Tuesday, September 13, 2011

‘Mātŗigītikāñjalih’ Kāvya (Bhūmikā / Prof. Abhiraj Rajendra Mishra)


‘Mātŗigītikāñjalih’

(A Modern Sanskrit Gītikāvya of 25 lyrics
composed with original new metres and tuning)

Author : Dr. Harekrishna Meher
Published by : Kalahandi Lekhak Kala Parishad,
Bhawanipatna, Kalahandi, Orissa.
First Edition : 1997 A.D.
= = = = = = = = = = = =

(Preface)
Bhūmikā
By : Dr. Abhiraj Rajendra Mishra

[Ex-Professor & Head, Department of Sanskrit,
Himachal Pradesh University, Simla, Himachal Pradesh
& Ex-Vice-Chancellor, Sampurnananda Sanskrit University, Varanasi, India]
*
(This ‘ Bhūmikā’ has been taken from ‘Mātŗigītikāñjalih’ Gītikāvya)


= = = = = = = = = = = = = = =
भूमिका

* डॉ. अभिराज-राजेन्द्र-मिश्र:
= = = = = = == = = = = = = = =


प्रचुर-वैभवं परिलक्ष्यते साम्प्रतिकं वृन्दारक-गवी-काव्य-वाङ्मयम् । तत्रापि खल्वरण्य-सम्पदि वासन्ती श्रीरिव किञ्विद् वैशिष्ट्यमावहतेतरां गीतिका । कस्मात् पुनरिदमिति जिज्ञासिते सति समुदयते प्रत्नैतिह्यगर्भ-समाधानम् । तच्चेदानीं विद्वन्मनोरञ्जनाय प्रस्तूयते ।

‘गीतिषु सामाख्या’ इति समुद्धरत्याचार्यो राजशेखरोऽवन्तिसुन्दरीजानिः । सामवेदाभिधाने प्रयुक्तः साम-शब्दोऽ प्यनुहरत्यभिप्राय्मिममेव । सामयति तोषयति (लय-माधुर्येण) देवानिति साम । एवं हि साम-शब्दो गीत-पर्याय एव प्रतिभाति । अनेनैतदुक्तं भवति यत् साम-पर्यायत्वाद् गीतितत्त्वमपि प्रत्नतमं वर्त्तते ।

यद्यपि काव्यशास्त्रलक्षण-विधायिभि-र्भरत-भामहोद्‌भट-मम्मटादिभि-र्गीताख्यः कश्चित् काव्य-प्रकारो न व्याख्यातः, तथापि गीत-संविधानक-विवरणभाञ्जि समुपलभ्यन्ते बहूनां प्रतिभा-परिष्ठानां कवीनां मतानि । तत्रापि प्राथम्यं भजते कविकुलगुरुः कालिदासो यः खलु मेघदूतस्योत्तरभागे सन्दर्भान्तर-व्याजेन गीत- वैशिष्ट्य-जातं प्रस्तौति । विरह-विधुरा यक्षिणी मलिन-वसनोत्सङ्गे वीणां निक्षिप्य किमपि गेयमुद्‌गातुकामा समुत्प्रेक्ष्यते कविना । कीदृशं गेयम् ? पश्यन्तु तावत्,

“ उत्सङ्गे वा मलिन-वसने सौम्य ! निक्षिप्य वीणां
मद्‌गोत्राङ्‌कं विरचित-पदं गेयमुद्‌गातुकामा ।”


अत्र कविः स्वाभिमत-गेयस्य (गीतस्य गीतेर्वा) वैशिष्ट्य-द्वयं समुदाहरति, गोत्राङ्कत्वं विरचित-पदत्वञ्चेति । कालिदास-दृष्ट्या कस्मिन्नपि गीते वैशिष्ट्य-द्वयेनानेन भवितव्यमेव ।

किमिदं गोत्राङ्कत्वं नाम ? किञ्चेदं पुन-र्विरचितपदत्वम् ?
उच्यते । गोत्रं नामोच्चारणमेव अङ्कः चिह्नं वैशिष्ट्यं यस्य तत्, तस्य भावस्तत्त्वम् । विरहिणी यक्षिणी यत् किमपि गायति, तत् निष्ठुर-दयितोपालम्भपरमेव । गीते तस्मिन् मध्ये मध्ये प्रियतम-सम्बोधन-पदानि वर्त्तन्त एव । सामान्य-वर्णन-परेषु मुक्तक-युग्मक-सन्दानितक-कलापक-कुलकादि-पद्येषु गोत्राङ्कतेयं न परिलक्ष्यते । परन्तु गीति-प्रवणे सन्दर्भे गोत्राङ्कताऽनिवार्या । प्रोषित-पतिकायै यक्षिण्यै प्रहितो यक्ष-सन्देशो गीतायते न वेत्याख्यातुं नाहं क्षमः, तथापि यक्ष-सन्देशे गोत्राङ्कत्वमिदं पदे पदे प्रतिभाति । तद् यथा -

“अव्यापन्नः कुशलमबले ! पृच्छति त्वां वियुक्तः" इति ।
“मा कौलीनादसित-नयने ! मय्यविश्वासिनी भूः" इति ।
“तत् कल्याणि ! त्वमपि नितरां मा गमः कातरत्वम्” इति ।

शाकुन्तले राज्ञी हंसपदिकाऽपि यां गीतिं गायति, तस्मिन् गोत्राङ्कतेयं स्फुटं परिलक्ष्यते ऽन्यापदेश-मुखेन ।
तद् यथा -

“अभिनव-मधु-लोलुपस्त्वं
तथा परिचुम्ब्य चूत-मञ्जरीम् ।
कमल-वसति-मात्र-निर्वृतो
मधुकर ! विस्मृतोस्येनां कथम् ?”


वस्तुतो विशिष्ट (नायक-नायिका)-नामोच्चारण-मात्रमेव न भवति गोत्राङ्कत्वम् । गोत्राङ्कत्वं पुन-र्वैयक्तिक-सन्दर्भोल्लेख-मात्रम् । गीते प्र्रियतमा प्रियतमं प्रति, प्रियतमो वा प्रियतमां प्रति यत् किञ्चिदभिव्यनक्ति, तन्न भवति सामान्य-वाचिकम् । तद् भवति गूढ़ं गूढ़ं व्यक्तिविशेष-मात्र-संवेद्यं मर्मच्छित् किमपि कथ्य-तथ्यम् । यथा रामायणे भगवती विदेहजा पवनात्मज-मुखेन सन्दिशति रामभद्राय । यथा वा भीष्मक-नन्दिनी द्विजमुखेन सन्दिशति द्वारकाधीशाय श्रीमद्भागवते । एतादृशं हृदयोद्वेगकरं करुणा-प्लावितमात्मोपन्यास-परं मर्मोद्घाटिनं सन्देशं परिशीलयन्नेव सहृदयोऽविरलाश्रु-सन्तति-क्लिन्नो जायते भावोद्रेकवशात् ।

तदिदं गीतेः सविधानकम् । गीतं नाम न सामान्य-वर्णनमात्रम् । गीतं तावन् मार्मिक-सन्दर्भ-विशेषानुस्यूताऽभिव्यक्ति-र्या प्रसह्य विगलित-वेद्यान्तरीकर्त्तुं प्रभवति । एतच्च सर्वं कवि-प्रतिभाधीनमेव । यदि गीतं सदपि तत् समाचरितुं न क्षमते, तर्हि गीतं न दुष्यति । कवि-प्रतिभैव दुष्यति तत्र । यथाह ध्वनिकारः,

“न काव्यार्थ-विरामोऽस्ति यदि स्यात् प्रतिभा गुणः ।”

गीतस्य पदशय्यापि काव्यान्तर-पदशय्यामतिशेते । यतो हि कथावर्णनमात्र-पराणि प्रायेण काव्यान्तराणि । गीतं पुन-र्भाव-संवेदनोपवृंहणपरं किमपि विलक्षणमेव तत्त्वम् । अतएव विरचितपदत्वं तस्य महद् वैशिष्ट्यं प्रतीयते । विशेषेण रचितानि पदानि यस्मिन्, तद् गीतं विरचितपदम्, तस्य भावः । विशेषेण रचितानि पदानि, किमिदं नाम ?
तत् समुच्यते ।
यथा कोऽपि चित्रकरोऽभीष्ट-चित्रनिर्माणात् प्राग् योगीव चित्तवृत्तिं समाधाय ततः क्रमेणैव रेखाङ्कन-स्थूलास्थूलाङ्ग-विधान-वर्णानुरञ्जनादि-द्वारा रूपविशेषं निर्माति
(१), सर्वथा तथैव गीतकारोऽपि भावयित्रीं प्रतिभां समवलम्ब्य तत्तद्भाव-संवेदनोद्भावन-क्षमैः शब्दार्थै-र्गीतानि प्रणयति, कल्पस्थायिनीं कीर्त्तिं च विन्दते । गीतानामियं विरचितपदता सन्दृश्यते शकुन्तलाया मदनलेखे :-

