलिः कविरयं सदाशिषा योजयितव्यो भवति भावुकै-र्भावकैश्च । भूयश्च,

श्रीहरेकृष्ण-मेहेर-रचितो गीतिकाञ्जलिः ।
भद्रं वितनुतां लोके तनुताञ्च कवेर्यशः ॥
इति शम् ॥

प्रो. श्रीनिवास-रथः
सेवा-निवृत्तः आचार्यः अध्यक्षश्च,
संस्कृत-अध्ययन-शाला,
विक्रम-विश्वविद्यालयः, उज्जयिनी (मध्यप्रदेशः)

उज्जयिनी
अनन्त-चतुर्दशी संवत् -२०५४
१५ सितम्बर १९९७.
= = = = = = =

No comments: