'Abalaa Mahabalaa' (Sanskrit Poem)
By: Dr. Harekrishna Meher
*
अबला महाबला (संस्कृत-कविता)
रचयिता : डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = = = = = =
= = = = = = = = = = = = = = = =
समाकर्षति सर्वतो धृत-माया
या विमोहयति यति-जन-चित्तम्,
अपहरति सा कुलिश-काया
अबलाख्याऽपि सबलानां बलं सवित्तम् ॥
असामाजिक-व्यभिचारेषु
अमानविक-गर्हित-व्यापारेषु
प्रदर्श्य बलात् प्रलोभनम्,
नारी खलु नारीं नियोजयितुं गहनम्
नात्मानं मन्यते कुण्ठिताम्,
न जानाति स्वां मर्यादां च विलुण्ठिताम् ॥
चिन्तयति नात्मानं पर-व्यथा-प्रमोदिनीं
स्वपदाश्रय-विटपच्छेदिनीं
कुलङ्कषां निम्नगां
पराङ्क-भेदिनीं दुर्भगां
काल-सर्पिणीमात्म-घातिनीम्
ईर्ष्या-दर्पिणीं दृश्य-बहुलां
तथाकथितां जननीं महाशङ्कु-सङ्कुलां
कन्या-भ्रूण-हननीं स्वजाति-निपातिनीम् ॥
विस्मरति स्वामप्रतीपाम्
सुप्रकाशित-कुल-प्रदीपाम्,
विस्मरति स्वां प्रिय-कन्याम्
स्नेहमयीं च भगिनीम्,
सन्तान-वत्सलां जननीं सुधन्याम्,
जायां च पत्युः सौभागिनीम्,
सुलक्षणां गृहलक्ष्मीमादर्श-स्थानीयाम्
सहानुभूतिशीलां महिलां पूजनीयाम्
ममतायाः प्रतिमां प्रियतमाम्
शक्ति-रूपिणीं देवीमनुपमाम् ।
महाबले ! जागृहि त्वं सद्गुण-सम्पन्ना
रम्या रमा स्वात्मबलं प्रपन्ना ॥
महाबले ! जागृहि त्वं सद्गुण-सम्पन्ना
रम्या रमा स्वात्मबलं प्रपन्ना ॥
* * *
No comments:
Post a Comment