“तव न जाने हृदयं मम पुनः
कामो दिवापि रात्रावपि ।
निर्घृण ! तपति बलीयस्त्वयि
वृत्त-मनोरथाया अङ्गानि ॥”

अत्र कालिदासाभिमत-गीतस्य सर्वमपि वैशिष्ट्यजातं युगपदवाप्तुं शक्यते । ‘निर्घृण’ इति गोत्राङ्क-पुरस्सरं प्रकटयति स्व-मर्मव्यथां शकुन्तला विरचित-पदैः । गीतेऽस्मिन् प्रत्येकं पदं विशेषेण रचितं वर्त्तते । न कस्यचित् पदस्यानुपूर्वी परिवर्त्तयितुं शक्यते, न च पदं किमपि स्वयमपि पदान्तरेण विस्थापयितुं शक्यते । गीतेऽस्मिन् प्रत्येक-पदं निरतिशय-गभीरं सहृदयमात्र-वेदनीयं व्यङ्ग्यमर्थं प्रकटयति । नात्रावकाशो बृहद्-व्याख्यानस्येति कृत्वा परिहीयते सन्दर्भोऽत्रैव
(२)

हंसपदिका-गीतप्रसङ्गेऽपि कालिदासो दुष्यन्त-मुखेन गीत-वैशिष्ट्यान्तरं प्रस्तौति । गीत-श्रवण-समकालमेव व्याहरति राजा,
“अहो ! राग-परिवाहिनी गीतिः ।” विदूषकोऽपि पृच्छति, “किं तावद् गीत्या अवगतोऽक्षरार्थः ?”
ननु वाक्यद्वयमिदं गीत-संविधानकं प्रकाशयितुं सर्वथाऽलम् । अनेनैतदुक्तं भवति यद् गीति-र्नाम राग-परिवाहिनी । गीतं राग-विशेषेणैव गीयते देशकालादि-व्यवस्थानुरूपम् । अपरं चेदं वैशिष्ट्यं यद् गीतेरक्षरार्थो न भवति तावत् कामिनी-कुचकलशाविव सर्वजन-दर्शनीयः (संवेदनीयः) । तदभिप्रायो भवति प्रगूढ़ः ।

गीतयो राग-विशेषाश्रिता एव भवन्तीति प्रमाणीकरोति महामाहेश्वरोऽभिनवगुप्तपादाचार्योऽपि स्वोपज्ञाभिनव-भारत्याम् :-
“राघवविजय-मारीचवधादिकं रागकाव्यम् । तथा हि राघवविजयस्य हि ढक्‌क-रागेणैव विचित्र-वर्णनीयत्वेन निर्वाहः । मारीचवधस्य ककुभग्राम-रागेणैव । अतएव रागकाव्यान्युच्यन्त एतानि ।” (अभिनवभारती-चतुर्थाध्याये) ।

“तवास्मि गीत-रागेण हारिणा प्रसभं हृतः” इत्युपन्यस्यन्नपि कालिदासः गीतानां हारि-रागाश्रयत्वमेव द्रढ़यति । अतएव श्रोतृजन-चित्तवृत्ति-हरण-क्षमत्वं रागमयत्वं चेत्युभयमपि गीत-जीवातुभूतमिति सिद्धम् (३)

या किल गीतिः, सैव गीतं गानं चापि ।
“गीतं गानमिमे समे” इत्यमरः । “गीतं गानमिति प्रोक्तम्” इति हलायुधः । कालिदासाभिमतं गेयं चापि गीत-गान-पर्यायभूतमेव । नात्र कापि संशीतिः ।

