Devi Durge Namaste (Sanskrit Poem)
By : Dr. Harekrishna Meher
(From Sanskrit Kavya *Stavarchana-Stavakam*)
= = = = = = = = =
देवि दुर्गे ! नमस्ते (संस्कृत-कविता)
रचयिता : डॉ. हरेकृष्ण- मेहेरः
= = = = = = = = = =
माङ्गल्यानां त्वमसि जननी देवि दुर्गे ! नमस्ते
By : Dr. Harekrishna Meher
(From Sanskrit Kavya *Stavarchana-Stavakam*)
= = = = = = = = =
देवि दुर्गे ! नमस्ते (संस्कृत-कविता)
रचयिता : डॉ. हरेकृष्ण- मेहेरः
= = = = = = = = = =
माङ्गल्यानां त्वमसि जननी देवि दुर्गे ! नमस्ते
दौर्बल्यानां सबल-हरणी भक्ति-माल्यै-र्वरेण्या ।
त्वं शल्यानां समुपशमनी शैलजा शूलहस्ते !
वात्सल्यानां मधुर-झरणा देहि भद्रं शरण्या ॥ (१)
*
त्वं गायत्री निखिल-जगतामन्नपूर्णा प्रसन्ना
मेधा विद्या त्वमसि शुभदा शाम्भवी शक्तिराद्या ।
मर्त्त्ये लोके सकल-कलुषं नाशय स्वीय-धाम्ना
सिंहासीना कुरु सुकरुणां शङ्करी विश्ववन्द्या ॥ (२)
*
संसारश्री-र्जनय सुखदां भावनां सुप्रकाशां
शं शर्वाणी वितर तमसां ध्वंसिनी पावनी त्वम् ।
पापाचारैः प्रबल-मथितां दुष्टदैत्यै-र्निराशां
पृथ्वीमार्त्तां व्यथित-हृदयां त्राहि कात्यायनी
त्वम् ॥ (३)
*
रुद्राणी त्वं वितर सुभगं मातृका सन्मतीनां
शान्ति-र्धर्मः प्रसरतु जने त्वत्प्रसादैः शिवानि
!
घोरा काली भव कलियुगे घातिनी दुर्गतीनां
त्वं भक्तानामभय-वरदा भीममूर्त्ति-र्भवानि ! ॥ (४)
*
वन्दे मातस्तव सुविमलं पाद-राजत्-सरोजं
दुर्गे दुःखं हर दशभुजा देहि सानन्दमोजम् ।
त्वं पद्मास्या हसित-मधुरं सौरभं तन्वती स्वं
मोहस्तोमं हर सुमनसां पूजिता पाहि विश्वम् ॥
(५)
= = = = = =
= = = = = =
(This Poem as ‘Avaahani’ has been
published in ‘BARTIKA’ ,
Literary Quarterly, Dashahara Special Issue, October-December
2013,
Dasarathapur, Jajpur, Odisha.)
= = = = = =
Related Links :
Related Links :
Stavarchana-Stavakam (स्तवार्चन-स्तवकम्)
:
* *
*
Contributions of Dr. Harekrishna Meher to Sanskrit
Literature:
Link
:
*
Translated Kavyas by : Dr.Harekrishna Meher :
Link :