Asram Ajasram
Sanskrit Poem By: Dr. Harekrishna Meher
Sanskrit Poem By: Dr. Harekrishna Meher
*
अस्रमजस्रम् (संस्कृत-कविता)
रचयिता : डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = = = = = =
यत्र यत्र न्यायोपरि दृश्यते
अन्यायस्य सामयिकोऽपि ग्रासः,
अधर्मस्य धर्मोपरि निक्षिप्तः सन्त्रासः,
असत्यस्य सत्योपरि प्रहारात्मकःप्रासः,
अकारणमन्तर्देशो जायते
शङ्कित-भावोच्छ्वासः,
तत्र तत्र सहृदयानां नयन-द्वयम्
विमुञ्चति धीराश्रु-रयम्,
दुर्भावनान्दोलितं जायते हृदयम्,
अज्ञाताशङ्कया सभयं सविस्मयम् ।
वहति करुण-धारा निरर्गलम्,
भवति चित्तं धैर्य-च्युतं भीति-विह्वलम् ॥
यत्र यत्र न्यायस्य विजयो दृश्यते,
श्रूयतेसमनुभूयते पठ्यते ज्ञायते,
तत्र तत्र भवति नूनम्
सत्यस्य स्वरूपं
गहनम्
उन्मोचितम्, प्रकाशितम्,
विशदीकृतम्, प्रतिष्ठितम् ॥
विशदीकृतम्, प्रतिष्ठितम् ॥
तत् तद् दृष्ट्वा श्रुत्वा
समनुभूय पठित्वा ज्ञात्वावा
सहृदय-जनानां नयन-युगलम्
आन्तर-भाव-तरलम्
युगपत् सञ्जायते लोतक-परिषिक्तम्
अनिर्वचनीय-रसाप्लुतम् ॥
हृद्देशो जायते समङ्कितात्म-विश्वासः
प्रसन्नतायाःसन्निवासः ।
मानसं जायते समुच्छलम्
परमानन्द-सबलम् ॥
किं भवति तत् सत्यस्य रहस्यम् ?
किं तन् न्यायस्य सामञ्जस्यम् ?
किं तद् धर्मस्य सारस्यम् ?
किं वा सचेतसां सांमनस्यम् ?
एतल्लोतक-तल्लोतकयोर्मध्ये
परस्पर-भाव-वैविध्ये
केनावबुध्यते पार्थक्यम् ,
रसग्राहिणां समास्वादनैक्यम् ?
* * *
No comments:
Post a Comment