महाकवि-कालिदासानन्तरं मृच्छकटिककारः शूद्रकोऽपि गीत-वैशिष्ट्यानि सविस्तरं निरूपयति । नायकश्चारुदत्तः कथयति प्रसङ्ग-विशेषे,

“साधु गीतं रेभिलेन ।
“रक्तञ्च नाम मधुरञ्च समं स्फुटञ्च
भावान्वितञ्च ललितञ्च मनोहरञ्च ।
किं वा प्रशस्त-वचनै-र्बहुभि-र्मदुक्तै-
रन्तर्हिता यदि भवेद् वनितेति मन्ये ॥”
(मृच्छकटिकम्)

एवं हि शूद्रक-मतेन गीतं स्याद् रक्तं मधुरं समं स्फुटं भावान्वितं ललितं मनोहरञ्च ।

किञ्च, कालिदास-शूद्रकयो-र्गीतविषयकेऽभिमते परिलक्ष्यते प्रभूत-संवादः । राग-परिवाहिनी गीतिरिति कालिदासः । रक्तं गीतमिति शूद्रकः । गीतरागेण हारिणेति निगदति कालिदासः । मनोहरं भवति गीतमिति शूद्रकः । विरचितपदं भवति गीतमिति कालिदासः । भावान्वितं भवतीति शूद्रकः । मधुर-ललित-सम-स्फुट-शब्दैः शूद्रको यद्यपि किञ्चिदधिकं वक्तुमुत्सहते, तथापि सर्वेऽप्येते गुणाः पर्यवस्यन्ति कालिदासोक्त-गीतवैशेष्ट्येष्वेव ।

सामवेद-गोमुखतः समुद्भूतेयं गीत-मन्दाकिनी भारतभूमि-कल्पं संस्कृत-वाङ्मयं पुनती ततःप्रभृतीदानीं यावदमन्दमनवच्छिन्नं प्रवहति । अनवच्छिन्नं प्रवहतीति मयोक्तम् । एकतस्तु साम-समवयस्का गीतिः । अपरतश्च ‘गीत’
(तवास्मि गीतरागेण) - ‘गीति’ (अहो राग-परिवाहिनी गीतिः) - ‘गेय’ (गेयमुद्‌गातुकामा) - संज्ञाभि-र्महाकविना कालिदासेन, पश्चाच्च शूद्रकेण विशदीकृतमिदं गीततत्त्वं कालान्तरे रागकाव्यानां प्रतिपाद्यं सञ्जातम् । राघवविजय-मारीचवधाख्यं रागकाव्यद्वयं समुदाहरति स्वयमभिनवगुप्तपादाचार्यो येन दशम-शतकात् ख्रैस्तात् पूर्वमेव रागकाव्यानामस्तित्वं प्रमाणितं भवति ।

परन्तु सम्प्रति समुपलब्धं प्राक्तनतमं रागकाव्यं तु महाकवि-जयदेव-विरचितं गीतगोविन्दमेव । तत्प्रवर्त्तित-रागकाव्य-परम्परायां समुपलभ्यन्ते बहूनि ग्रन्थरत्नानि । तद्यथा, कविनृपति-श्रीरामभट्ट-प्रणीतं गीत-गिरीशम्, सोमनाथ-प्रणीतं कृष्णगीतम्, भानुदत्त-प्रणीतं गीत-गौरीपति-काव्यम्, महाराज-श्रीविश्वनाथसिंह-प्रणीतं सङ्गीत-रघुनन्दनम्, कल्याण-कवि-प्रणीतं गीत-गङ्गाधरम्, श्यामराम-कवि-प्रणीतं गीत-पीतवसनम्, जयनारायण-प्रणीतं पार्वती-गीतं
(४) । प्रोफेसर्-राधावल्लभ-त्रिपाठि-प्रणीतं धीवर-गीतं मदुपज्ञं गीत-भारतं चेति विंश-शताब्दीयं काव्यद्वयमपि तामेव परम्परां पुष्णाति ।

अज्ञाः केचन पण्डितराज-जगन्नाथ-पर्यन्तमेव संस्कृत-युगं मन्यन्ते । किन्तु तन्न । परिवर्त्तितानि शासन-तन्त्राणि । परिवर्त्तितं युगम् । परिवर्त्तितं जीवन-मूल्यम् । परन्त्वपरिवर्त्तितं तिष्ठति संस्कृतम् । तदेव व्याकरणम् । तदेव भाषा-स्वरूपम् । सैव छन्दोविचितिः । सैव निगमागम-शास्त्र-दर्शन-परम्परा । तदेव प्रतिभा-प्रसूतं काव्य-प्रणयनम् । संस्कृत-काव्यमद्यापि गुण-रस-वृत्ति-समन्वितं जीवति । वर्त्तन्तेऽद्यापि भास-भवभूति-माघ-श्रीहर्ष-बाणभट्ट-जयदेव-कवित्व-प्रत्यायकाः संस्कृत-कवयो भारते वर्षे ।

विपरिवर्त्तिता केवलं देववाणीं प्रति लोकस्य दुग्ध-कुल्या दृष्टिः । पाश्चात्त्य-भाषा-संस्कृति-वेशभूषाचरणोच्छिष्टं भुञ्जाना भारतीया एव सम्प्रति मातृकल्पायां देववाण्यां न श्रद्दधते । शासनं संस्कृत-विरोधि सञ्जातम् । स्व-पूर्वजानां हर्म्य-भग्नावशेषेषु निखातं सुवर्णभाण्ड-सम्भारमजानन्तस्तद्वंश्या यथा निरतिशय-दुर्विधत्व-सङ्ग्रस्ताः सन्तो भैक्ष्येण वृत्तिं निर्वहन्ति, तथैव साम्प्रतिको भारतीय-समाजोऽपि संस्कृत-ज्ञान-विरहितः सन् सर्वविधं दौर्भाग्यमनुभवति । नियति-र्बलीयसी । सैव प्रत्यभिज्ञापयिष्यति प्राक्तन-वैभवम् ।

भवतु । पूर्वजन्मार्जित-संस्कार-महिम्ना संस्कृताध्ययनशीलानां मनस्तु संस्कृत एव रमते । रमते न मरालस्य मानसं मानसं विना । तदद्यापि सत्यम् । संस्कृतामृतपायिनः संस्कृतेनैव जीवन्ति, समस्त-पार्थिव-भोग-सम्पदं तृणं मन्यमानाः ।

ख्रैस्ते विंश-शताब्देऽपि देववाणी भारतीय-भाषान्तरापेक्षया सर्वथा समृद्धैव परिलक्ष्यते महाकाव्य-खण्डकाव्य-कथोपन्यास-नाटकादि-सतत-रचनया । तत्रापि गीति-परम्पराऽतिशेते । यद्यपि साम्प्रतिकाः सर्वेऽपि गीतिकारा रागकाव्यानि न प्रणयन्ति, समधिकास्तु मुक्त-गीतिकाराः, तथाप्येतत् स्वीकर्त्तुं शक्यते यद् गीति-परम्परयैवानया संस्कृत-कविता लोकप्रियतामवाप । इदानीं दूरदर्शन-रेडियो-प्रभृति-प्रसार-माध्यमै-र्मध्येजन-समवायं प्रतिष्ठिता संस्कृत-कविता भाषान्तर-कवितेव सर्वैरवगम्यतेऽभिनन्द्यते च ।

अर्वाचीन-संस्कृत-गीतिकारेषु लब्ध-प्रतिष्ठो मेहेरोपाह्वो डॉ. हरेकृष्णो निश्चप्रचं स्वकाव्य-गुणैः प्रथते । उत्कलस्थ-कलाहाण्डि-जनपदीये भवानीपत्तनस्थे शासकीय-महाविद्यालये संस्कृत-विभागाध्यक्ष-पद-दायित्वं निर्वहन्नपि सुरभारती-चरणेन्दीवर-मधुव्रतोऽहर्निशं बद्धपरिकरः संस्कृतोत्थानाय । उत्कलाङ्ग्ल-संस्कृत-हिन्दी-भाषासु समं विहित-श्रमः स साहित्यशिल्पी सुप्रथितानां बहूनां ग्रन्थानां कर्त्तेति स्फुटं ज्ञायते तत्परिचय-पत्रिकया । शास्त्र-मन्थनक्षमा प्रतिभा तस्य कुसुम-सुकुमारे काव्य-प्रणयनेऽपि समं प्रभवति ।

तस्यैव सुप्रथित-यशसो मेहेर-कवेरन्यतमा काव्यकृति-र्मातृगीतिकाञ्जलि-नाम्नी सम्प्रति प्रकाश्यते । गीतिकाव्येऽस्मिन् पञ्चविंशति-मितानि ललित-ललितानि गीतानि वर्त्तन्ते विविध-विषयीणि, यानि पाठं पाठं रसोद्रेक-मुकुलितं जायते सहृदय-मानसम् । गीतिकास्वासु क्वचिद् भारत-वसुन्धरोपचितिः, क्वचिद् विश्व-मङ्गल-कामना, क्वचिद् विविध-स्वरूपाया नार्याः शाश्वत-गुण-गरिम-गानम्, क्वचिदात्माभिज्ञानम्, क्वचित् त्र्यम्बक-यजनम्, क्वचित् कवि-कलाकार-प्ररोचना, क्वचित् प्रणय-सपर्या, क्वचिच्छैशवाभिशंसनम्, क्वचिच्च दशावतार-प्रशस्त्यादि सन्दृश्यते ।

सरल-सरलै-र्भाव-प्रतनन-क्षमैः पदैः प्रणीता इमा गीतिका गेयत्वं मनोहारित्वं लालित्यं भावान्वितत्वं चेति पूर्वोल्लिखित-गीत-वैशिष्ट्यजातं सम्यक्‌तया बिभ्रतीति सचेतस एवात्र प्रमाणम् । मौलिक्यो भावनाः प्रायेण सर्वास्वेव गीतिषु समुपलभ्यन्ते ।


जीवनस्य सुन्दरत्वं दर्शयन् सर्वभूतेषु सद्भावनां मानयन् जीवन-गीतिकायां निगदति कविः -
“पश्य मधुमयं विश्वमीश्वरं
प्रीतिं शान्तिं हृदि सर्वेषाम्,
साधय सारं परोपकारं
लभस्व कीर्त्तिं सफल-सुवेषाम् ।
मानवतायाः कलय महत्त्वं
चिरन्तनं परिचिन्तय तत्त्वं
सकलात्मनि सद्‌‍भावनम् ।
जीवनं सुन्दरं
सुन्दरं तनु-तपोवनम् ॥”


कोमल-कान्त-पदशय्या गीतानां प्रसह्य मनो हरति । विभु-गीतिकायां द्रष्टव्यमिदम् :-
“प्रकृति-पुरुषयोः स्वयंवरे,
भाव-विमुग्धे कलेवरे ।
सरस-सुमधुरे प्रियाधरे,
स्नेह-विगलिते नेत्र-झरे ।
दीव्यति भवतो द्रव्यत्वम्,
द्रव्यत्वम्, दिव्यत्वम्,
सर्वस्मिन् हे स्वामिन् !
त्वमसि त्वमसि त्वमसि त्वम् ॥”


कालपुरुष-महिमानं विशदयन् प्रकाशयति कविः समय-गीतिकायाम् :-
“क्वचिदुत्कर्षं क्वचिदपकर्षं
चित्रं रचयति भवतश्चक्रम्,
अबलं सबलं शुष्कं सजलं
स्वैरं कुरुते सरलं वक्रम् ।
अलङ्घनीयो नय-क्रमस्ते ।
समय ! नमस्ते, समय ! नमस्ते ॥”


विश्व-ब्रह्माण्डस्य सङ्गीतमयत्वं प्रतिपादयन् कवि-र्वदति सङ्गीत-गीतिकायाम् :-
“विधातुः प्राङ्गणं
विततं सङ्गीतमयम् ।
प्रकृत्याः प्रतिकणं
नियतं युत-ताल-लयम् ।
विततं सङ्गीतमयम् ॥”


नववर्ष-गीतिकायां सर्वेषां सौख्यं निरामयत्वं समङ्गलं काम्यते कविना :-
“हृदय-मन्दिरे प्रेम-ज्योति-र्विराजताम्,
मनोऽरविन्दं विन्दतु विमलं सुन्दरताम् ।
सुचिन्तनं चिरन्तनं
हरतु विषाद-विमर्षम्,
शुभं भवतु नववर्षम् ।
सौख्यमयं निरामयं
वितरतु परमं हर्षम् ॥”


भारत-जननी-वन्दन-रूपायां देश-गीतिकायां कविः प्रस्तौति :-

“अम्बुधि-विधौत-सुमधुर-चरण-विलासा,
गङ्गा-सलिले सलील-सुललित-हासा ।
कुसुमारामे रसभर-सुरभि-समीरा,
तरुवर-पुञ्जे रञ्जित-मञ्जु-शरीरा ।
विहङ्ग-ताने मङ्गल-गाने
श्यामल-शस्या विजयते ।
भारतमाता परम-नमस्या विजयते ।
स्वतन्त्रताया रण-वीराणां
सफल-तपस्या विजयते ॥”


एवमुदाहृता मातृगीतिकाञ्जलि-काव्यस्य मधुरभाव-प्रद्योतिनी कतिपय-पदावली सहृदयजनानां स्वान्त-रञ्जनाय । गीतिकानामन्यानि पदान्यपि सुधीभिः प्रणिधेयानि ।

श्रीहरेकृष्णमेहेर-प्रणीतानां गीतानां यद् वैशिष्ट्यं मामतितरां प्रभावयति, तदस्ति व्याकरण-नियमानुपालनम् । भट्टिमानिनामपि केषाञ्चिदर्वाचीन-कवीनां काव्येषु मया दृष्टा अक्षम्य-दोषाः । केचन भाषा-सरलीकरण-व्याजेनैव सर्वथाऽशुद्धां मनीषोद्वेजिनीं विचित्रामेव संस्कृत-भाषां लिखन्तः परिलक्ष्यन्ते । एतत् सर्वं सोढ़ुं नाहं क्षमः ।

भाषा-सरलीकरणस्य समर्थकोऽस्म्यहमपि । परन्तु सन्धि-समासादि-व्याकरण-नियमानुपालनं सर्वथाऽनिवार्यम् । कवि-तल्लजो हरेकृष्ण-मेहेरो व्याकरण-सम्मतामेव भाषां प्रयुनक्तीति महते प्रमोदाय संस्कृत-साहिती-धुरीणाम् । मातृगीतिकाञ्जलि-गीतै-र्निश्चप्रचमेव वागधिष्ठात्र्या भाण्डागारं समृद्धिमेष्यतीति मम दृढ़ो विश्वासः । गीतेष्वेषु प्रतिपदमनुस्यूता लय-वाहिताऽपि स्मारयत्यैवोत्कल-भाषा-लालित्यम् ।

मन्ये, साम्प्रतिके सहृदय-परिधौ ग्रन्थरत्नस्यास्य प्रशस्तिपरा चर्चा भविष्यति । सा चर्चैव कवेः सारस्वत-पुरस्कारः । शतायुष्यमुपयातु सरस्वती-मन्दिर-दीपोऽयं श्रीहरेकृष्ण-मेहेर-प्रख्य इति सप्रणयं कामयते,

मिश्रोऽभिराज-राजेन्द्रः.

(डॉ. अभिराज-राजेन्द्र-मिश्रः)
आचार्यः, संस्कृतविभागाध्यक्षश्च,
हिमाचल-प्रदेश-विश्वविद्यालयः, शिमला-५.
ता: २७-७-१९९६.
= = = = = = = =


[पादटीका]
(१) चित्रे निवेश्यादि (शाकुन्तले) ।
(२) सविस्तरं द्रष्टव्यं मदुपज्ञे शास्त्रालोचने, पृ. ६६-७३.
(भारतीय-संस्कृति-निकषे शकुन्तलाया मदन-लेखस्य काञ्चनत्वम्), अक्षयवट प्रकाशन, इलाहाबाद ।
(३) सविस्तरं द्रष्टव्यं मदुपज्ञे शास्त्रालोचने, पृ. २७-३६ (स्वातन्त्र्योत्तरं गीतिकाव्यम्: वाङ्मय-विश्लेषणम्)
(४) सर्वमेतत् प्रकाशितं कौशाम्बी -प्रकाशनेन (दारागञ्ज, इलाहाबाद) ।
= = = = = = = = =

No comments: